संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ७| भाग १३ अध्याय ७ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ अर्थशास्त्रम् अध्याय ०७ - भाग १३ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १३ Translation - भाषांतर १३.०१संहत्य_अरि.विजिगीष्वोर् अमित्रयोः पर.अभियोगिनोः पार्ष्णिं गृह्णतोर् यः शक्ति.सम्पन्नस्य पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥१३.०२शक्ति.सम्पन्नो ह्य् अमित्रम् उच्छिद्य पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न हीन.शक्तिर् अलब्ध.लाभः ॥१३.०३शक्ति.साम्ये यो विपुल.आरम्भस्य पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥१३.०४विपुल.आरम्भो ह्य् अमित्रम् उच्छिद्य पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न_अल्प.आरम्भः सक्त.चक्रः ॥१३.०५आरम्भ.साम्ये यः सर्व.संदोहेन प्रयातस्य पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥१३.०६शून्य.मूलो ह्य् अस्य सुकरो भवति, नैक.देश.बल.प्रयातः कृत.पार्ष्णि.प्रतिविधानः ॥१३.०७बल.उपादान.साम्ये यश् चल.अमित्रं प्रयातस्य पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥१३.०८चल.अमित्रं प्रयातो हि सुखेन_अवाप्त.सिद्धिः पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न स्थित.अमित्रं प्रयातः ॥१३.०९असौ हि दुर्ग.प्रतिहतः पार्ष्णि.ग्राहे च प्रतिनिवृत्तः स्थितेन_अमित्रेण_अवगृह्यते ॥१३.१०तेन पूर्वे व्याख्याताः ॥१३.११शत्रु.साम्ये यो धार्मिक.अभियोगिनः पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥१३.१२धार्मिक.अभियोगी हि स्वेषां परेषां च द्वेष्यो भवति, अधार्मिक.अभियोगी सम्प्रियः ॥१३.१३तेन मूल.हर.तादात्विक.कदर्य.अभियोगिनां पार्ष्णि.ग्रहणं व्याख्यातम् ॥१३.१४मित्र.अभियोगिनोः पार्ष्णि.ग्रहणे त एव हेतवः ॥१३.१५मित्रम् अमित्रं च_अभियुञ्जानयोर् यो मित्र.अभियोगिनः पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥१३.१६मित्र.अभियोगी हि सुखेन_अवाप्त.सिद्धिः पार्ष्णि.ग्राहम् उच्छिन्द्यात् ॥१३.१७सुकरो हि मित्रेण संधिर् न_अमित्रेण ॥१३.१८मित्रम् अमित्रं च_उद्धरतोर् यो_अमित्र.उद्धारिणः पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥१३.१९वृद्ध.मित्रो ह्य् अमित्र.उद्धारी पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न_इतरः स्व.पक्ष.उपघाती ॥१३.२०तयोर् अलब्ध.लाभ.अपगमने यस्य.अमित्रो महतो लाभाद् वियुक्तः क्षय.व्यय.अधिको वा स पार्ष्णि.ग्राहो_अतिसंधत्ते ॥१३.२१लब्ध.लाभ.अपगमने यस्य_अमित्रो लाभेन शक्त्या हीनः स पार्ष्णि.ग्राहो_अतिसंधत्ते, यस्य वा यातव्यः शत्रोर् विग्रह.अपकार.समर्थः स्यात् ॥१३.२२पार्ष्णि.ग्राहयोर् अपि यः शक्य.आरम्भ.बल.उपादान.अधिकः स्थित.शत्रुः पार्श्व.स्थायी वा सो_अतिसंधत्ते ॥१३.२३पार्श्व.स्थायी हि यातव्य.अभिसारो मूल.आबाधकश् च भवति, मूल.आबाधक एव पश्चात्.स्थायी ॥१३.२४पार्ष्णि.ग्राहास् त्रयो ज्ञेयाः शत्रोश् चेष्टा.निरोधकाः ।१३.२४सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः ॥१३.२५अरेर् नेतुश् च मध्यस्थो दुर्बलो_अन्तर्धिर् उच्यते ।१३.२५प्रतिघातो बलवतो दुर्ग.अटव्य्.अपसारवान् ॥१३.२६मध्यमं त्वरि.विजिगीष्वोर् लिप्समानयोर् मध्यमस्य पार्ष्णिं गृह्णतोर् लब्ध.लाभ.अपगमने यो मध्यमं मित्राद् वियोजयत्य् अमित्रं च मित्रम् आप्नोति सो_अतिसंधत्ते ॥१३.२७संधेयश् च शत्रुर् उपकुर्वाणो, न मित्रं मित्र.भावाद् उत्क्रान्तम् ॥१३.२८तेन_उदासीन.लिप्सा व्याख्याता ॥१३.२९"पार्ष्णि.ग्रहण.अभियानयोस् तु मन्त्र.युद्धाद् अभ्युच्चयः ॥ Kअश्०७.१३.३०व्यायाम.युद्धे हि क्षय.व्ययाभ्याम् उभयोर् अवृद्धिः ॥१३.३१जित्वा_अपि हि क्षिण.दण्ड.कोशः पराजितो भवति" इत्य् आचार्याः ॥१३.३२न_इति कौटिल्यः ॥१३.३३सुमहता_अपि क्षय.व्ययेन शत्रु.विनाशो_अभ्युपगन्तव्यः ॥१३.३४तुल्ये क्षय.व्यये यः पुरस्ताद् दूष्य.बलं घातयित्वा निह्शल्यः पश्चाद् वश्य.बलो युध्येत सो_अतिसंधत्ते ॥१३.३५द्वयोर् अपि पुरस्ताद् दूष्य.बल.घातिनोर् यो बहुलतरं शक्तिमत्तरम् अत्यन्त.दूष्यं च घातयेत् सो_अतिसंधत्ते ॥१३.३६तेन_अमित्र.अटवी.बल.घातो व्याख्यातः ॥१३.३७पार्ष्णि.ग्राहो_अभियोक्ता वा यातव्यो वा यदा भवेत् ।१३.३७विजिगीषुस् तदा तत्र नेत्रम् एतत् समाचरेत् ॥१३.३८पार्ष्णि.ग्राहो भवेन् नेता शत्रोर् मित्र.अभियोगिनः ।१३.३८विग्राह्य पूर्वम् आक्रन्दं पार्ष्णि.ग्राह.अभिसारिणा ॥१३.३९आक्रन्देन_अभियुञ्जानः पार्ष्णि.ग्राहं निवारयेत् ।१३.३९तथा_आक्रन्द.अभिसारेण पार्ष्णि.ग्राह.अभिसारिणम् ॥१३.४०अरि.मित्रेण मित्रं च पुरस्ताद् अवघट्टयेत् ।१३.४०मित्र.मित्रम् अरेश् च_अपि मित्र.मित्रेण वारयेत् ॥१३.४१मित्रेण ग्राहयेत् पार्ष्णिम् अभियुक्तो_अभियोगिनः ।१३.४१मित्र.मित्रेण च_आक्रन्दं पार्ष्णि.ग्राहान् निवारयेत् ॥१३.४२एवं मण्डलम् आत्म.अर्थं विजिगीषुर् निवेशयेत् ।१३.४२पृष्ठतश् च पुरस्ताच् च मित्र.प्रकृति.सम्पदा ॥१३.४३कृत्स्ने च मण्डले नित्यं दूतान् गूढांश् च वासयेत् ।१३.४३मित्र.भूतः सपत्नानां हत्वा हत्वा च संवृतः ॥१३.४४असंवृतस्य कार्याणि प्राप्तान्य् अपि विशेषतः ।१३.४४निह्संशयं विपद्यन्ते भिन्न.प्लव इव_उदधौ ॥(हीन.शक्ति.पूरणम्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP