संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार २| भाग ७ रसविद्या प्रकार २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० रसविद्या - भाग ७ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग ७ Translation - भाषांतर श्रीभैरवः ।रीतिः क्षुद्रसुवर्णं सितकनकं पिङ्गलं च पित्तलकम् ।लोहितकमारकूटं पिङ्गललोहं च पीतकं नवधा ॥१॥ब्रस्स् > सुब्त्य्पेस्रीतिका काकतुण्डीति द्विविधं पित्तलं भवेत् ।ब्रस्स् > परीक्षासंतप्ता काञ्जिके क्षिप्ता ताम्राभा रीतिका मता ॥२॥एवं या जायते कृष्णा काकतुण्डीति सा मता ।ब्रस्स् > परीक्षा > गोओद् ॠउअलित्य्गुर्वी मृद्वी च पीताकपोताभा साराङ्गी ताडनक्षमा ॥३॥सुस्निग्धा मसृणाङ्गी च रीतिरेतादृशी शुभा ।शुद्धा स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्त्रिणी ॥४॥हेमोपमा शुभाश्वत्था जात्या रीतिः प्रकीर्तिता ।ब्रस्स् > परीक्षा > बद् ॠउअलित्य्पाण्डुः पीता खरा रूक्षा बर्बरा घट्टनाक्षमा ॥५॥पूतिगन्धा तथा लघ्वी रीतिर्नेष्टा रसादिषु ।रीतिगुणाःरीतिस्तिक्तरसा रूक्षा जन्तुघ्नी सास्रपित्तनुत् ॥६॥कृष्णा कुष्ठहरा योगादुष्णवीर्या च शीतला ।राजरीति > प्रोपेर्तिएस्काकतुण्डी कृतस्नेहा राजरीतिगुणानुगा ॥७॥राजरीतिस्तु निर्दिष्टा रीतिकासदृशी गुणैः ।ब्रस्स् > मेदिच्. प्रोपेर्तिएस्रीतिकायुगलं रूक्षं सतिक्तं लवणं सरम् ॥८॥शोभनं पाण्डुवातघ्नं बलवीर्यायुर्वर्धनम् ।रीतिका कटुतिक्तोष्णा प्लीहानाहनिबर्हणी ॥९॥रूक्षा कफास्रपित्तं च हन्यात्स्वादु प्रयोजिता ।राजरीति > स्य्नोन्य्म्स्राजरीतिः काकतुण्डी राजपुत्री महेश्वरी ॥१०॥ब्राह्मणी ब्रह्मरीतिश्च कपिला पिङ्गलापि च ।कांस्यकांस्यं सौराष्ट्रिकं घोषं कंसीयं वह्निलोहकम् ॥११॥दीप्तलोहं घोषयुष्यं दीप्तकं च नवाह्वयम् ।ब्रोन्शे > प्रोदुच्तिओन्अष्टभागेन ताम्रेण द्विभागकुटिलेन च ॥१२॥विद्रुतेन भवेत्कांस्यं तत्सौराष्ट्रभवं शुभम् ।ब्रोन्शे > परीक्षा > गोओद् ॠउअलित्य्तीक्ष्णशब्दं मृदु स्निग्धम् ईषच्छ्यामलशुभ्रकम् ॥१३॥निर्मलं दाहरक्तं च षोढा कांस्यं प्रशस्यते ।श्वेतदीप्तं मृदुज्योति शब्दाढ्यं स्निग्धनिर्मलम् ॥१४॥घनाग्निसहसूत्राङ्गं कांस्यमुत्तममीरितम् ।ब्रोन्शे > परीक्षा > बद् ॠउअलित्य्तत्पीतं दहने ताम्रं घनं रूक्षं घनासहम् ॥१५॥मन्दनादं गतज्योति सप्तधा कांस्यम् उत्सृजेत् ।ब्रोन्शे > मेदिच्. प्रोपेर्तिएस्घृतमेकं विना चान्यत्सर्वं कांस्यगतं नृणाम् ॥१६॥भुक्तमारोग्यसुखदं हितं सात्म्यकरं तथा ।कांस्यं तु लघुतिक्तोष्णं लेखनं दृक्प्रसादनम् ॥१७॥कृमिकोष्ठहरं वातपित्तघ्नं भोजने हितम् ।वर्तलोहवर्तलोहं वर्ततीक्ष्णं वर्तकं लोहसंकरः ॥१८॥नीलिका नीललोहं च लोहकं वट्टलोहकम् ।कांस्यार्करीतिलोहाहिजातं तद्वर्तलोहकम् ॥१९॥तदेव पञ्चलोहाख्यं लोहविद्भिरुदाहृतम् ।तद्भाण्डसाधितं सर्वमन्यव्यञ्जनपूर्वकम् ॥२०॥अम्लेन वर्जितं चातिदीपनं पाचनं शुभम् ।वर्तलोहशुद्धिमारणम्द्रुतमश्वजले क्षिप्तं वर्तलोहं विशुध्यति ॥२१॥म्रियते गन्धतालाभ्यां पुटितं वर्तलोहकम् ।तेषु तेषु विभागेषु योजनीयं यथाविधि ॥२२॥वर्तलोहं कटूष्णं च तिक्तं च शिशिरं तथा ।कफजित्पित्तशमनं मधुरं दाहमेहनुत् ॥२३॥रूक्षं रुच्यं कृमिघ्नं च नेत्र्यं मलविशोधनम् ।पित्तलादीनां शोधनभस्मविधिःत्रिक्षारं पञ्चलवणं सप्तधाम्लेन भावयेत् ॥२४॥कांस्यारघोषपत्राणि तेन कल्केन लेपयेत् ।रुद्ध्वा पुटेद्गजपुटे शुद्धिमायाति नान्यथा ॥२५॥ताम्रवन्मारणं तेषां कृत्वा सर्वत्र योजयेत् ।मृतानि लोहान्यमृतीभवन्ति निघ्नन्ति युक्तानि महामयांश्च ।अभ्यासयोगाद्दृढदेहसिद्धिं कुर्वन्ति रुग्जन्मजराविनाशम् ॥२६॥नागेन स्वर्णं रजतं च ताप्यैः गन्धेन ताम्रं शिलया च नागम् ।तालेन वङ्गं त्रिविधं तु लोहं नारीपयो घ्नन्ति च हिङ्गुलेन ॥२७॥तथाभ्रसत्वं बलिनोपलोहं वज्रेण सूतं विनिहन्ति सद्यः ॥२८॥अभ्रकसत्त्ववज्राभ्रकस्य सत्सत्वं वक्ष्यामि शृणु भैरवि ।चतुर्धाभ्रकसत्वं स्यात्कठिनं मृदुलं द्रुतिः ॥२९॥बीजं च गुणवज्ज्ञेयं तत्क्रमाद् उत्तरोत्तरम् ।सत्त्वपातनायाभ्रकसिद्धिःधान्याभ्रकं रविक्षीरे घर्मे स्थाप्यं दिनावधि ॥३०॥तच्छ्लक्ष्णं पेषयेत्पट्टे शरावे तं निरोधयेत् ।सम्यक् पचेद्गजपुटे रविक्षीरे पचेत्पुनः ॥३१॥मर्दनं पुटपाकं च कुर्यादेवं तु सप्तधा ।तथा जम्बीरनीरे च निचुलस्य रसे तथा ॥३२॥एतत् सिद्धघनं श्रेष्ठं निश्चन्द्रं सत्त्वपातने ।घनमारकसारैर् वा व्यस्तैर् वाथ समस्तकैः ॥३३॥पिष्ट्वा धान्याभ्रकं श्लक्ष्णं रुद्ध्वा गजपुटे पचेत् ।लाक्षागुग्गुलुदग्धोर्णासर्जसर्जरसं पटु ॥३४॥शशास्थि क्षुद्रमत्स्याश्च हरिद्रा मित्रपञ्चकम् ।पञ्चमाहिषकं चापि भल्लातं च समं समम् ॥३५॥सर्वतुल्यं सिद्धघनं निश्चन्द्रं पेषयेद्दिनम् ।तत्सर्वं तेन वटकाः कार्यास्ते कर्षमात्रकाः ॥३६॥कोष्ठीयन्त्रे धमेद्गाढमङ्गारैः खदिरोद्भवैः ।त्रियामधमनाद् एव सत्त्वं पतति निर्मलम् ॥३७॥कठिनं सूक्ष्मरवकं काचटङ्कणवर्जितम् ।त्रिवारमेवं कुर्वीत तत्किट्टैः सत्त्वपातने ॥३८॥अभ्रकमृदुसत्त्व (१)पुनरन्यं प्रवक्ष्यामि मृदुसत्त्वं सुरेश्वरि ।गुग्गुलुं टङ्कणं गुञ्जां सर्जसर्जरसं गुडम् ॥३९॥क्षुद्रमीनं यवक्षारं काचपिण्याकसूरणम् ।भूलता त्रिफला वह्निः क्षीरकन्दं पुनर्नवम् ॥४०॥धुत्तूरं लाङ्गली पारा बला गन्धकसेवकम् ।गोक्षीरं पञ्चलवणं सर्वं च द्विगुणं मधु ॥४१॥षड्बिन्दु क्षुद्रशंबूकमस्थीनि शशकस्य च ।पारावतमलं त्र्यूषमिन्द्रगोपं सशिग्रुकम् ॥४२॥गोधूमसर्षपं ताप्यं छागक्षीरेण मर्दयेत् ।एवं व्यस्तं समस्तं वा याममात्रेण मर्दितम् ॥४३॥अस्य पिण्डस्य भागैकं द्विभागं सिद्धम् अभ्रकम् ।पञ्चमाहिषभागैकं सर्वमेकत्र लोडयेत् ॥४४॥कर्षाभा वटिकाः कार्याः किंचिच्छायाविशोषिताः ।खदिराङ्गारसंतप्ते कोष्ठीयन्त्रे क्षिपेत्क्षिपेत् ॥४५॥घुटीपञ्चकपञ्चैव वङ्कनाले धमेद्दृढम् ।मृदुसत्त्वं भवेच्छुभ्रं रुग्जरामृत्युनाशनम् ॥४६॥त्रिवारमेवं कुर्वीत तत्किट्टं सत्त्वपातनम् ।अनेन क्रमयोगेन कान्तसस्यकमाक्षिकम् ॥४७॥कठिनोपरसाश्चान्यैः शुद्धा भूनागमृत्तिका ।मुञ्चन्ति द्रुतिसङ्घातं गृह्णन्तीमं पृथक्पृथक् ॥४८॥अभ्रकमृदुसत्त्व (२)अभ्रसत्वं समादाय समांशं काचटङ्कणम् ।दत्त्वा दत्त्वा त्रिवारं तद्वज्रमूषागतं धमेत् ॥४९॥अम्लवर्गं स्नुहीपत्रं बिम्बीबीजं सवल्कलम् ।कल्कयेत्तत्र संतप्तं सप्तवारं निषेचयेत् ॥५०॥मृदु शुभ्रं भवेत् तस्य रुग्जरामृत्युनाशनम् ।अभ्रकमृदुसत्त्वम् (३)सिद्धाभ्रं दशभागं स्याच्छुद्धभागं त्रिभागकम् ॥५१॥टङ्कणं माक्षिकं सूतं भागैकं च सुशोधितम् ।ऊर्णासर्जयवक्षारं भागं भागं विमिश्रयेत् ॥५२॥मर्द्यं मूत्राम्लवर्गाभ्यां यथा प्रोक्तं दिनावधि ।अजापञ्चाङ्गसंयुक्तं पूर्ववत् सत्त्वपातनम् ॥५३॥कृत्वादाय मृतं साक्षान्निर्मलं मृदु जायते ।अभ्रकबीजपाकबीजपाकं प्रवक्ष्यामि घनस्यैतत्परं हितम् ॥५४॥सिद्धाभ्रकं शतपलं स्वर्णरूप्यार्ककान्तकम् ।रसत्रिगन्धमाक्षीकं विमलाभूलताद्रिजम् ॥५५॥नीलाञ्जनं च कङ्कुष्ठं कासीसं दरदं तथा ।प्रत्येकं दशनिष्कं स्यात्ततो गैरिकटङ्कणम् ॥५६॥इन्द्रगोपं गुडं गुञ्जा मधु सर्पिश्च गुग्गुलुः ।सर्जक्षारो यवक्षारो मत्कुणा नवपञ्चकम् ॥५७॥क्षुद्रमीनशशास्थीनि माहिषं शृङ्गमालकम् ।पृथक्पृथक्पञ्चमूलं पञ्चमाहिषं मर्दयेत् ॥५८॥तेषां च वटिका कार्या किंचिच्छायाविशोषिता ।पूर्ववत् पातयेत् सत्त्वं रुग्जरादैन्यमृत्युहृत् ॥५९॥बीजसत्वमिदं श्रेष्ठं वैद्ये वादे रसायने ।अभ्रकसत्त्वनिर्मलीकरणनिर्मलीकरणं वक्ष्ये घनसत्वस्य पार्वति ॥६०॥तत्सत्वं कणशः कृत्वा मित्रपञ्चकसंयुतम् ।मूषायां तद्विनिक्षिप्य काचं तदधरोत्तरम् ॥६१॥रुद्ध्वा हठाग्नौ धमयेत्खदिराङ्गारयोगतः ।एवं क्रमेण धमयेत्सप्तधा निर्मलं भवेत् ॥६२॥ससत्वं निर्मलीभूतं लोहखल्वे विचूर्णयेत् ।मर्दयेत् त्रिफलाक्वाथैर् यामं घर्मे विशोषयेत् ॥६३॥पाकं पुटं च विधिवत्कुर्यादेवं पुनः पुनः ।चत्वारिंशत्पुटं कुर्यादेवं मार्कवजैर्द्रवैः ॥६४॥पृथक्पञ्चामृतैः पञ्चपुटं चेक्षुरसैस् त्रिधा ।उदयादित्यसङ्काशं घनसत्वं सुसिद्धिदम् ॥६५॥अभ्रकसत्त्वसिन्दूरविधि (१)चूर्णीकुर्याल्लोहखल्वे निर्मलीकृतमभ्रकम् ।निष्काणां शतकं तस्मिन् निष्कैकं गन्धकं क्षिपेत् ॥६६॥पेषयेद्दिनमेकं तु कुमारीरसयोगतः ।यामं तत्तापयेद् घर्मे ततो गजपुटे पचेत् ॥६७॥एवं शतपुटं कुर्याद्गन्धं दद्यात्पुनः पुनः ।सिन्दूरपाटलच्छायम् अभ्रसत्वं भवेच्छिवे ॥६८॥अभ्रकसत्त्वसिन्दूरविधि (२)घनसत्वं सुविमलं लोहखल्वे विचूर्णयेत् ।शतनिष्कं ततस्तस्मिन् निष्कार्धं माक्षिकं क्षिपेत् ॥६९॥अर्कक्षीरैर्दिनं मर्द्य रुद्ध्वा गजपुटे पचेत् ।एवं शतपुटं कुर्यान्माक्षीकं च पुटे पुटे ॥७०॥एतत्स्यात् सत्त्वसिन्दूरं रुग्जरामृत्युनाशनम् ।अभ्रकसत्त्वसिन्दूरविधि (३)तत्सत्वं रवकान्हित्वा लोहखल्वे सुबुद्धिमान् ॥७१॥मर्दयेल्लोहदण्डेन वराक्वाथसमन्वितम् ।याममात्रं खरे घर्मे स्थापयेल्लोहपात्रगम् ॥७२॥स्थालीपाकं खरं कृत्वा रात्रौ गजपुटे पचेत् ।एवं सप्तपुटं कुर्यान्मार्कवस्वरसैस्तथा ॥७३॥कुमारीस्वरसैस्तद्वच्चित्रमूलरसैस्तथा ।नीलीपत्ररसैस्तद्वत्पुनर्नवरसैस्तथा ॥७४॥मेघनादद्रवैः सप्त क्वाथैर्वटजटोद्भवैः ।एवं सुसूक्ष्मचूर्णं तु शतांशं गन्धकं क्षिपेत् ॥७५॥मर्दयेदारनालेन घर्मे स्थाल्यां पुटे पचेत् ।एवं दशदिनं कुर्यात् पुनस्ताप्यं शतांशतः ॥७६॥क्षिप्त्वारनालैः संमर्द्य घर्मे स्थाल्यां पुटे पचेत् ।एवं दशदिनं कुर्यात्पुनः पञ्चामृतैः पचेत् ॥७७॥पञ्चपञ्चेक्षुजरसैः पञ्चधा पुटमाचरेत् ।सिन्दूराभेऽभ्रभसिते निक्षिपेच्छुद्धहिङ्गुलम् ॥७८॥विंशत्यंशं घनस्याथ स्तन्यैः संमर्द्य संपुटे ।रुद्ध्वाथ भूधरे यन्त्रे क्षिप्त्वा लघुपुटं विधेत् ॥७९॥एवं विंशत्पुटं कुर्याद् दत्त्वा दत्त्वाथ हिङ्गुलम् ।अनेन क्रमयोगेन सत्वं सिन्दूरसन्निभम् ॥८०॥अयं सामान्यसंस्कारो विशेषस्तु निगद्यते ।यद्यद्रोगहरैर् द्रव्यैस् तत्तद्रोगहरं भवेत् ॥८१॥अभ्रकसत्त्वसिन्दूरविधि (४)घनसत्वं सुविमलं लोहखल्वे विचूर्णयेत् ।मुण्डीपत्ररसैर् मर्द्यं दिनं गजपुटे पचेत् ॥८२॥एवं दशपुटं कार्यं निर्गुण्डीस्वरसैस्तथा ।तथा वटजटाक्वाथैः पेटारीमूलजै रसैः ॥८३॥ककुभस्य रसैस्तद्वज्जम्बूत्वक्स्वरसैस्तथा ।एवं षष्टिपुटं कार्यं ततस्तस्मिन्विनिक्षिपेत् ॥८४॥विंशत्यंशेन दरदं स्तन्यैः संमर्दयेद् दिनम् ।ततस्तत्सम्पुटे रुद्ध्वा भूधरे तु पुटं लघु ॥८५॥एवं विंशतिधा कुर्यात्सिन्दूराभं भवेद्ध्रुवम् ।स्थालीपाकस्थालीपाकस्त्रिधा प्रोक्तो मृदुर् मध्यः खरात्मकः ॥८६॥पङ्कोत्करसमः पूर्वः पिण्डपाकस्तु मध्यमः ।तृतीयः खरपाकः स्याद् वालुकासदृशः प्रिये ॥८७॥स्थालीपाको रसे युक्तः संयुक्तो दरदेन वा ।मृदुमध्यमपाकाभ्यां कर्तव्यो भूधरे ततः ॥८८॥क्षिप्त्वा लघुपुटे देयं रसहिङ्गुलवर्जितः ।खरपाकः प्रकर्तव्यो विधिर्गजपुटे पचेत् ॥८९॥लोहभस्मनाममृतीकरणविधिःसर्वेषां मारितानां च लोहानामभ्रकस्य च ।वक्ष्यामि परमं गुह्यममृतीकरणं शृणु ॥९०॥त्रिफलोत्थकषायस्य भागानादाय षोडश ।गोघृतस्य पलान्यष्टौ मृताभ्रकपलान्दश ॥९१॥एकीकृत्वा लोहपात्रे पाचयेन्मृदुवह्निना ।द्रवे जीर्णे समादाय सर्वयोगेषु योजयेत् ॥९२॥अनुपानं विना ह्यभ्रं जरामृत्युरुजापहम् ।योजयेदनुपानैर्वा तत्तद्रोगहरं भवेत् ॥९३॥कठिनस्याभ्रसत्वस्य सिन्दूरं पलितं वलिम् ।इन्द्रियाणां पटुत्वं च पत्राभ्रकगुणा अपि ॥९४॥मृदुसत्वस्य सिन्दूरं सर्वामयनिबर्हणम् ।वलीपलितदारिद्र्यमृत्युघ्नं सुरसायनम् ॥९५॥त्रिदोषशमनं सौम्यं दीपनं पाचनं शुभम् ।निहन्ति ज्वरजालं च ग्रहणीमतिसारकम् ॥९६॥अश्मरीं मूत्रकृच्छ्रं च क्षयं पाण्डुहलीमकम् ।दुर्नाममेहकुष्ठानि वातजान् पित्तजानपि ॥९७॥कफजान्दुस्तरान्रोगान् विद्रध्यादिव्रणानपि ।नानाविधानि शूलानि पुंस्त्रीवन्ध्यत्वभञ्जनम् ॥९८॥यद्यद्रोगहरैर् योगैस् तत्तद्रोगनिबर्हणम् ।पारदे ये गुणाः सन्ति बीजसत्वेऽपि ते गुणाः ॥९९॥मण्डूर, शुद्धिअक्षाङ्गारैर्धमेत् किट्टं लोहजं तद्गवां जलैः ।सेचयेदक्षपात्रान्तः षड्वारं च पुनः पुनः ॥१००॥मण्डूरोऽयं समाख्यातः शुद्धं श्लक्ष्णं नियोजयेत् ।गोमूत्रे त्रिफला क्वाथ्या तत्क्वाथे सेचयेच्छनैः ॥१०१॥मण्डूरभस्मलोहकिट्टं सुतप्तं च यावच्छीर्यति तत्स्वयम् ।तच्छीर्णं ग्राहयेत्पेष्यं मण्डूरं यं प्रयोजयेत् ॥१०२॥ये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टके ।तस्मात्सर्वत्र मण्डूरं रोगशान्त्यै प्रयोजयेत् ॥१०३॥किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शतोन्मितम् ।तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात् कुरुते गुणम् ॥१०४॥मण्डूरं पाण्डुशोषार्शोग्रहणीकामलापहम् ।सर्वशूलप्रमेहघ्नं दीपनं परमं हितम् ॥१०५॥शीतं तिक्तं कषायाम्लं हृद्रोगप्लीहनाशनम् ।रसादिमारणायद्रव्यमानम्रसेन्द्रं शोधयेद्देवि पलानां द्विसहस्रकम् ॥१०६॥सहस्रं वा शतं वापि पञ्चाशद्वा तदर्धकम् ।न कुर्याद्रसकर्माणि हीनं वै पञ्चविंशतेः ॥१०७॥लोहस्य पचनं त्रिंशत्पलादूर्ध्वं न कारयेत् ।अर्वाक् पञ्चपलाद्देवि घनसत्वं तथा पचेत् ॥१०८॥स्वर्णं पञ्चपलाद् ऊर्ध्वं पलादर्वाङ्न शोधयेत् ।तथा रूप्यं च ताम्रं च शोधयेन्मारयेत् प्रिये ॥१०९॥लोहवद्घनसत्वं च घनपत्रं तथैव च ।हीनं पञ्चपलादूर्ध्वं न कुर्यात्पलविंशतेः ॥११०॥द्रावणं शोधनं देवि मारणं नागवङ्गयोः ।वज्रं निष्कादधश्चोर्ध्वं न कुर्याच्छोधनं मृतिम् ॥१११॥पद्मरागादिरत्नानि तथा कुर्यात्सुरेश्वरि ॥११२॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP