संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ७| भाग ७ अध्याय ७ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ अर्थशास्त्रम् अध्याय ०७ - भाग ७ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ७ Translation - भाषांतर ७.०१विजिगीषुर् द्वितीयां प्रकृतिम् एवम् उपगृह्णीयात् ॥७.०२सामन्तं सामन्तेन सम्भूय यायात्, यदि वा मन्येत "पार्ष्णिं मे न ग्रहीष्यति, पार्ष्णि.ग्राहं वारयिष्यति, यातव्यं न_अभिसरिष्यति, बल.द्वैगुण्यं मे भविष्यति, वीवध.आसारौ मे प्रवर्तयिष्यति, परस्य वारयिष्यति, बह्व्.आबाधे मे पथि कण्टकान् मर्दयिष्यति, दुर्ग.अटव्य्.अपसारेषु दण्डेन चरिष्यति, यातव्यम् अविषह्ये दोषे संधौ वा स्थापयिष्यति, लब्ध.लाभ.अंशो वा शत्रून् अन्यान् मे विश्वासयिष्यति" इति ॥७.०३द्वैधी.भूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानाम् अन्यतमाल् लिप्सेत ॥७.०४तेषां ज्यायसो_अधिकेन_अंशेन समात् समेन हीनाद्द् हीनेन_इति सम.संधिः ॥७.०५विपर्यये विषम.संधिः ॥७.०६तयोर् विशेष.लाभाद् अतिसंधिः ॥७.०७व्यसनिनम् अपाय.स्थाने सक्तम् अनर्थिनं वा ज्यायांसं हीनो बल.समेन लाभेन पणेत ॥७.०८पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥७.०९एवं.भूतो वा हीन.शक्ति.प्रताप.पूरण.अर्थं सम्भाव्य.अर्थ.अभिसारी मूल.पार्ष्णि.त्राण.अर्थं वा ज्यायांसं हीनो बल.समाद् विशिष्टेन लाभेन पणेत ॥७.१०पणितः कल्याण.बुद्धिम् अनुगृह्णीयात्, अन्यथा विक्रमेत ॥७.११जात.व्यसन.प्रकृति.रन्ध्रम् उपस्थित.अनर्थं वा ज्यायांसं हीनो दुर्ग.मित्र.प्रतिष्टब्धो वा ह्रस्वम् अध्वानं यातु.कामः शत्रुम् अयुद्धम् एक.अन्त.सिद्धिं वा लाभम् आदातु.कामो बल.समाद्द् हीनेन लाभेन पणेत ॥७.१२पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥७.१३अरन्ध्र.व्यसनो वा ज्यायान् दुर्.आरब्ध.कर्माणं भूयः क्षय.व्ययाभ्यां योक्तु.कामो दूष्य.दण्डं प्रवासयितु.कामो दूष्य.दण्डम् आवाहयितु.कामो वा पीडनीयम् उच्छेदनीयं वा हीनेन व्यथयितु.कामः संधि.प्रधानो वा कल्याण.बुद्धिर् हीनं लाभं प्रतिगृह्णीयात् ॥७.१४कल्याण.बुद्धिना सम्भूय_अर्थं लिप्सेत, अन्यथा विक्रमेत ॥७.१५एवं समः समम् अतिसंदध्याद् अनुगृह्णीयाद् वा ॥७.१६पर.अनीकस्य प्रत्यनीकं मित्र.अटवीनां वा, शत्रोर् विभूमीनां देशिकं मूल.पार्ष्णि.त्राण.अर्थं वा समो बल.समेन लाभेन पणेत ॥७.१७पणितः कल्याण.बुद्धिम् अनुगृह्णीयात्, अन्यथा विक्रमेत ॥७.१८जात.व्यसन.प्रकृति.रन्ध्रम् अनेक.विरुद्धम् अन्यतो लभमानो वा समो बल.समाद्द् हीनेन लाभेन पणेत ॥७.१९पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥७.२०एवं.भूतो वा समः सामन्त.आयत्त.कार्यः कर्तव्य.बलो वा बल.समाद् विशिष्टेन लाभेन पणेत ॥७.२१पणितः कल्याण.बुद्धिम् अनुगृह्णीयात् अन्यथा विक्रमेत ॥७.२२जात.व्यसन.प्रकृति.रन्ध्रम् अभिहन्तु.कामः स्व्.आरब्धम् एक.अन्त.सिद्धिं वा_अस्य कर्म.उपहन्तु.कामो मूले यात्रायां वा प्रहर्तु.कामो यातव्याद्.भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत ॥७.२३भूयो वा याचितः स्व.बल.रक्षा.अर्थं दुर्धर्षम् अन्य.दुर्गम् आसारम् अटवीं वा पर.दण्डेन मर्दितु.कामः प्रकृष्टे_अध्वनि काले वा पर.दण्डं क्षय.व्ययाभ्यां योक्तु.कामः पर.दण्डेन वा विवृद्धस् तम् एव_उच्छेत्तु.कामः पर.दण्डम् आदातु.कामो वा भूयो दद्यात् ॥७.२४ज्यायान् वा हीनं यातव्य.अपदेशेन हस्ते कर्तु.कामः परम् उच्छिद्य वा तम् एव_उच्छेत्तु.कामः, त्यागं वा कृत्वा प्रत्यादातु.कामो बल.समाद् विशिष्टेन लाभेन पणेत ॥७.२५पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥७.२६यातव्य.संहितो वा तिष्ठेत्, दूष्य.अमित्र.अटवी.दण्डं वा_अस्मै दद्यात् ॥७.२७जात.व्यसन.प्रकृति.रन्ध्रो वा ज्यायान् हीनं बल.समेन लाभेन पणेत ॥७.२८पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥७.२९एवं.भूतं हीनं ज्यायान् बल.समाद्द् हीनेन लाभेन पणेत ॥७.३०पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥७.३१आदौ बुध्येत पणितः पणमानश् च कारणम् ॥७.३१ततो वितर्क्य.उभयतो यतः श्रेयश् ततो व्रजेत् ॥(यातव्य.वृत्तिः - अनुग्राह्य.मित्र.विशेषाह्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP