संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार २| भाग २ रसविद्या प्रकार २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० रसविद्या - भाग २ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग २ Translation - भाषांतर श्रीभैरवः ।स्वर्णादिसर्वलोहानामुत्पत्त्यादिक्रमं ब्रुवे ।स्वर्णं सुवर्णकनकोज्ज्वलकाञ्चनानि कल्याणहाटकहिरण्यमनोहराणि ।गाङ्गेयगैरिकमहारजताग्निवीर्यरुक्मानि हेमतपनीयकभास्वराणि ॥१॥जाम्बूनदाष्टापदजातरूपपिञ्जानचामीकरकर्बुराणि ।कार्तस्वरापिञ्जरवर्णभूरितेजांसि दीप्तामलदीपिपीतकानि ॥२॥मङ्गल्यसौमेरवशातकुम्भशृङ्गारचन्द्रारजजाम्बवानि ।आग्नेयनिष्काग्निशिखानि चेति नेत्राब्धिनिर्धारितहेमनाम ॥३॥स्वर्णभेदाःप्राकृतं सहजं वह्निसम्भूतं खनिसम्भवम् ॥४॥रसेन्द्रवेधसंजातं स्वर्णं पञ्चविधं स्मृतम् ।ब्रह्माण्डं संवृतं येन रजोगुणभुवा खलु ॥५॥तत्प्राकृतमिति प्रोक्तं देवानामपि दुर्लभम् ।ब्रह्मा येनावृतो जातः सुवर्णं सहजं हि तत् ॥६॥विसृष्टमग्निना शैवं तेजः पीतं सुदुःसहम् ।अभूत्स्वर्णं तदुद्दिष्टं सुवर्णं वह्निसंभवम् ॥७॥एतत्स्वर्णत्रयं दिव्यं वर्णैः षोडशभिर्युतम् ।धारणादेव तत्कुर्याच्छरीरमजरामयम् ॥८॥गिरीणां खनिसम्भूतं तत्स्वर्णं खनिजं स्मृतम् ।तच्चतुर्दशवर्णाढ्यं भक्षितं सर्वरोगहृत् ॥९॥रसेन्द्रवेधसम्भूतं तद्वेधजमुदाहृतम् ।रसायनं महाश्रेष्ठं पवित्रं वेधजं हि तत् ॥१०॥रक्ताभं पीतवर्णं च द्विविधं काञ्चनं भवेत् ।ग्राह्याग्राह्यस्वर्णरूपदाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् ॥११॥गुरु स्निग्धं मृदु स्वच्छं निर्दलं रक्तपीतकम् ।हेम षोडशवर्णाढ्यं शस्यते देहलोहयोः ॥१२॥श्वेताङ्गं कठिनं रूक्षं विवर्णं समलं दलम् ।दाहे श्वेतासितं श्वेतं निकषे लघु च व्रजेत् ॥१३॥न शुद्धं न मृतं स्वर्णं रोगवर्गं करोति च ।सौख्यं वीर्यं बलं हन्ति तस्माच्छुद्धिरुदीर्यते ॥१४॥स्वर्णशुद्धिवल्मीकमृत्तिका धूमं गैरिकं चेष्टका पटु ।इत्येते मृत्तिकाः पञ्च जम्बीरैर् वारनालकैः ॥१५॥पिष्ट्वा लिम्पेत्स्वर्णपत्रं भस्मच्छन्नं तु कर्परे ।यावद्द्रवं पुटं तावत्कुर्यात्तेन विशुध्यति ॥१६॥मृत्तिकां मातुलुङ्गाम्लैः पञ्चवासरभाविताम् ।सभस्मलवणं हेम शोधयेत् पुटपाकतः ॥१७॥भावयेन्मातुलुङ्गाम्लैस्त्रिदिनं पञ्चमृत्तिकाम् ।सैन्धवं भूमिभस्माभिः स्वर्णं शुध्यति पूर्ववत् ॥१८॥तैले तक्रे गवां मूत्रे ह्यारनाले कुलुत्थके ।क्रमान्निषेचयेत् तप्तं सप्तवारं द्रवैर् द्रवैः ॥१९॥स्वर्णादिलोहपत्राणां शुद्धिरेषा प्रशस्यते ।द्रावितौ नागवङ्गौ च तद्वत्सिञ्चेद्विशुद्धये ॥२०॥सुवर्णं ढालयेत् पूर्वं काञ्चनारोद्भवे रसे ।सप्तवारं ततः कर्मयोग्यं हेम भवेद् ध्रुवम् ॥२१॥स्वर्णभस्म (१)नागचूर्णं शिलायुक्तं वज्रीक्षीरसमन्वितम् ।लेपनात्पुटयोगाच्च हेमपत्राणि लेपयेत् ॥२२॥मृतं नागं स्नुहीक्षीरैर् अथवाम्लेन केनचित् ।पिष्ट्वा लेप्यं स्वर्णपत्रं रुद्ध्वा गजपुटे पचेत् ॥२३॥आदाय पेषयेदम्ले मृतनागं चाष्टमांशकम् ।पचेद्गजपुटे रुद्ध्वा पूर्ववन्नागसंयुतम् ॥२४॥एवं पुनः पुनः पाकादष्टधा म्रियते ध्रुवम् ।स्वर्णभस्म (२)शुद्धसूतसमं गन्धं माक्षिकं च सहाम्लकैः ॥२५॥अष्टभिश्च पुटैर्हेम म्रियते पूर्ववत्क्रिया ।स्वर्णभस्म (३)शुद्धसूतसमं स्वर्णं खल्वे कुर्याच्च गोलकम् ॥२६॥ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ।त्रिंशद्वनोत्पलैर् दद्यात् पुटानेवं चतुर्दश ॥२७॥निरुत्थं जायते भस्म गन्धं देयं पुनः पुनः ।स्वर्णभस्म (४)स्वर्णमावर्त्य तोलैकं माषैकं शुद्धनागकम् ॥२८॥क्षिप्त्वादाय तु तच्चूर्णं तत्तुल्ये गन्धमाक्षिके ।अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत् ॥२९॥गन्धं पुनः पुनर्देयं म्रियते दशभिः पुटैः ।रसादिभिः स्वर्णमारणम्हेमपत्राणि कुर्वीत विलिम्पेद्रसभस्मना ॥३०॥अम्लपिष्टेन पुटयेद्धेम निर्जीवतां व्रजेत् ।अथवा ताप्यपुटितं स्वर्णं गच्छति भस्मताम् ॥३१॥यद्वा मृतेन करिणा शिलायोगेन भस्मयेत् ।अथवा मृतवज्रेण योगिन्यंशविलेपितम् ॥३२॥भस्मतां यात्युपरसै रसैश्चैव महारसैः ।अम्लपिष्टैर् विलिप्तं च पुटितं याति भस्मताम् ॥३३॥स्वर्णमारण (५)स्वर्णस्य द्विगुणं सूतं याममम्लेन मर्दयेत् ।आरोटं माक्षिकं क्षिप्त्वा मूषायां स्वर्णतुल्यकम् ॥३४॥तत्पृष्ठे मर्दितं हेम तत्पृष्ठे शुद्धमाक्षिकम् ।देयं स्वर्णसमं तच्च पृष्ठे गन्धं च तत्समम् ॥३५॥सर्वं च चूर्णितं दद्याद् रुद्ध्वा मूषां धमेद्दृढम् ।स्वभावशीतलं ग्राह्यं भस्म तद्भागपञ्चकम् ॥३६॥टङ्कणं श्वेतकाचं च भागैकैकं प्रपेषयेत् ।त्रितयं मधुनाज्येन मेलकं गोलकीकृतम् ॥३७॥धान्याभ्रस्य च भागैकमधश्चोर्ध्वं च दापयेत् ।निरुध्य तद्धमेद्गाढं मूषायां घटिकाद्वयम् ॥३८॥निरुत्थं जायते भस्म तत्तद्योगेषु योजयेत् ।स्वर्णमारण (६)हेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित् ॥३९॥पत्रे लिप्त्वा पुटे पच्यादष्टभिर्म्रियते ध्रुवम् ।शुद्धानां सर्वलोहानां मारणे रीतिरीदृशी ॥४०॥स्वर्णमारण (७)शुद्धमाक्षीकभागैकं भागं चारोटमाक्षिकम् ।द्विभागं सूतकं क्षिप्त्वा त्रयमम्लेन मर्दयेत् ॥४१॥भागैकं हेमपत्रं च लिप्त्वा चाम्लेन मर्दयेत् ।तद्गोलं पातनायन्त्रे हठाद् यामत्रयं पचेत् ॥४२॥इत्येवं म्रियते स्वर्णं निरुत्थं नात्र संशयः ।स्वर्णमारण (८)यवचिञ्चारजोवृक्षभल्लातैष्टङ्कणेन च ॥४३॥लिप्त्वा स्वर्णस्य पत्राणि रुद्ध्वा गजपुटे पचेत् ।तैर् द्रवैः पिष्ट्या म्रियते सप्तधा पुटैः ॥४४॥पीलुकङ्कुष्ठबुक्काणसौवर्चलम् अपेषितम् ।लिप्त्वा स्वर्णस्य पत्राणि म्रियते सप्तभिः पुटैः ॥४५॥स्वर्णस्य गुणाःसुवर्णं बृंहणं स्निग्धं मधुरं रसपाकयोः ।विषदोषहरं शीतं सकषायं सतिक्तकम् ॥४६॥हृद्यं कान्तिप्रदं बल्यं संरसनं गुरु लेखनम् ।बुद्धिमेधास्मृतिकरं व्रणघ्नं वाग्विशुद्धिदम् ॥४७॥क्षयोन्मादप्रशमनं चक्षुष्यं च रसायनम् ।त्रिदोषशमनं सौम्यमायुष्यं रुचिरं शुचि ॥४८॥प्रज्ञावीर्यस्वरकरम् ऐश्वर्यं धारणाद्भवेत् ॥४९॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP