संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ७| भाग १७ अध्याय ७ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ अर्थशास्त्रम् अध्याय ०७ - भाग १७ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १७ Translation - भाषांतर १७.०१शमः संधिः समाधिर् इत्य् एको_अर्थः ॥१७.०२राज्ञां विश्वास.उपगमः शमः संधिः समाधिर् इति ॥१७.०३"सत्यं शपथो वा चलः संधिः, प्रतिभूः प्रतिग्रहो वा स्थावरः" इत्य् आचार्याः ॥१७.०४न_इति कौटिल्यः ॥१७.०५सत्यं शपथो वा परत्र_इह च स्थावरः संधिः, इह.अर्थ एव प्रतिभूः प्रतिग्रहो वा बल.अपेक्षः ॥१७.०६"संहिताः स्मः" इति सत्य.संधाः पूर्वे राजानः सत्येन संदधिरे ॥१७.०७तस्य_अतिक्रमे शपथेन अग्न्य्.उदक.सीता.प्राकार.लोष्ट.हस्ति.स्कन्ध.अश्व.पृष्ट.रथ.उपस्थ.शस्त्र.रत्न.बीज.गन्ध.रस.सुवर्ण.हिरण्यान्य् आलेभिरे "हन्युर् एतानि त्यजेयुश् च_एनं यः शपथम् अतिक्रामेत्" इति ॥१७.०८शपथ.अतिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्य.बन्धः प्रतिभूः ॥१७.०९तस्मिन् यः पर.अवग्रह.समर्थान् प्रतिभुवो गृह्णाति, सो_अतिसंधत्ते ॥१७.१०विपरीतो_अतिसंधीयते ॥१७.११बन्धु.मुख्य.प्रग्रहः प्रतिग्रहः ॥१७.१२तस्मिन् यो दूष्य.अमात्यं दूष्य.अपत्यं वा ददाति, सो_अतिसंधत्ते ॥१७.१३विपरीतो_अतिसंधीयते१७.१४प्रतिग्रह.ग्रहण.विश्वस्तस्य हि परश् छिद्रेषु निरपेक्षः प्रहरति ॥१७.१५अपत्य.समाधौ तु कन्या.पुत्र.दाने ददत् तु कन्याम् अतिसंधत्ते ॥१७.१६कन्या ह्य् अदायादा परेषाम् एव_अर्थाय_आक्लेश्या(?) च ॥१७.१७विपरीतः पुत्रः ॥१७.१८पुत्रयोर् अपि यो जात्यं प्राज्ञं शूरं कृत.अस्त्रम् एक.पुत्रं वा ददाति सो_अतिसंधीयते ॥१७.१९विपरीतो_अतिसंधत्ते ॥१७.२०जात्याद् अजात्यो हि लुप्त.दायाद.संतानत्वाद् आधातुं श्रेयान्, प्राज्ञाद् अप्राज्ञो मन्त्र.शक्ति.लोपात्, शूराद् अशूर उत्साह.शक्ति.लोपात्, कृत.अस्त्राद् अकृत.अस्त्रः प्रहर्तव्य.सम्पल्.लोपात्, एक.पुत्राद् अनेक.पुत्रो निरपेक्षत्वात् ॥१७.२१जात्य.प्राज्ञयोर् जात्यम् अप्राज्ञम् ऐश्वर्य.प्रकृतिर् अनुवर्तते, प्राज्ञम् अजात्यं मन्त्र.अधिकारः ॥१७.२२मन्त्र.अधिकारे_अपि वृद्ध.सम्योगाज् जात्यः प्राज्ञम् अतिसंधत्ते ॥१७.२३प्राज्ञ.शूरयोः प्राज्ञम् अशूरं मति.कर्मणां योगो_अनुवर्तते, शूरम् अप्राज्ञं विक्रम.अधिकारः ॥१७.२४विक्रम.अधिकारे_अपि हस्तिनम् इव लुब्धकः प्राज्ञः शूरम् अतिसंधत्तेश् ॥१७.२५शूर.कृत.अस्त्रयोः शूरम् अकृत.अस्त्रं विक्रम.व्यवसायो_अनुवर्तते, कृत.अस्त्रम् अशूरं लक्ष्य.लम्भ.अधिकारः ॥१७.२६लक्ष्य.लम्भ.अधिकारे_अपि स्थैर्य.प्रतिपत्त्य्.असम्मोषैः शूरः कृत.अस्त्रम् अतिसंधत्ते ॥१७.२७बह्व्.एक.पुत्रयोर् बहु.पुत्र एकं दत्त्वा शेष.प्रतिष्टब्धः संधिम् अतिक्रामति, न_इतरः ॥१७.२८पुत्र.सर्व.स्व.दाने संधिश् चेत् पुत्र.फलतो विशेषः ॥१७.२९सम.फलयोः शक्त.प्रजननतो विशेषः ॥१७.३०शक्त.प्रजननयोर् अप्य् उपस्थित.प्रजननतो विशेषः ॥१७.३१शक्तिमत्य् एक.पुत्रे तु लुप्त.पुत्र.उत्पत्तिर् आत्मानम् आदध्यात्, न च_एक.पुत्रम् इति ॥१७.३२अभ्युच्चीयमानः समाधि.मोक्षं कारयेत् ॥१७.३३कुमार.आसन्नाः सत्त्रिणः कारु.शिल्पि.व्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्राव् उपखानयित्वा कुमारम् अपहरेयुः ॥१७.३४नटनर्तक.गायन.वादक.वाग्.जीवन.कुशीलव.प्लवक.सौभिका वा पूर्व.प्रणिहिताः परम् उपतिष्ठेरन् ॥१७.३५ते कुमारं परं.परया_उपतिष्ठेरन् ॥१७.३६तेषाम् अनियत.काल.प्रवेश.स्थान.निर्गमनानि स्थापयेत् ॥१७.३७ततस् तद्.व्यञ्जनो वा रात्रौ प्रतिष्ठेत ॥१७.३८तेन रूप.आजीवा भार्या.व्यञ्जनाश् च व्याख्याताः ॥१७.३९तेषां वा तूर्य.भाण्ड.फेलां गृहीत्वा निर्गच्छेत् ॥१७.४०सूद.आरालिक.स्नापक.संवाहक.आस्तरक.कल्पक.प्रसाधक.उदक.परिचारकैर् वा द्रव्य.वस्त्र.भाण्ड.फेला.शयन.आसन.सम्भोगैर् निर्ह्रियेत ॥१७.४१परिचारकच्.छद्मना वा किंचिद् अरूप.वेलायाम् आदाय निर्गच्छेत्, सुरुङ्गा.मुखेन वा निशा.उपहारेण ॥१७.४२तोय.आशये वा वारुणं योगम् आतिष्ठेत् ॥१७.४३वैदेहक.व्यञ्जना वा पक्व.अन्न.फल.व्यवहारेण_आरक्षिषु रसम् उपचारयेयुः ॥१७.४४दैवत.उपहार.श्राद्ध.प्रहवण.निमित्तम् आरक्षिषु मदन.योग.युक्तम् अन्न.पानं रसं वा प्रयुज्य_अपगच्छेत्, आरक्षक.प्रोत्साहनेन वा ॥१७.४५नागरक.कुशीलव.चिकित्सक.आपूपिक.व्यञ्जना वा रात्रौ समृद्ध.गृहाण्य् आदीपयेयुः आरक्षिणां वा ॥१७.४६वैदेहक.व्यञ्जना वा पण्य.संस्थाम् आदीपयेयुः ॥१७.४७अन्यद् वा शरीरं निक्षिप्य स्व.गृहम् आदीपयेद् अनुपात.भयात् ॥१७.४८ततः संधिच्.छेद.खात.सुरुङ्गाभिर् अपगच्छेत् ॥१७.४९काच.कुम्भ.भाण्ड.भार.व्यञ्जनो वा रात्रौ प्रतिष्ठेत ॥१७.५०मुण्ड.जटिलानां प्रवासनान्य् अनुप्रविष्टो वा रात्रौ तद्.व्यञ्जनः प्रतिष्ठेत, विरूप.व्याधि.करण.अरण्य.चरच्.छद्मनाम् अन्यतमेन वा ॥१७.५१प्रेत.व्यञ्जनो वा गूढैर् निर्ह्रियेत ॥१७.५२प्रेतं वा स्त्री.वेषेण_अनुगच्छेत् ॥१७.५३वन.चर.व्यञ्जनाश् च_एनम् अन्यतो यान्तम् अन्यतो_अपदिशेयुः ॥१७.५४ततो_अन्यतो गच्छेत् ॥१७.५५चक्र.चराणां वा शकट.वाटैर् अपगच्छेत् ॥१७.५६आसन्ने च_अनुपाते सत्त्रं वा गृह्णीयात् ॥१७.५७सत्त्र.अभावे हिरण्यं रस.विद्धं वा भक्ष्य.जातम् उभयतः.पन्थानम् उत्सृजेत् ॥१७.५८ततो_अन्यतो_अपगच्छेत् ॥१७.५९गृहीतो वा साम.आदिभिर् अनुपातम् अतिसंदध्यात्, रस.विद्धेन वा पथ्य्.अदनेन ॥१७.६०वारुण.योग.अग्नि.दाहेषु वा शरीरम् अन्यद् आधाय शत्रुम् अभियुञ्जीत "पुत्रो मे त्वया हतः" इति ॥१७.६१उपात्तच्.छन्न.शस्त्रो वा रात्रौ विक्रम्य रक्षिषु ॥१७.६१शीघ्र.पातैर् अपसरेद् गूढ.प्रणिहितैः सह ॥(मध्यम.चरितम् - उदासीन.चरितम् - मण्डल.चरितम्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP