अर्थशास्त्रम् अध्याय ०७ - भाग १८

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


१८.०१
मध्यमस्य_आत्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः ॥

१८.०२
द्वितीया चतुर्थी षष्ठी च विकृतयः ॥

१८.०३
तच् चेद् उभयं मध्यमो_अनुगृह्णीयात्, विजिगीषुर् मध्यम.अनुलोमः स्यात् ॥

१८.०४
न चेद् अनुगृह्णीयात्, प्रकृत्य्.अनुलोमः स्यात् ॥

१८.०५
मद्यमश् चेद् विजिगीषोर् मित्रं मित्र.भावि लिप्सेत, मित्रस्य_आत्मनश् च मित्राण्य् उत्थाप्य मध्यमाच् च मित्राणि भेदयित्वा मित्रं त्रायेत ॥

१८.०६
मण्डलं वा प्रोत्साहयेत् "अतिप्रवृद्धो_अयं मध्यमः सर्वेषां नो विनाशाय_अभ्युत्थितः, सम्भूय_अस्य यात्रां विहनाम" इति ॥

१८.०७
तच् चेन् मण्डलम् अनुगृह्णीयात्, मध्यम.अवग्रहेण_आत्मानम् उपबृंहयेत् ॥

१८.०८
न चेद् अनुगृह्णीयात्, कोश.दण्डाभ्यां मित्रम् अनुगृह्य ये मध्यम.द्वेषिणो राजानः परस्पर.अनुगृहीता वा बहवस् तिष्ठेयुः, एक.सिद्धौ वा बहवः सिध्येयुः, परस्पराद् वा शङ्किता न_उत्तिष्ठेरन्, तेषां प्रधानम् एकम् आसन्नं वा साम.दानाभ्यां लभेत ॥

१८.०९
द्वि.गुणो द्वितीयं त्रि.गुनस् तृतीयम् ॥

१८.१०
एवम् अभ्युच्चितो मध्यमम् अवगृह्णीयात् ॥

१८.११
देश.काल.अतिपत्तौ वा संधाय मध्यमेन मित्रस्य साचिव्यं कुर्यात्, दूष्येषु वा कर्म.संधिम् ॥

१८.१२
कर्शनीयं वा_अस्य मित्रं मध्यमो लिप्सेत, प्रतिस्तम्भयेद् एनं "अहं त्वा त्रायेय" इति आ कर्शनात् ॥

१८.१३
कर्शितम् एनं त्रायेत ॥

१८.१४
उच्छेदनीयं वा_अस्य मित्रं मध्यमो लिप्सेत, कर्शितम् एनं त्रायेत मध्यम.वृद्धि.भयात् ॥

१८.१५
उच्छिन्नं वा भूम्य्.अनुग्रहेण हस्ते कुर्याद् अन्यत्र_अपसार.भयात् ॥

१८.१६
कर्शनीय.उच्छेदनीययोश् चेन् मित्राणि मध्यमस्य साचिव्य.कराणि स्युः, पुरुष.अन्तरेण संधीयेत ॥

१८.१७
विजिगीषोर् वा तयोर् मित्राण्य् अवग्रह.समर्थानि स्युः, संधिम् उपेयात् ॥

१८.१८
अमित्रं वा_अस्य मध्यमो लिप्सेत, संधिम् उपेयात् ॥

१८.१९
एवं स्व.अर्थश् च कृतो भवति मध्यमस्य प्रियं च ॥

१८.२०
मध्यमश् चेत् स्व.मित्रं मित्र.भावि लिप्सेत, पुरुष.अन्तरेण संदध्यात् ॥

१८.२१
स.अपेक्षं वा "न_अर्हसि मित्रम् उच्छेत्तुम्" इति वारयेत् ॥

१८.२२
उपेक्षेत वा "मण्डलम् अस्य कुप्यतु स्व.पक्ष.वधात्" इति ॥

१८.२३
अमित्रम् आत्मनो वा मध्यमो लिप्सेत, कोश.दण्डाभ्याम् एनम् अदृश्यमानो_अनुगृह्णीयात् ॥

१८.२४
उदासीनं वा मध्यमो लिप्सेत, अस्मै साहाय्यं दद्याद् "उदासीनाद् भिद्यताम्" इति ॥

१८.२५
मध्यम.उदासीनयोर् यो मण्डलस्य_अभिप्रेतस् तम् आश्रयेत ॥

१८.२६
मध्यम.चरितेन_उदासीन.चरितं व्याख्यातम् ॥

१८.२७
उदासीनश् चेन् मध्यमं लिप्सेत, यतः शत्रुम् अतिसंदध्यान् मित्रस्य_उपकारं कुर्याद् उदासीनं वा दण्ड.उपकारिणं लभेत ततः परिणमेत ॥

१८.२८
एवम् उपबृह्य_आत्मानम् अरि.प्रकृतिं कर्शयेन् मित्र.प्रकृतिं च_उपगृह्णीयात् ॥

१८.२९
सत्य् अप्य् अमित्र.भावे तस्य_अनात्मवान् नित्य.अपकारी शत्रुः शत्रु.संहितः पार्ष्णि.ग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुर् अभियोक्ता इत्य् अरि.भाविनः, एक.अर्थ.अभिप्रयातः पृथग्.अर्थ.अभिप्रयातः सम्भूय.यात्रिकः संहित.प्रयाणिकः स्व.अर्थ.अभिप्रयातः सामुत्थायिकः कोश.दण्डयोर् अन्यतरस्य क्रेता विक्रेता वा द्वैधी.भाविक इति मित्र.भाविनः, - ॥

१८.२९
सामन्तो बलवतः प्रतिघातो_अन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णि.ग्राहो वा स्वयम् उपनतः प्रताप.उपनतो वा दण्ड.उपनत इति भृत्य.भाविनः सामन्ताः ॥

१८.३०
तैर् भूम्य्.एक.अन्तरा व्याख्याताः ॥

१८.३१
तेषां शत्रु.विरोधे यन् मित्रम् एक.अर्थतां व्रजेत् ।

१८.३१
शक्त्या तद्.अनुगृह्णीयाद् विषहेत यया परम् ॥

१८.३२
प्रसाध्य शत्रुं यन् मित्रं वृद्धं गच्छेद् अवश्यताम् ।

१८.३२
सामन्त.एक.अन्तराभ्यां तत्.प्रकृतिभ्यां विरोधयेत् ॥

१८.३३
तत्.कुलीन.अपरुद्धाभ्यां भूमिं वा तस्य हारयेत् ।

१८.३३
यथा वा_अनुग्रह.अपेक्षं वश्यं तिष्ठेत् तथा चरेत् ॥

१८.३४
न_उपकुर्याद् अमित्रं वा गच्छेद् यद् अतिकर्शितम् ।

१८.३४
तद् अहीनम् अवृद्धं च स्थापयेन् मित्रम् अर्थवित् ॥

१८.३५
अर्थ.युक्त्या चलं मित्रं संधिं यद् उपगच्छति ।

१८.३५
तस्य_अपगमने हेतुं विहन्यान् न चलेद् यथा ॥

१८.३६
अरि.साधारणं यद् वा तिष्ठेत् तद् अरितः शठम् ।

१८.३६
भेदयेद् भिन्नम् उच्छिन्द्यात् ततः शत्रुम् अनन्तरम् ॥

१८.३७
उदासीनं च यत् तिष्ठेत् सामन्तैस् तद् विरोधयेत् ।

१८.३७
ततो विग्रह.संतप्तम् उपकारे निवेशयेत् ॥

१८.३८
अमित्रं विजिगीषुं च यत् संचरति दुर्बलम् ।

१८.३८
तद् बलेन_अनुगृह्णीयाद् यथा स्यान् न परान्.मुखम् ॥

१८.३९
अपनीय ततो_अन्यस्यां भूमौ वा सम्निवेशयेत् ।

१८.३९
निवेश्य पूर्वं तत्र_अन्यद् दण्ड.अनुग्रह.हेतुना ॥

१८.४०
अपकुर्यात् समर्थं वा न_उपकुर्याद् यद् आपदि ।

१८.४०
उच्छिन्द्याद् एव तन्.मित्रं विश्वस्य_अङ्कम् उपस्थितम् ॥

१८.४१
मित्र.व्यसनतो वा_अरिर् उत्तिष्ठेद् यो_अनवग्रहः ।

१८.४१
मित्रेण_एव भवेत् साध्यश् छादित.व्यसनेन सः ॥

१८.४१
अमित्र.व्यसनान् मित्रम् उत्थितं यद् विरज्यति ।

१८.४१
अरि.व्यसन.सिद्ध्या तत्.शत्रुणा_एव प्रसिध्यति ॥

१८.४२
वृद्धिं क्षयं च स्थानं च कर्शन.उच्छेदनं तथा ॥

१८.४२
सर्व.उपायान् समादध्याद् एतान् यश् च_अर्थ.शास्त्रवित् ।

१८.४३
एवम् अन्योन्य.संचारं षाड्गुण्यं यो_अनुपश्यति ॥

१८.४३
स बुद्धि.निगलैर् बद्धैर् इष्टं क्रीडति पार्थिवैः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP