रसविद्या - भाग ८

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


श्रीभैरवः ।

महाम्बुराशौ सरिति पर्वते काननेऽपि वा ।
रत्नानामाकरं देवि स्थानमाधेयगौरवात् ॥१॥

तेषु रक्षोविषव्यालव्याधिदोषहराणि च ।
प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च ॥२॥

प्रदुष्टेनोपजातानि जन्तुनोपहतानि च ।
दोषैस्तान्युपचीयन्ते हीयन्ते गुणसंपदा ॥३॥

रुब्य् > स्य्नोन्य्म्स्

माणिक्यं शोणरत्नं च रत्नराट् रविरत्नकम् ।
शृङ्गारि रङ्गमाणिक्यं तरलो रत्ननायकः ॥४॥

रागदृक् पद्मरागश्च रत्नं शोणोपलस्तथा ।
सौगन्धिकं लोहितकं कुरुविन्दं शरेन्दुकम् ॥५॥

नीलगन्धिक

माणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च ।

रुब्य् > परीक्षा > गोओद् ॠउअलित्य्

कुशेशयदलच्छायं स्वच्छं स्निग्धं गुरु स्फुटम् ॥६॥

वृत्तायतं समं गात्रं माणिक्यं श्रेष्ठम् उच्यते ।
परीक्षापरिशुद्धानां रत्नानां पृथिवीभृता ॥७॥

धारणं सर्वदा कार्यं श्रेयःश्रीकीर्तिकाङ्क्षिणा ।
ततस्तु शास्त्रतस्तेषां परीक्षादिकमुच्यते ॥८॥

माणिक्यभेदाः

यत् सिंहलं कालपुरम् अन्ध्रं तुम्बुरुसंस्थितम् ।
क्षेत्रं चतुर्विधं तस्य माणिक्यस्य समुद्भवे ॥९॥

सिंहले तु भवेद्रक्तं पद्मरागम् अनुत्तमम् ।
पीतं कालपुरोद्भूतं कुरुविन्दमिति स्मृतम् ॥१०॥

अशोकपल्लवच्छायम् अन्ध्रं सौगन्धिकं प्रिये ।
तुम्बुरौ छायमानीलं नीलगन्धि च कीर्तितम् ॥११॥

मध्यमे मध्यमं ज्ञेयं माणिक्यं क्षेत्रभेदतः ।
माणिक्यस्य गुणाः प्रोक्ताश्चत्वारो मुनिपुङ्गवैः ॥१२॥

स्निग्धच्छाया गुरुत्वं च नैर्मल्यम् अतिरक्तता ।

माणिक्यगुणाः

माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिहृत् ॥१३॥

भूतवेतालपापघ्नं कर्मजव्याधिनाशनम् ।
माणिक्यं च महापुण्यं महाभाग्यकरं परम् ॥१४॥

सर्वभूतग्रहोन्मादविषघ्नं दोषजित्परम् ।

मुक्ता

मुक्ता सौम्या मौक्तिकं शौक्तिकेयं तारं तारा शौक्तिकं तारका च ।
अम्भःसारं शीतलं नीरजं च नक्षत्रं स्याद् इन्दुरत्नं वलक्षम् ॥१५॥

मुक्ताफलं बिन्दुफलं च मुक्ता शौक्तेयकं शुक्तिमणिः शशिप्रियम् ।
स्वच्छं हिमं हैमवतं च शुभ्रं सुधांशुरत्नं च भसंख्यकाह्वम् ॥१६॥

पेअर्ल् > ओरिगिन्

मातङ्गोरगमीनपोत्रिशिरसस्त्वक्सारशङ्खाम्बुभृच्छुक्तीनाम् उदराच्च मौक्तिकमणिः स्पष्टं भवेदष्टधा ।
छायाः पाटलनीलपीतधवलास्तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिर् इतरच्छौक्तेयकं तूल्वणम् ॥१७॥

पेअर्ल् > परीक्षा > गोओद् ॠउअलित्य्

नक्षत्राभं शुद्धमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च ।
यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मौल्यं मौक्तिकं सौख्यदायि ॥१८॥

पेअर्ल् > मेदिच्. प्रोपेर्तिएस्

मौक्तिकं च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहम् ।
राजयक्षपरिकोपनाशनं क्षीणवीर्यबलपुष्टिवर्धकम् ॥१९॥

मौक्तिकं शिशिरं स्निग्धं विशदं कान्तिवर्धनम् ॥२०॥

दाहतृड्भ्रममूर्च्छासृक्पित्तज्वरविषापहम् ।
चक्षुष्यं पवनास्रपित्तविषजित् सर्वेन्द्रियाह्लादनं तृड्दाहज्वरशोकमोहशमनं शीतं श्रमघ्नं हितम् ।
धन्यं मङ्गलमायुषः स्थितिकरं सौभाग्यकान्तिप्रदं मुक्ता हारविभूषणं तद् अखिलं मूलं शशी प्रीयते ॥२१॥

चोरल् > स्य्नोन्य्म्स्

प्रवालोऽङ्गारकमणिर्विद्रुमो ऽम्भोधिपल्लवः ॥२२॥

भौमरत्नं च रक्ताङ्गो रक्ताङ्कुरलतामणिः ।

चोरल् > प्लचे ओf ओरिगिन्

सेतौ सागरमध्ये या जायते वल्लरी शुभा ॥२३॥

विद्रुमाख्या सुरक्ता सा दुर्लभा दीप्तरूपिणी ।

चोरल् > परीक्षा > गोओद् ॠउअलित्य्

पाषाणत्वं भजत्येषा पाकतः कठिना सती ॥२४॥

प्रवालनाम तद्रक्तं वर्णसौभाग्यकान्तिदम् ।
सिद्धं स्वच्छं स्निग्धरूपं वृत्तं कान्तं समं गुरु ॥२५॥

रङ्गगात्रं दृढं पिण्डं प्रवालं श्रेष्ठमुच्यते ।
पक्वबिंबफलाभासं जपाकुसुमसंनिभम् ॥२६॥

शुकतुण्डसमच्छायं प्रवालम् अतिशोभनम् ।

चोरल् > परीक्षा > बद् ॠउअलित्य्

शारदाभं दलं सूक्ष्मं वक्रं रूक्षं सकोटरम् ॥२७॥

विद्धं कृष्णं लघुतमं प्रवालं दोषकृद् भवेत् ।
गौररङ्गं जलाक्रान्तं प्रवालमशुभं त्यजेत् ॥२८॥

चोरल् > परीक्षा > गोओद् ॠउअलित्य्

प्रवालं कोमलं स्निग्धं सुरागं विद्रुमं हितम् ।
धनधान्यकरं मेध्यं विषाहिभयनाशनम् ॥२९॥

चोरल् > मेदिच्. प्रोपेर्तिएस्

प्रवालो मधुराम्लश्च कफपित्तादिदोषनुत् ।
वीर्यकान्तिकरः स्त्रीणां धृतो मङ्गलदायकः ॥३०॥

मरकत

मरकतं रौहिणेयं गारुत्मन्तं हरिन्मणिः ।
सौपर्णं गरुडोद्गीर्णं बुधरत्नाश्मगर्भजे ॥३१॥

गरलारिर् वायवीर्यं गारुडं रुद्रसंमितम् ।
तुरुष्कविषयांभोधौ समीरारोहणाचले ॥३२॥

तच्छायाश्यामलो देशः सो ऽभून्मरकताकरः ।
तद्विशेषान्मरकतं जातं दोषगुणान्वितम् ॥३३॥

दोषाः सप्तविधास्तस्य गुणाः पञ्चविधाः स्मृताः ।
भवेदष्टविधा छाया मणेर्मरकतस्य च ॥३४॥

अस्निग्धं रूक्षमित्युक्तं विस्फोटं पिटकं तथा ।
जठरं कान्तिहीनं च विच्छायं मलिनं तथा ॥३५॥

सशर्करं सपाषाणं कर्कशं सूत्रसंयुतम् ।
कल्माषवर्णं शबलं समस्तभयदायकम् ॥३६॥

निर्मलं कथितं स्वच्छं गुरु स्याद् गुरुदायुतम् ।
स्निग्धं रूक्षं विनिर्मुक्तम् अरजस्कम् अरेणुकम् ॥३७॥

सुरागं रागबहुलमिति पञ्च गुणाः स्मृताः ।
एतैर्युक्तं मरकतं सर्वपापहरं परम् ॥३८॥

मरकतं विषघ्नं च शीतलं मधुरं रसे ।
आमपित्तहरं रुच्यं पुष्टिदं भूतनाशनम् ॥३९॥

स्निग्धं मरकतं स्वच्छं सर्वदोषहरं शुभम् ।
कान्तिसौभाग्यदं मेध्यं भूतग्रहविषापहम् ॥४०॥

पुष्पराग > स्य्नोन्य्म्स्

पीतस्तु पुष्परागः पीतस्फुटिकं च पीतरत्नं च ।
पीताश्मा गुरुरत्नं पीतमणिः पुष्यरागश्च ॥४१॥

पुष्पराग > परीक्षा > त्रुए

ईषत् पीतं पविच्छायं स्वच्छं कान्त्या मनोहरम् ।
पुष्यराग इति ख्यातं रत्नं रत्नपरीक्षकैः ॥४२॥

पुष्पराग > परीक्षा > गोओद् ॠउअलित्य्

हेमच्छायं शिरोवृत्तं ज्योतिरङ्गारनिर्मलम् ।
पीतगात्रं गुरु स्निग्धं पुष्यरागं प्रशस्यते ॥४३॥

पुष्पराग > परीक्षा > बद् ॠउअलित्य्

रूक्षं क्षतलघु श्वेतं कृष्णं गौरं सशर्करम् ।
मलिनं बिन्दुमद्रत्नं पुष्यरागं न शस्यते ॥४४॥

पुष्पराग > मेदिच्. प्रोपेर्तिएस्

पुष्यरागोऽम्लशीतश्च वातजिद्दीपनः परम् ।
आयुः श्रियं च प्रज्ञां च धारणात्कुरुते नृणाम् ॥४५॥

पुष्यरागं शुभं मेध्यं वस्तुसौभाग्यकीर्तिदम् ।
वाक्पटुत्वकरं हृद्यं विषघ्नं दोषजित्परम् ॥४६॥

वज्र

वज्रमिन्द्रायुधं वीरं भिदुरं कुलिशं पविः ।
अभेद्यम् असिरं रत्नं दृढं भार्गवकं स्मृतम् ॥४७॥

वज्र > परीक्षा > गोओद् ॠउअलित्य्

स्वच्छं विद्युत्प्रभं स्निग्धं सुन्दरं लघु लेखनम् ।
षडारं तीक्ष्णधारं च सुसौम्यारं श्रियं दिशेत् ॥४८॥

वज्राकरा वज्रभेदाश्च

पौण्ड्रमतङ्गहिमाचलसौराष्ट्रसुपारकोसलकलिङ्गाः ।
पेण्णानदीतटश् चेत्यष्टौ वज्राकरा विनिर्दिष्टाः ॥४९॥

श्यामं प्रपौण्ड्रप्रभवं किंचित् पीतं मतङ्गगिरिजातम् ।
हिमवत्सुराष्ट्रसंभवम् आताम्रं कृष्णकान्ति सौपारम् ॥५०॥

फुल्लशिरीषच्छायं कोसलजं कनककान्ति कालिङ्गम् ।
पेण्णानदीतटोद्भवम् आहुर् वज्रं सुधांशुनिभम् ॥५१॥

कलिङ्गकोसलौ देशौ मतङ्गाद्रिहिमालयौ ।
सौराष्ट्रपौण्ड्रकौवेराकरसूपारकौ तथा ॥५२॥

कृतादिषु युगेष्वेतौ वज्राणामाकरौ स्मृतौ ।
आकरेष्वेव वज्राणां खनिः स्रोतः प्रकीर्णकम् ॥५३॥

समुत्पत्तिस्थलं त्रेधा निर्दिष्टं सुरनायिके ।
कोट्यः पार्श्वानि धाराश्च षडष्टौ द्वादशैव च ॥५४॥

इत्यच्छतीक्ष्णधाराग्रा वज्रस्याहुरथो गुणान् ।

वज्र > ५ दोषस्

मलो बिन्दुश्च रेखा च त्रासः काकपदं तथा ॥५५॥

एते दोषाः समाख्याताः पञ्च वज्रेषु संस्थिताः ।
कुर्यादशोधितं वज्रं कुष्ठदाहाङ्गगौरवम् ॥५६॥

हृत्पार्श्वपीडां पाण्डुं च ततस्तच्छुद्धिरुच्यते ।

वज्रशुद्धि

गृहीत्वाथ शुभ्रं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् ॥५७॥

महिषीशकृदालिप्य करीषाग्नौ विपाचयेत् ।
अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ॥५८॥

एवं पुनः पुनः पक्वं सप्तरात्राद्विशुध्यति ।
मेघनादाशमीश्यामाशृङ्गीमदनकोद्भवैः ॥५९॥

कुलुत्थवेतसागस्त्यसिन्धुवाराखुकर्णिकाः ।
एतेषां हयमूत्रेण कषायं साधितं पुनः ॥६०॥

जम्बीरे कुलिशं क्षिप्त्वा हयमूत्रैस्त्र्यहं पचेत् ।
डोलायन्त्रविधानेन ततः शुद्धिमवाप्नुयात् ॥६१॥

कुलुत्थकोद्रवक्वाथैर्डोलायन्त्रे विपाचयेत् ।
व्याघ्रीकन्दगतं वज्रं सप्ताहाच्छुद्धिमाप्नुयात् ॥६२॥

कुलत्थकोद्रवक्वाथं हयमूत्रं स्नुहीपयः ।
क्षिप्त्वा भाण्डे पचेत्तस्मिन् व्याघ्रीकन्दगतं पविम् ॥६३॥

डोलायन्त्रे दिवारात्रं समुद्धृत्य पुनः क्षिपेत् ।
वज्रकन्दे मृदा कन्दं लिप्त्वा गजपुटे पचेत् ॥६४॥

तत्पक्वं पाचनद्रावैः सेचितं शुद्धिमाप्नुयात् ।
व्याघ्रीकन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् ॥६५॥

अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ।
वज्रीक्षीरेण वा सिञ्च्यादेवं शुद्धं तु मारयेत् ॥६६॥

विप्रजातीयवज्रमारणम्

वक्ष्यते विप्रजात्यादेः शुद्धवज्रस्य मारणम् ।
अश्वत्थबदरीभण्डीमाक्षिकं कर्कटास्थि च ॥६७॥

समं स्नुक्पयसा पिष्ट्वा मूषामध्ये प्रलेपयेत् ।
तन्मध्ये प्रक्षिपेद्वज्रमौषधैस्तैस्ततः परम् ॥६८॥

वज्रमाच्छाद्य यत्नेन ततो मूषां निरोधयेत् ।
कुञ्जराख्येन पुटयेत्पुटेन महता पुनः ॥६९॥

विप्रजातीयकं वज्रं पुटेनैकेन सिध्यति ।
करवीरं मेषशृङ्गी दरदं च ह्युदुम्बरम् ॥७०॥

अर्कदुग्धैः समं पिष्ट्वा तत्कृते गोलके क्षिपेत् ।
वज्रं क्षत्रियजातीयं पूर्ववन्मारयेद् ध्रुवम् ॥७१॥

वैश्यजातीयवज्रमारणम्

सूरणं लशुनं शंखं शिलायां पेषयेत्समम् ।
बलामतिबलां गन्धं कच्छपास्थि च पेषयेत् ॥७२॥

उत्तरावारुणीदुग्धैस्तत्कृते गोलके क्षिपेत् ।
वज्रं तु वैश्यजातीयं पूर्ववत्तन्मृतं भवेत् ॥७३॥

शूद्रजातीयवज्रमारणम्

सूरणं लशुनं शङ्खं शिलां संपेषयेत्समम् ।
वटक्षीरेण तत्कॢप्ते गोलके पूर्ववत्पचेत् ॥७४॥

वज्रं तच्छूद्रजातीयं तेन सम्यग्भवेन्मृतम् ।
स्त्रीपुंवज्रं तु पूर्वोक्तैर्म्रियते तत्तदौषधैः ॥७५॥

चतुर्जात्यौषधैरेव मृतिर्वज्रे नपुंसके ।

वज्रमारण (१)

सामान्यः सर्ववज्राणां वक्ष्यते मारणक्रमः ॥७६॥

शुद्धं वज्रं मत्कुणानां रक्तैर्लिप्त्वा धमेत्पुनः ।
अग्निवर्णं क्षिपेन्मूत्रे गर्दभस्य पुनः पुनः ॥७७॥

लेपितं ध्मापितं तद्वदेवं कुर्यात्त्रिसप्तधा ।
तालकं मत्कुणैः पिष्ट्वा तस्मिन्गोले क्षिपेत्तु तम् ॥७८॥

रुद्ध्वा मूषां धमेद्गाढं हयमूत्रे विनिक्षिपेत् ।
समुद्धृत्य पुनस्तद्वत्सप्तवारैर्मृतो भवेत् ॥७९॥

वज्रमारण (२)

मेषशृङ्गं भुजङ्गास्थि कूर्मपृष्ठं शिलाजतु ।
गन्धकं कान्तपाषाणं मुनिपुष्पं सतालकम् ॥८०॥

त्रिक्षारं पञ्चलवणं मेषशृङ्गीन्द्रवारुणी ।
वज्रवल्ली मूषकर्णी बदरी कुड्मलानि च ॥८१॥

मूषकस्य मलं स्तन्यं स्नुह्यर्कक्षीरमत्कुणम् ।
पञ्चाङ्गं शरपुंखस्य ह्यस्थिनी खरमेषयोः ॥८२॥

पेटारिबीजं स्त्रीपुष्पं पारावतमलं शिला ।
पुष्पाणि चैव वाकुच्याः पञ्चाङ्गं तिमिरस्य च ॥८३॥

धात्रीवृक्षस्य पञ्चाङ्गं गोरम्भा वाजिमूत्रकम् ।
हंसपादी वज्रकन्दं बृहतीफलसूरणम् ॥८४॥

गोजिह्वा कर्कटं मांसं मूत्रवर्गं च मिश्रयेत् ।
एतत्समस्तं व्यस्तं वा यथालाभं सुपिण्डितम् ॥८५॥

तत्पिण्डे निक्षिपेद्वज्रमन्धमूषागतं पुटेत् ।
कुलुत्थकोद्रवं पिष्ट्वा हयमूत्रे विलोलयेत् ॥८६॥

तन्मध्ये सेचयेत्तप्तां मूषापुटविनिर्गताम् ।
एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ॥८७॥

आदाय तत्पुनर्वज्रं ताले मत्कुणपेषिते ।
गोलके निक्षिपेद् रुद्ध्वा मूषां तीव्रानले धमेत् ॥८८॥

इत्येवं सप्तधा ध्मातं हयमूत्रे निषेचयेत् ।
अनेन क्रमयोगेन मृतो भवति निश्चितम् ॥८९॥

तन्मृतं चूर्णयेत् खल्वे सिद्धयोग उदाहृतः ।

वज्रमारण (३)

भ्रामकं च मृतं ताप्यं पेटालीबीजटङ्कणम् ॥९०॥

क्षीरं चोत्तरवारुण्या गन्धकं तालकं शिला ।
चिञ्चाबीजं मेषशृङ्गी स्त्रीपुष्पं चाम्लवेतसः ॥९१॥

पञ्चाङ्गं शरपुंखायाः शशदन्तं शिलाजतु ।
एतत्समस्तं व्यस्तं वा यथालाभं सुचूर्णयेत् ॥९२॥

स्नुह्यर्कोत्तरवारुण्याः क्षीरैः स्तन्यैर्विमर्दयेत् ।
तद्गोलके क्षिपेद् वज्रं रुद्ध्वा चैतान्धमेद्दृढम् ॥९३॥

गुडूची सैन्धवं हिङ्गु समुस्तोत्तरवारुणी ।
क्वाथैः कौलुत्थकैः पिष्ट्वा तस्मिन्क्वाथे विनिक्षिपेत् ॥९४॥

तं वज्रं पूर्ववद्गोले कृत्वा रुद्ध्वा धमेत्तथा ।
सेचनान्तं ततः कुर्यादेकविंशतिवारकम् ॥९५॥

तालकं मत्कुणायोगे सप्तवारं पुनर्धमेत् ।
सेचयेदश्वमूत्रेण तद् वज्रं म्रियते ध्रुवम् ॥९६॥

वज्रमारण (४)

त्रिवर्षीयोत्थकार्पासमूलमादाय पेषयेत् ।
त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् ॥९७॥

तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ।
एवं सप्तपुटैः पक्वमेकैकेन कृतं भवेत् ॥९८॥

वज्रमारण (५)

तालकासीससौराष्ट्रीमपामार्गस्य भस्म च ।
पिष्ट्वा कौलुत्थकैः क्वाथैस्तस्मिन्वज्रं सुतापितम् ॥९९॥

क्षिपेत्त्रिसप्तवाराणि म्रियते नात्र संशयः ।
वैक्रान्तभस्मना सार्धं पेषयेदम्लवेतसम् ॥१००॥

तद्गोले निक्षिपेद्वज्रमन्धमूषागतं धमेत् ।
सेचयेदश्वमूत्रेण पूर्वगोले पुनः क्षिपेत् ॥१०१॥

रुद्ध्वा ध्मातः पुनः सेच्यमेवं कुर्यात् त्रिसप्तधा ।
म्रियते नात्र सन्देहः सर्वयोगेषु योजयेत् ॥१०२॥

वज्रमारण (७)

उत्तरावारुणीक्षीरैः कान्तपाषाणजं मुखम् ।
क्षणं पिष्ट्वा तु तद्गोलं क्षिप्त्वा तस्मिन्पचेद्दिनम् ॥१०३॥

नृतैले गन्धतैलेन म्रियते नात्र संशयः ।

वज्रमारण (८)

भूनागं गन्धकं चाथ नारीस्तन्येन पेषयेत् ॥१०४॥

तद्गोलस्थं पचेद्वज्रं पूर्वतैले मृतं भवेत् ।

वज्रमारण (९)

स्नुहीक्षीरेण विमलां पिष्ट्वा तद्गोलके क्षिपेत् ॥१०५॥

वज्रं निरुध्य मूषां तु शुष्कां तीव्राग्निना धमेत् ।
क्षिप्तामश्वस्य मूत्रे तु क्षिप्त्वा वज्रं समाहरेत् ॥१०६॥

इत्येवं सप्तधा कुर्यात्ततस्तालकमत्कुणैः ।
पिष्ट्वा गोलं क्षिपेत्तस्मिन्वज्रमूषां निरुध्य च ॥१०७॥

ध्मापितं पूर्ववत्सेच्यं सप्तवारैर्मृतं भवेत् ।

वज्रमारण (१०)

वज्रं मत्कुणरक्तेन लिप्त्वा लिप्त्वातपे क्षिपेत् ॥१०८॥

शुष्कं लेप्यं पुनः शोष्यं यावत्सप्तदिनावधि ।
विष्णुक्रान्तापेटकार्योर् द्रवैः सिञ्चेत्पुनः पुनः ॥१०९॥

तप्तं तप्तं च तद्वज्रं शतवारैर्मृतं भवेत् ।

वज्रमारण (११)

गन्धकं चूर्णितं भाव्यं स्त्रीपुष्पेण तु सप्तधा ॥११०॥

पुनः स्त्रीरजसालोड्यं तस्मिन् वज्रं सुतापितम् ।
सेचयेत्तापयेदेकविंशद्वारान्मृतं भवेत् ॥१११॥

वज्रमारण (१२)

वज्रं नदीमहाशुक्तौ क्षिप्त्वा भाव्यं मुहुर्मुहुः ।
स्नुह्यर्कोत्तमकन्यानां द्रवेणैकेन चातपे ॥११२॥

कृष्णककटमांसेन पेषितं वेष्टयेत्पुनः ।
भूनागस्य मृदा सम्यग्धृतं भस्मत्वमाप्नुयात् ॥११३॥

वज्रमारण (१३)

रक्तमूलस्य मूलैश्च मेघनादस्य कुड्मलैः ।
पेषितैर्वेष्टितं ध्मातं वज्रं भस्म भवत्यलम् ॥११४॥

वज्रमारण (१४)

मातुलुङ्गगतं वज्रं रुद्ध्वा लिम्पेन्मृदा बहिः ।
पुटे पचेत्समुद्धृत्य तद्वच्छतपुटे पचेत् ॥११५॥

वज्रमृदूकरण (१)

नागपर्णीद्रवैर्लिप्तं तत्पत्रेणैव वेष्टितम् ।
जानुमध्ये स्थितं यामं तद् वज्रं मृदुतां व्रजेत् ॥११६॥

वज्रमृदूकरण (२)

मातृवाहकबीजस्य मध्ये वज्रं विनिक्षिपेत् ।
जम्बीरोदरगं वाथ दोलायन्त्रे दिनं पचेत् ॥११७॥

कुलुत्थकोद्रवक्वाथे त्रैफले वा कषायके ।
अहोरात्रात्समुद्धृत्य जम्बीरान्तः पुनः क्षिपेत् ॥११८॥

मातृवाहकबीजे वा पचेत्प्रक्षिप्य पूर्ववत् ।
पुनः क्षेप्यं पुनः पाच्यं त्रिदिनान्ते समुद्धरेत् ॥११९॥

बदरीवटनिम्बानामङ्कुराणि समाहरेत् ।
पिष्ट्वा तद्गोलके वज्रं पूर्वपक्वं विनिक्षिपेत् ॥१२०॥

अश्वत्थपत्रके वेष्ट्य तद्गोलं जानुमध्यगम् ।
दिनं वा धारयेत्कक्षे मृदुर्भवति निश्चितम् ॥१२१॥

वज्रमृदूकरण (३)

पारदं तीक्ष्णचूर्णं च दिनमम्लेन मर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं सूत्रेणावेष्टयेद्बहिः ॥१२२॥

नागवल्लीदलैश्चैव वेष्टितं धान्यराशिगम् ।
मासान्ते तत्समुद्धृत्य लिम्पेन्नागलताद्रवैः ॥१२३॥

तद्दलैर्वेष्टितं जानुमध्यस्थं मृदुतां व्रजेत् ।

वज्रमृदूकरण (४)

कान्तपाषाणवक्त्रं वा चूर्णं वा कान्तलोहजम् ॥१२४॥

ससूतमम्लयोगेन दिनमेकं विमर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं निम्बकार्पासकोद्रवैः ॥१२५॥

पत्रैः पिष्टैः सुसंपेष्य नागवल्लीदलैस्ततः ।
वेष्टितं जानुमध्यस्थं दिनान्ते मृदुतां व्रजेत् ॥१२६॥

वज्रमृदूकरण (५)

एरण्डवृक्षमध्ये तु तत्फले वा क्षिपेत्पविम् ।
मासमात्रात्समुद्धृत्य जानुमध्ये च पूर्ववत् ॥१२७॥

कोमलं जायते वज्रं दिनान्ते नात्र संशयः ।

वज्रमृदूकरण (६)

वज्रं तित्तिरिमांसेन वेष्टितं निक्षिपेन्मुखे ॥१२८॥

अतिस्थूलस्य भेकस्य मुखं सूत्रेण वेष्टयेत् ।
निखनेद्धस्तमात्रायां क्षोण्यां मासात्समुद्धरेत् ॥१२९॥

मण्डूकं सम्पुटे रुद्ध्वा सम्यग्गजपुटे पचेत् ।
तद्वज्रं पूर्वगोलस्थं जानुमध्यगतं दिनम् ॥१३०॥

भवेद्वज्रौदनं साक्षात्पश्चादाहार्य योजयेत् ।
सर्ववज्रौदनानां तु मारणं पूर्ववद्भवेत् ॥१३१॥

वज्रद्रुति

क्षारत्रयं रामठं च चणकाम्लाम्लवेतसम् ।
ज्वालामुखीं चेक्षुरकं स्थलकुम्भीफलानि च ॥१३२॥

स्नुह्यर्कपयसा श्लक्ष्णं पिष्ट्वा तद्गोलके क्षिपेत् ।
वज्रं विशोधितं सम्यग्वस्त्रे बद्ध्वा हठात्पचेत् ॥१३३॥

डोलायन्त्रेण धान्याम्ले द्रुतं मासाष्टकाद्भवेत् ।
वज्रवल्ल्यन्तरस्थं वा कृत्वा वज्रं निरोधितम् ॥१३४॥

अम्लभाण्डगतं सेच्यं सप्ताहाद् द्रवतां व्रजेत् ।
भस्मौदनं द्रुतिश्चेति त्रिविधं वज्रमारणम् ॥१३५॥

रसबन्धकरं प्रोक्तं नागार्जुनपुरःसरैः ।

वज्रगुणाः

वज्रं च षड्रसोपेतं सर्वरोगापहारकम् ॥१३६॥

सर्वाघशमनं सौख्यं देहदार्ढ्यं रसायनम् ।
वज्रं रत्नोत्तमं पुण्यं श्रीसौभाग्यविवर्धनम् ॥१३७॥

आयुष्यं धन्यमोजस्यं यशस्यं सर्वपाप्मजित् ।
आयुर्बलं देहसौख्यं रूपं कान्तिं करोति च ॥१३८॥

सेवितं हन्ति रोगांश्च मृतं वज्रं न संशयः ।

नील

नीलस्तु सौरिरत्नं स्यान्नीलाश्मा नीलरत्नकः ॥१३९॥

नीलोपलस्तृणग्राही महानीलः सुनीलकः ।
इन्द्रनीलमणिस्तत्र चतुर्धा जातिभेदतः ॥१४०॥

सप्फिरे > सुब्त्य्पेस् > चस्ते

सितच्छायो भवेद्विप्रो रक्तः क्षत्रियजातिकः ।
पीतस्तु वैश्यजातिर्यो वृषलः कृष्णदीधितिः ॥१४१॥

नीलस्य गुणदोषाः

नीलीरससमाभासा वैष्णवीपुष्पसंनिभा ।
लवलीपुष्पसङ्काशा नीलेन्दीवरसप्रभा ॥१४२॥

अतसीपुष्पसङ्काशा चाषपक्षसमद्युतिः ।
कृष्णत्रिकर्णिकापुष्पसमानद्युतिधारिणी ॥१४३॥

मयूरकण्ठसच्छाया शम्भोः कण्ठनिभा तथा ।
विष्णुदेहसमाभासा भृङ्गपत्रसमप्रभा ॥१४४॥

एताश्छायाः शुभकरा इन्द्रनीलमहामणेः ।
गुरुत्वं स्निग्धकान्तित्वं सुरागं पार्श्वरञ्जनम् ॥१४५॥

तृणग्राहित्वमित्येते गुणाः पञ्च प्रकीर्तिताः ।
न विम्लो निर्मलो गात्रो मसृणो गुरुदीप्तिकः ॥१४६॥

तृणग्राही मृदुर्नीलो दुर्लभो लक्षणान्वितः ।
इन्द्रनीलं शुभं वर्ण्यं सर्वपापनिबर्हणम् ॥१४७॥

आयुर्यशो बलं लक्ष्मीमारोग्यं च प्रयच्छति ।
नीलः सतिक्तकोष्णश्च कफपित्तानिलापहः ॥१४८॥

यो दधाति शरीरेऽस्य सौरिर् मङ्गलदो भवेत् ।

गोमेदक

गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः ॥१४९॥

स्वर्भानवः षडाह्वोऽयं पिङ्गस्फटिक इत्यपि ।
गोमूत्राभं यन्मृदु स्निग्धमुष्णं शुद्धच्छायं गौरवं यच्च धत्ते ।
हेमारक्तं श्रीमतां योग्यमेतत् गोमेदाख्यं रत्नम् आख्याति सन्तः ॥१५०॥

मधुबिन्दुसमच्छायं गोमूत्राज्यसमप्रभम् ॥१५१॥

हेमरक्तं गुरु स्वच्छं स्निग्धं गोमेदकं शुभम् ।
श्वेतं कृष्णं रङ्गहीनं त्रासरेखादिदूषितम् ॥१५२॥

कर्कशं पाटलाकारं दुष्टं गोमेदकं त्यजेत् ।

गोमेदगुणाः

मेध्यं गोमेदकं रत्नं यशस्यं श्रीविवर्धनम् ॥१५३॥

मङ्गल्यं कान्तिजननं स्निग्धं सर्वविषापहम् ।
गोमेदकोऽम्लमुष्णं च वातकोपविकारजित् ॥१५४॥

दीपनं पाचनं चैव धृतोऽयं पापनाशनः ।

वैडूर्य

वैडूर्यं केतुरत्नं च खशब्दाङ्कुरजं तथा ॥१५५॥

विडूरभूमिजं रत्नं प्रावृष्यं पञ्चनाम च ।
कल्पान्तकालक्षुभिताम्बुराशिनिदाहकल्पाद् दितिजेन्द्रनादात् ।
वैडूर्यमुत्पन्नमनेकवर्णं शोभाभिरामद्युतिरत्नवर्यम् ॥१५६॥

अविदूरे विडूरस्य गिरेर् उत्तुङ्गरोधसः ॥१५७॥

कोङ्कचोलकसीमान्ते मणेस्तस्याकरः स्मृतः ।
तत्र दैत्येन्द्रनिनदं प्रति मेघसुगर्जितैः ॥१५८॥

समुद्भवन्ति वैडूर्यमणयः प्रावृडागमे ।
सिताभ्रधूमसङ्काशमीषत्कृष्णं सितं तु यत् ॥१५९॥

वैडूर्यं नाम तत्प्रोक्तं रत्नवर्णपरीक्षकैः ।
वेणुपत्रबिडालाक्षिशिखिकण्ठसमद्युति ॥१६०॥

स्निग्धगात्रं गुरु स्वच्छं वैडूर्यं गुणवन्मतम् ।
रेखाभिन्नं लघु स्पष्टं शिलाङ्गारककर्दमम् ॥१६१॥

विवर्णं परुषं कृष्णं वैडूर्यं दोषवत्त्यजेत् ।

वैडूर्यलक्षण

वैडूर्यं विशदं स्निग्धं प्रीत्यायुर्बलवर्धनम् ॥१६२॥

मङ्गल्यं धारणात्तद्धि सर्वग्रहविषापहम् ।
वैडूर्यमम्लमुष्णं च कफमारुतनाशनम् ॥१६३॥

गुल्मशूलप्रशमनं भूषितं च शुभावहम् ।

पञ्चरत्नानि

माणिक्यं मौक्तिकं वज्रं नीलं मरकतं तथा ॥१६४॥

पञ्चरत्नम् इति प्रोक्तं पाप्मालक्ष्मीविषापहम् ।

नवरत्नानि

गोमेदकं पुष्परागं वैडूर्यमपि विद्रुमम् ॥१६५॥

पञ्चरत्नैः सहैतानि नवरत्नानि निर्दिशेत् ।

सूर्यकान्त

अथ भवति सूर्यकान्तः तपनमणिस्तापनश्च रविकान्तः ।
दीप्तोपलोऽग्निगर्भो ज्वलनाश्मार्कोपलश्च वसुनामा ॥१६६॥

स्फटिक

श्वेताभ्रकसमं वर्णैर्हिमाद्रौ चन्द्रसन्निभम् ॥१६७॥

निर्मलं च प्रभायुक्तं स्फटिकं श्रेष्ठमुच्यते ।
हिमालये सिंहले च विन्ध्ये रेवातटे तथा ॥१६८॥

पद्मरागोद्भवे स्थाने विविधं स्फटिकं भवेत् ।
सूर्यकान्तं च तत्रैकं चन्द्रकान्तं तथापरम् ॥१६९॥

सूर्यांशुस्पर्शमात्रेण वह्निं वमति तत्क्षणात् ।
सूर्यकान्तं तदाख्यातं स्फटिकं रत्नवेधितम् ॥१७०॥

सूर्यकान्तो भवेदुष्णो निर्मलश्च रसायनम् ।
वातश्लेष्महरो मेध्यः पूजनाद्रवितुष्टिदः ॥१७१॥

चन्द्रकान्त

इन्दुकान्तश्चन्द्रकान्तश्चन्द्राश्मा संस्रवोपलः ।
शीताश्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ॥१७२॥

स्निग्धं श्वेतं पीतम् अत्रासमन्ताद् धत्ते चित्तं स्वस्थतां यन्मुनीनाम् ।
यच्च द्रावं याति चन्द्रांशुसङ्गे जात्यं रत्नं चन्द्रकान्ताख्यमेतत् ॥१७३॥

चन्द्रकान्तस् तु शिशिरः स्निग्धः पित्तास्रदाहनुत् ।
शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मीविषापहः ॥१७४॥

स्फटिक

स्फटिकः सितोपलः स्याद् अमलमणिस् तारकोपलः स्वच्छः ।
शीतोष्णवीर्यम् अक्ष्णः पित्तं वातं निहन्ति शोफघ्नम् ॥१७५॥

पुरा प्रोक्तं हि कान्तस्य मया ते लक्षणादिकम् ।
वैक्रान्तं चैव विक्रान्तं नीलवज्रं कुवज्रकम् ॥१७६॥

गोनासं क्षुद्रकुलिशं चूर्णवज्रं च गोनसम् ।
श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः ॥१७७॥

श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि स ।
वज्राभावे तु वैक्रान्तं रसवीर्यादिके समम् ॥१७८॥

अष्टास्रश् चाष्टफलकः षट्कोणो मसृणो गुरुः ।
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ॥१७९॥

कुलुत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति ।
त्रिक्षारैः पञ्चलवणैर्वसामूत्राम्लकोद्रवैः ॥१८०॥

मत्स्यतैलघृतैस्तुल्यैः कुलुत्थैः काञ्जिकान्वितैः ।
सप्ताहं दोलिकायन्त्रे व्याघ्रीकन्दगतं पचेत् ॥१८१॥

वैक्रान्तभस्म

तप्तवर्णं तु वैक्रान्तं शुद्धिमायाति निश्चितम् ।
हयमूत्रेण तत्सेच्यं तप्तं तप्तं द्विसप्तधा ॥१८२॥

ततश्चोत्तरवारुण्याः पञ्चाङ्गैर् गोलके क्षिपेत् ।
रुद्ध्वा मूषां पुटे पक्त्वा पुनरुद्धृत्य गोलके ॥१८३॥

क्षिप्त्वा रुद्ध्वा पुटेदेवं सप्तधा भस्मतां व्रजेत् ।

वैक्रान्तसत्त्व (१)

वैक्रान्तस्य पलैकं तु पलैकं टङ्कणस्य च ॥१८४॥

रविक्षीरे दिनं भाव्यं मर्द्यं शिग्रुद्रवैर्दिनम् ।
गुञ्जापिण्याकवह्नीनां प्रतिकर्षं वियोजयेत् ॥१८५॥

अनेन गुलिका कृत्वा कोष्ठीयन्त्रे धमेद्दृढम् ।
शङ्खकुन्देन्दुसङ्काशं सत्वं वैक्रान्तजं भवेत् ॥१८६॥

वैक्रान्तसत्त्व (२)

वैक्रान्तं वज्रकन्दं च समं स्नुक्पयसा सह ।
महिषीनवनीतं च सक्षौद्रं मर्दयेद्दिनम् ॥१८७॥

पूर्ववद्धमनात्सत्वमिन्द्रगोपनिभं भवेत् ।

वैक्रान्तसत्त्व (३)

वन्ध्याचूर्णं सवैक्रान्तं छायायां मर्दयेत्समम् ॥१८८॥

अजामूत्रैर्दिनैकं तु सत्त्वं रजतवद्भवेत् ।

वैक्रान्तसत्त्व (४)

म्रियते ऽष्टपुटैर्गन्धनिम्बुकद्रवसंयुतः ॥१८९॥

सत्त्वपातनयोगेन मर्दितश्च वटीकृतः ।
मूषायां घटिकां ध्मातो वैक्रान्तः सत्त्वमुत्सृजेत् ॥१९०॥

वैक्रान्तद्रुति

श्वेतवर्णं तु वैक्रान्तमम्लवेतसभावितम् ।
सप्ताहान्नात्र सन्देहः खरे घर्मे द्रवत्यलम् ॥१९१॥

केतकीस्वरसं तुत्थं सैन्धवं स्वर्णपुष्पिकम् ।
इन्द्रगोपसमं युक्तं सर्वं भाण्डे विनिक्षिपेत् ॥१९२॥

सप्ताहं स्वेदयेत्तस्मिन्वैक्रान्तं द्रवतां व्रजेत् ।
आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषमदापहारी ।
दीप्ताग्निकृत् पविसमानगुणस्तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ॥१९३॥

राजावर्त

आवर्तमणिरावर्तो राजावर्तोऽनलाह्वयः ॥१९४॥

राजावर्तरसस्याथ लक्षणं कथयाम्यहम् ।
वर्णेन भ्रमराभः स्याद् द्विःप्रकारः प्रकर्मतः ॥१९५॥

एकश्चूर्णाकृतिर्ज्ञेयो द्वितीयो गोलकात्मकः ।
स्वर्णबिन्दुसमायुक्तः स्थिररागः स्थिरत्वदः ॥१९६॥

रसदोद्भवरागस्य वर्णोत्कर्षेऽतिदक्षिणः ।
नागस्य रञ्जने श्रेष्ठस्तारे रञ्जनकर्मणि ॥१९७॥

सर्वेषां चलरागाणां रागबन्धनकृन्मतः ।
राजावर्तो ऽल्परक्तोरुनीलिकामिश्रितप्रभः ॥१९८॥

गुरुश्च मसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः ।
निम्बुद्रवैः सगोमूत्रैः सक्षारैः स्वेदिताः खलु ॥१९९॥

द्वित्रिवारेण शुध्यन्ति राजावर्तादिधातवः ।

राजावर्तभस्म

लुङ्गाम्बुगन्धकोपेतो राजावर्तो विचूर्णितः ॥२००॥

पुटनात् सप्तवारेण राजावर्तो मृतो भवेत् ।

राजावर्तसत्त्व

राजावर्तम् अयःपात्रे पाचयेन्माहिषैर्घृतैः ॥२०१॥

पयोभिश्च दिनं चैकं मित्रपञ्चकमिश्रितम् ।
रजन्या पञ्चरात्रेण पिण्डीभूतं तु कारयेत् ॥२०२॥

खादिराङ्गारयोगेन कोष्ठ्यां सत्वं विमुञ्चति ।
प्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः ॥२०३॥

दीपनः पाचनो वृष्यो राजावर्तो रसायनः ।

गरुडोद्गार

सस्यको गरुडोद्गारः कालजिद् विषसारकः ॥२०४॥

कालकूटविषं पीत्वा गरुडः सोढुमक्षमः ।
तदा निर्गत्य तच्चञ्चोर् बहुधा सस्यकोऽभवत् ॥२०५॥

महारसः सस्यकः स्यात्प्रभाभिः पञ्चभिर्युतः ।
धवलो मेचकः पीतो हरितश्चातिलोहितः ॥२०६॥

अतिस्थितो वीतिहोत्रः सर्वतः सर्वरूपभाक् ।
धवलो हरितश्चैव शस्यते तारकर्मणि ॥२०७॥

लोहितो मेचकः पीतः शस्यते हेमकर्मणि ।
सस्यकः सर्वरोगघ्नो विषमृत्युभयापहः ॥२०८॥

विमल

विमलो निर्मलः स्वच्छो विमलः स्वच्छधातुकः ।
बाणसंख्याभिधं शस्तं तारहेम द्विधाकृतः ॥२०९॥

विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्विकः ।
तृतीयः कांस्यविमलस्तत्र कान्त्या स लक्ष्यते ॥२१०॥

वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः ।
मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः ॥२११॥

पूर्वो हेमक्रियासूक्तो द्वितीयो वृष्यकर्मणि ।
तृतीयो भेषजे तेषु पूर्वपूर्वो गुणोत्तरः ॥२१२॥

विमलशुद्धि

आटरूषरसे स्विन्नो विमलो विमलो भवेत् ।
कदलीकन्दतोयेन विमलं प्रथमं पचेत् ॥२१३॥

अम्लवेतसधान्याम्लमेषीमूत्रे ततः पचेत् ।
डोलायन्त्रे चतुर्यामं शुद्धिरेषां महोत्तमा ॥२१४॥

कार्कोटीमेषशृङ्ग्युत्थैर् द्रवैर् जंबीरजैर् दिनम् ।
भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम् ॥२१५॥

विमलसत्त्व

विमलं शिग्रुतोयेन कांक्षीकासीसटङ्कणैः ।
वज्रकन्दसमायुक्तैर्भावयेत्कदलीरसैः ॥२१६॥

मोक्षकक्षारसंयुक्तमन्धमूषागतं धमेत् ।
सत्वं चन्द्रार्कसङ्काशं पतत्यस्य न संशयः ॥२१७॥

पेरोज

हरिताश्मा च पेरोजो विषारातिर्हरिन्मणिः ।
रसवीर्यविपाकेषु सस्यकस्य गुणानुगः ॥२१८॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP