संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार २| भाग ६ रसविद्या प्रकार २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० रसविद्या - भाग ६ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग ६ Translation - भाषांतर श्रीभैरवः ।खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते ।खुरं तत्र गुणैः श्रेष्ठं गुणहीनं तु मिश्रकम् ॥१॥खुर > फ्य्स्. प्रोपेर्तिएस्धवलं मृदुलं स्निग्धं द्रुतद्रावं सगौरवम् ।मिश्रक > फ्य्स्. प्रोपेर्तिएस्निःशब्दं खुरवङ्गं स्यान्मिश्रकं श्यामशुभ्रकम् ॥२॥तिन् > स्य्नोन्य्म्स्त्रपु त्रपुसमारूपं वङ्गं च कुटिलं हिमम् ।कुरूप्यं विच्चटं रङ्गं पूतिगन्धं रसाह्वयम् ॥३॥तिन् > परीक्षा > गोओद् ॠउअलित्य्स्वच्छम् उष्णासहं शीतं सूक्ष्मपत्रकरं लघु ।रुङ्नाशे रूप्यकरणे तद्वङ्गं श्रेष्ठमुच्यते ॥४॥वङ्गशुद्धि (१)द्रावयित्वा निशायुक्ते क्षिप्तं निर्गुण्डिकारसैः ।विशुध्यति त्रिवारेण खुरवङ्गं न संशयः ॥५॥अम्लतक्रविनिपिष्टवर्षाभूवृषसिन्धुभिः ।कट्वलाबुगतं वङ्गं द्वितयं परिशुध्यति ॥६॥सतालेनार्कदुग्धेन लिप्त्वा वङ्गदलान्यथ ।बोधिचिञ्चात्वचः क्षारैर् दद्याल्लघुपुटानि च ॥७॥मर्दयित्वा चरेद्भस्म तद्रसादिषु कीर्तितम् ।वङ्गशुद्धि (२)नागवच्छोधयेद् वङ्गं तद्वदश्वत्थचिञ्चयोः ॥८॥तद्भस्म हरितालं च तुल्यमम्लेन मर्दयेत् ।पलाशोत्थद्रवैर् वाथ लोलयित्वान्ध्रयेत्पुटे ॥९॥उद्धृत्य दशमांशेन तालेन सह मर्दयेत् ।वङ्गशुद्धि (३)पूर्वद्रावैः सहालोड्य रुद्ध्वा गजपुटे पचेत् ॥१०॥एकविंशत्पुटैर्वङ्गो मृतो भवति रोगहा ।शिरीषरजनीचूर्णैः कुमार्या युतगोलकम् ॥११॥सूतलिप्तं वङ्गपत्रं गोलकं सममर्दितम् ।रुद्ध्वा लघुपुटैः पक्वं मृतं स्यात्पूर्वसंख्यया ॥१२॥अक्षभल्लातकीतोयैः पिष्ट्वा पत्राणि लेपयेत् ।ततस्तिलखरीमध्ये क्षिप्त्वा रुद्ध्वा पुटैः पचेत् ॥१३॥चत्वारिंशद्गजपुटैर् वङ्गकं भस्म जायते ।वङ्गगुणाःवङ्गं तीक्ष्णोष्णकटुकमीषद्वातप्रकोपनम् ॥१४॥मेदःश्लेष्मामयघ्नं च क्रिमिघ्नं मेहनाशनम् ।हिमं कषायलवणं पाण्डुदाहहरं सरम् ॥१५॥लेखनं पित्तलं किंचित् त्रपु सीसं च तद्गुणम् ।सीसकसीसकं तु जडं शीतं यवनेष्टं भुजङ्गमम् ॥१६॥योगीष्टं नागम् उरगं कुवङ्गं परिपिष्टकम् ।मृदु कृष्णायसं पक्ष्मतारशुद्धिकरं स्मृतम् ॥१७॥सिरावृत्तं च वङ्गं स्याच्चीनपिष्टं च षोडश ।सीसं तु वङ्गसाम्यं स्याद्रसवीर्यविपाकतः ॥१८॥अशुद्धवङ्गनागसेवने दोषाःपाकहीनौ नागवङ्गौ कुष्ठगुल्मरुजाकरौ ।मेहपाण्डुज्वरश्लेष्मवातपित्तप्रदौ स्मृतौ ॥१९॥द्रुतद्रावं महाभारं छेदे कृष्णं समुज्ज्वलम् ।पूतिगन्धं बहिः कृष्णं शुद्धं सीसमतोऽन्यथा ॥२०॥निर्गुण्डीमूलचूर्णेन सार्कदुग्धेन लेपयेत् ।नागपत्रं ततः शुष्कं द्रावयित्वा निषेचयेत् ॥२१॥लिप्त्वा द्राव्यं पुनः सेच्यं सप्तवारं विशुद्धये ।निशातुम्बुरुबीजानि कोकिलाक्षीकुबेरकम् ॥२२॥गौरीफलं मल्लिका च मोक्षो ब्रह्मा मयूरकम् ।यथालाभं तु भस्मैषां वज्रीक्षीरेण भावयेत् ॥२३॥तन्मध्ये द्रावितं नागं शुद्धं सेच्यं तु सप्तधा ।महिषस्यास्थिचूर्णेन सुपाकं मूत्रसेचनात् ॥२४॥वङ्गं शुद्धं भवेत्तद्वन्नागो नागास्थिमूत्रतः ।नागभस्म (१)अश्वत्थचिञ्चात्वग्भस्म नागस्य चतुरंशतः ॥२५॥क्षिप्त्वा चुल्ल्यां पचेदग्नौ चालयेल्लोहचट्टुना ।यावद्भस्म तमुद्धृत्य भस्मतुल्यां मनःशिलाम् ॥२६॥जम्बीरैर् आरनालैर् वा पिष्ट्वा रुद्ध्वा पुटे पचेत् ।स्वाङ्गशीतं पुनः पिष्ट्वा विंशत्यंशे शिलाम्लके ॥२७॥एवं षष्टिपुटैः पक्त्वा नागः स्यात्तु निरुत्थितः ।नागभस्म (२)अथवा नागपत्राणि चूर्णलिप्तानि खर्परे ॥२८॥अल्पाग्नौ पाचयेद्यामं भस्म तच्चित्रकद्रवैः ।भर्जयेल्लोहपात्रे तत्पार्थदण्डेन चालयन् ॥२९॥यामषोडशपर्यन्तं द्रवं देयं पुनः पुनः ।दण्डेन मर्दयेद्गाढमुद्धृतं चित्रकदवैः ॥३०॥लोलयित्वा निरुध्याथ षट्पुटैर् म्रियते लघु ।नागभस्म (३)चिञ्चाक्षमिक्षुभल्लातवाशावज्रलताभवैः ॥३१॥अपामार्गार्जुनाश्वत्थसमुद्भूतैश्च भस्मभिः ।दृढं पालाशदण्डेन लोहपात्रे तु भर्जयेत् ॥३२॥सप्तभिर्दिवसैरेव म्रियते नात्र संशय ।नागभस्म (४)पिष्ट्वागस्त्यं च भूनागं लिप्त्वा भाण्डं विशोधयेत् ॥३३॥तद्भाण्डे द्रावयेन्नागं द्रुते नागे विनिक्षिपेत् ।वाशाचिञ्चटयोः क्षारं वाशाकाष्ठेन घट्टयेत् ॥३४॥यामैकं पाचयेच्चुल्ल्यां समुद्धृत्य विमिश्रयेत् ।संचूर्ण्य च शिलाताप्ये वाशकक्षारसंयुतम् ॥३५॥चतुस्तुल्यं पूर्वनागं विंशत्येकपुटैः पचेत् ।द्विपुटं चिञ्चिकक्षारैर् देयं वाशारसान्वितैः ॥३६॥नागः सिन्दूरवर्णाभो म्रियते सर्वकार्यकृत् ।अत्युष्णं सीसकं स्निग्धं तिक्तं वातकफापहम् ॥३७॥प्रमेहतोयदोषघ्नं दीपनं चामवातनुत् ॥३८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP