रसविद्या - भाग ३
रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.
श्रीभैरवः ।
रौप्यं शुभ्रं वसुश्रेष्ठं रुचिरं चन्द्रलोहकम् ।
रजतं तप्तरूप्यं च चन्द्रभूतिस्तु रौप्यकम् ॥१॥
कलधौतं च सौधं च चन्द्रहासं च तारकम् ।
रजतभेदाः
सहजं खनिसंजातं कृत्रिमं च त्रिधा मतम् ॥२॥
रजतं पूर्वपूर्वं हि स्वगुणैरुत्तरोत्तरम् ।
कैलासाद्यद्रिसम्भूतं सहजं रजतं भवेत् ॥३॥
तत्स्पृष्टं हि महाव्याधिनाशनं देहिनां भवेत् ।
हिमाचलादिकूटेषु यद्रूप्यं जायते हि तत् ॥४॥
खनिजं कथ्यते तज्ज्ञैः परमं हि रसायनम् ।
श्रीरामपादुकान्यस्तं वङ्गं यद्रूप्यतां गतम् ॥५॥
तत्पादरूप्यमित्युक्तं कृत्रिमं सर्वरोगनुत् ।
ग्राह्याग्राह्यरजतस्वरूपम्
घनं स्निग्धं गुरु स्निग्धं दाहे छेदे सितं मृदु ॥६॥
वर्णाढ्यं चन्द्रवत्स्वच्छं दाहे छेदे समप्रभम् ।
शङ्खाभं मसृणं स्फोटरहितं रजतं शुभम् ॥७॥
दाहे रक्तं च पीतं च कृष्णं रूक्षं स्फुटं लघु ।
स्थूलाङ्गं कर्कशाङ्गं च रजतं त्याज्यमष्टधा ॥८॥
कठिनं कृत्रिमं रूक्षं विवर्णं समलं दलम् ।
दाहे छेदे घने नष्टं मध्यमं रजतं मतम् ॥९॥
करोति तापं विड्भेदं क्षयं शुक्लबलायुषाम् ।
न शुद्धं न मृतं तारं तस्माच्छुद्धं च मारयेत् ॥१०॥
रजतशुद्धि
नागेन टङ्कणेनैव द्रावितं शुद्धिमृच्छति ।
तारं त्रिवारं निक्षिप्तं तैले ज्योतिष्मतीभवे ॥११॥
तप्तं तप्तं तारपत्रं सेचयेच्छुद्धिम् आप्नुयात् ।
पिशाचसंभवे यद्वा प्रक्षिप्तं शुद्धिमाप्नुयात् ॥१२॥
रजतं दोषनिर्मुक्तं नागोत्तीर्णं समाहरेत् ।
श्वेतकुम्भोद्भवे नीरे ढालयेत्सप्तवारकान् ॥१३॥
रजतभस्म (१, २, ३)
कुरण्डमुनिपुष्पोत्थसलिलैः संप्रमर्दयेत् ।
तारपत्राणि लिप्तानि पुटयेच्च वनोत्पलैः ॥१४॥
म्रियते नात्र सन्देहः लिप्तं वा रसभस्मना ।
अम्लवर्गप्रलिप्तेन पूर्ववत्पुटयोगतः ॥१५॥
म्रियते तालकं सूतं वङ्गमम्लेन पेषयेत् ।
तारपत्राणि संलिप्य पुटित्वा भस्मतां नयेत् ॥१६॥
म्रियते गन्धयोगाद्यैर् वैष्णवेन विपद्यते ।
रजतभस्म (४)
स्नुहीक्षीरैः पचेत्ताप्यं तारपत्राणि लेपयेत् ॥१७॥
रुद्ध्वा गजपुटे पक्त्वा पूर्वोक्तैः पाचयेत्पुनः ।
चत्वारिंशत्पुटैरेवं पचेत्तारं मृतं भवेत् ॥१८॥
रजतभस्म (५)
भूधात्रीं माक्षिकं तुल्यं पिप्पलीं सैन्धवाम्लकैः ।
लिप्त्वा तारस्य पत्राणि रुद्ध्वा सप्तपुटैः पचेत् ॥१९॥
द्रवैः पुनः पुनः पिष्ट्वा म्रियते नात्र संशयः ।
रजतभस्म (६)
लिकुचद्रवसूताभ्यां तारपिष्टीं प्रकल्पयेत् ॥२०॥
रुद्ध्वाधो गन्धकं दत्त्वा मूषागर्भे निरुध्य च ।
स्वेदयेद् वालुकायन्त्रे दिनमेकं दृढाग्निना ॥२१॥
स्वाङ्गशीतलतां पिष्टिं साम्लतालेन मर्दितम् ।
पुटेद्द्वादशवाराणि भस्मीभवति रूप्यकम् ॥२२॥
रजतभस्म (७)
माक्षिकं चूर्णलुङ्गाम्लमर्दितं पुटितं शनैः ।
त्रिंशद्वारेण तत्तारं निरुत्थं भस्म जायते ॥२३॥
रागः स्यात् सर्वलोहानां पुटाधिक्ये न संशयः ।
रजतभस्म (८)
तारपत्त्रं चतुर्भागा भागैकं शुद्धतालकम् ॥२४॥
मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् ।
शोषयेदन्धयेत्तं च त्रिंशद्वनोत्पलैः पुटेत् ॥२५॥
चतुर्दशपुटैरेवं निरुत्थं म्रियते ध्रुवम् ।
रजतभस्म (९)
रौप्यपत्रं चतुर्भागा भागैकं मृतवङ्गकम् ॥२६॥
अथवा गन्धभागैकं लेप्यं जम्बीरपेषितैः ।
रुद्ध्वा त्रिभिः पुटैः पाच्यं पञ्चविंशद्वनोत्पलैः ॥२७॥
म्रियते नात्र सन्देहो गन्धो देयः पुनः पुनः ।
रजतभस्म (१०)
रसगन्धौ समं कृत्वा काकतुण्डस्य मूलकम् ॥२८॥
मर्दयेन्महिषीक्षीरैः पिष्टिं तां क्षालयेज्जलैः ।
हरिद्रागोलके क्षिप्त्वा गोलं हयपुरीषके ॥२९॥
क्षिप्त्वा दिनैकविंशच्च तद्गर्भाद् उद्धरेत्पुनः ।
तत्पिष्ट्वा तारपत्राणि लेप्यमम्लेन केनचित् ॥३०॥
पुटैर् विंशतिभिर् भस्म जायते नात्र संशयः ।
भस्मना ह्यम्लपिष्टेन लिम्पेत्ताम्रमयं क्षुरम् ॥३१॥
जायते तं मृतं विद्याद्भस्म हाटकतारयोः ।
रजतस्य गुणाः
रौप्यं स्निग्धं कषायाम्लं विपाके मधुरं रसम् ॥३२॥
वयसः स्थापनं शीतं लेखनं वातपित्तजित् ।
वृष्यं रुचिकरं बल्यं जठराग्निप्रदीपनम् ॥३३॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP