संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ७| भाग ११ अध्याय ७ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ अर्थशास्त्रम् अध्याय ०७ - भाग ११ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ११ Translation - भाषांतर ११.०१"त्वं च_अहं च शून्यं निवेशयावहे" इत्य् अनवसित.संधिः ॥११.०२तयोर् यः प्रत्युपस्थित.अर्थो यथा.उक्त.गुणां भूमिं निवेशयति सो_अतिसंधत्ते ॥११.०३तत्र_अपि स्थलम् औदकं वा_इति महतः स्थलाद् अल्पम् औदकं श्रेयः, सातत्याद् अवस्थितत्वाच् च फलानाम् ॥११.०४स्थलयोर् अपि प्रभूत.पूर्व.अपर.सस्यम् अल्प.वर्ष.पाकम् असक्त.आरम्भं श्रेयः ॥११.०५औदकयोर् अपि धान्य.वापम् अधान्य.वापात्_श्रेयः ॥११.०६तयोर् अल्प.बहुत्वे धान्य.कान्ताद् अल्पान् महद् अधान्य.कान्तं श्रेयः ॥११.०७महत्य् अवकाशे हि स्थाल्याश् च_अनूप्याश् च_ओषधयो भवन्ति ॥११.०८दुर्ग.आदीनि च कर्माणि प्रभूत्येन क्रियन्ते ॥११.०९कृत्रिमा हि भूमि.गुणाः ॥११.१०खनि.धान्य.भोगयोः खनि.भोगः कोश.करः, धान्य.भोगः कोश.कोष्ठ.अगार.करः ॥११.११धान्य.मूला हि दुर्ग.आदीनां कर्मणाम् आरम्भाः ॥११.१२महा.विषय.विक्रयो वा खनि.भोगः श्रेयान् ॥११.१३"द्रव्य.हस्ति.वन.भोगयोर् द्रव्य.वन.भोगः सर्व.कर्मणां योनिः प्रभूत.निधान.क्षमश् च, विपरीतो हस्ति.वन.भोगः" इत्य् आचार्याः ॥११.१४न_इति कौटिल्यः ॥११.१५शक्यं द्रव्य.वनम् अनेकम् अनेकस्यां भूमौ वापयितुम्, न हस्ति.वनम् ॥११.१६हस्ति.प्रधानो हि पर.अनीक.वध इति ॥११.१७वारि.स्थल.पथ.भोगयोर् अनित्यो वारि.पथ.भोगः, नित्यः स्थल.पथ.भोगः ॥११.१८भिन्न.मनुष्या श्रेणी.मनुष्या वा भूमिर् इति भिन्न.मनुष्या श्रेयसी ॥११.१९भिन्न.मनुष्या भोग्या भवति, अनुपजाप्या च_अन्येषाम्, अनापत्.सहा तु ॥११.२०विपरीता श्रेणी.मनुष्या, कोपे महा.दोषा ॥११.२१तस्यां चातुर्वर्ण्य.निवेशे सर्व.भोग.सहत्वाद् अवर.वर्ण.प्राया श्रेयसी, बाहुल्याद् ध्रुवत्वाच् च कृष्याः कर्षकवती, कृष्याश् च_अन्येषां च_आरम्भाणां प्रयोजकत्वात् गो.रक्षकवती, पण्य.निचय.ऋण.अनुग्रहाद् आढ्य.वणिग्वती ॥११.२२भूमि.गुणानाम् अपाश्रयः श्रेयान् ॥११.२३दुर्ग.अपाश्रया पुरुष.अपाश्रया वा भूमिर् इति पुरुष.अपाश्रया श्रेयसी ॥११.२४पुरुषवद् धि राज्यम् ॥११.२५अपुरुषा गौर् वन्ध्य् एव किं दुहीत ॥११.२६महा.क्षय.व्यय.निवेशां तु भूमिम् अवाप्तु.कामः पूर्वम् एव क्रेतारं पणेत दुर्बलम् अराज.बीजिनं निरुत्साहम् अपक्षम् अन्याय.वृत्तिं व्यसनिनं दैव.प्रमाणं यत्.किंचन.कारिणं वा ॥११.२७महा.क्षय.व्यय.निवेशायां हि भूमौ दुर्बलो राज.बीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षय.व्ययेन_अवसीदति ॥११.२८बलवान् अराज.बीजी क्षय.व्यय.भयाद् असगन्धाभिः प्रकृतिभिस् त्यज्यते ॥११.२९निरुत्साहस् तु दण्डवान् अपि दण्डस्य_अप्रणेता सदण्डः क्षय.व्ययेन_अवभज्यते ॥११.३०कोशवान् अप्य् अपक्षः क्षय.व्यय.अनुग्रह.हीनत्वान् न कुतश्चित् प्राप्नोति ॥११.३१अन्याय.वृत्तिर् निविष्टम् अप्य् उत्थापयेत् ॥११.३२स कथम् अनिविष्टं निवेशयेत् ॥११.३३तेन व्यसनी व्याख्यातः ॥११.३४दैव.प्रमाणो मानुष.हीनो निरारम्भो विपन्न.कर्म.आरम्भो वा_अवसीदति ॥११.३५यत्.किंचन.कारी न किंचिद् आसादयति ॥११.३६स च_एषां पापिष्ठतमो भवति ॥११.३७"यत्.किंचिद्.आरभमाणो हि विजिगीषोः कदाचिच् छिद्रम् आसादयेद्" इत्य् आचार्याः ॥११.३८यथा छिद्रं तथा विनाशम् अप्य् आसादयेद् इति कौटिल्यः ॥११.३९तेषाम् अलाभे यथा पार्ष्णि.ग्राह.उपग्रहे वक्ष्यामस् तथा भूमिम् अवस्थापयेत् ॥११.४०इत्य् अभिहित.संधिः ॥११.४१गुणवतीम् आदेयां वा भूमिं बलवता क्रयेण याचितः संधिम् अवस्थाप्य दद्यात् ॥११.४२इत्य् अनिभृत.संधिः ॥११.४३समेन वा याचितः कारणम् अवेक्ष्य दद्यात् "प्रत्यादेया मे भूमिर् वश्या वा, अनया प्रतिबद्धः परो मे वश्यो भविष्यति_ भूमि.विक्रयाद् वा मित्र.हिरण्य.लाभः कार्य.सामर्थ्य.करो मे भविष्यति" इति ॥११.४४तेन हीनः क्रेता व्याख्यातः ॥११.४५एवं मित्रं हिरण्यं च सजनाम् अजनां च गाम् ।११.४५लभमानो_अतिसंधत्ते शास्त्रवित् सामवायिकान् ॥(मित्र.हिरण्य.भूमि.कर्म.सम्धयह्, तत्र कर्म.सम्धिह्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP