संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १| भाग २१ अध्याय १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ अर्थशास्त्रम् अध्याय ०१ - भाग २१ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग २१ Translation - भाषांतर २१.०१शयनाद् उत्थितः स्त्री.गणैर् धन्विभिः परिगृह्यते, द्वितीयस्यां कक्ष्यायां कञ्चुक.उष्णीषिभिर् वर्ष.धर.अभ्यागारिकैः, तृतीयस्यां कुब्ज.वामन.किरातैः, चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर् दौवारिकैश् च प्रास.पाणिभिः ॥२१.०२पितृ.पैतामहं सम्बन्ध.अनुबद्धं शिक्षितम् अनुरक्तं कृत.कर्माणं च जनम् आसन्नं कुर्वीत, न_अन्यतो.देशीयम् अकृत.अर्थ.मानं स्व.देशीयं वा_अप्य् अपकृत्य_उपगृहीतम् ॥२१.०३अन्तर्.वंशिक.सैन्यं राजानम् अन्तःपुरं च रक्षेत् ॥२१.०४गुप्ते देशे माहानसिकः सर्वम् आस्वाद.बाहुल्येन कर्म कारयेत् ॥२१.०५तद् रजा तथैव प्रतिभुञ्जीत पूर्वम् अग्नये वयोभ्यश् च बलिं कृत्वा ॥२१.०६अग्नेर् ज्वाला.धूम.नीलता शब्द.स्फोटनं च विष.युक्तस्य, वयसां विपत्तिश् च ॥२१.०७अन्नस्य ऊष्मा मयूर.ग्रीव.आभः शैत्यम् आशु क्लिष्टस्य_इव वैवर्ण्यं स-उदकत्वम् अक्लिन्नत्वं च -२१.०७व्यञ्जनानाम् आशु शुष्कत्वं च क्वाथ.ध्याम.फेन.पटल.विच्छिन्न.भावो गन्ध.स्पर्श.रस.वधश् च -२१.०७द्रवेषु हीन.अतिरिक्तच्.छाया.दर्शनं फेन.पटल.सीमन्त.ऊर्ध्व.राजी.दर्शनं च -२१.०७रसस्य मध्ये नीला राजी, पयसस् ताम्रा, मद्य.तोययोः काली, दध्नः श्यामा, मधुनः श्वेता, द्रव्याणाम् आर्द्राणाम् आशु प्रम्लानत्वम् उत्पक्व.भावः क्वाथ.नील.श्यावता च -२१.०७शुष्काणाम् आशु शातनं वैवर्ण्यं च, -२१.०७कठिनानां मृदुत्वं मृदूनां च कठिनत्वम्, तद्.अभ्याशे क्षुद्र.सत्त्व.वधश् च, -२१.०७आस्तरण.प्रवरणानां ध्याम.मण्डलता तन्तुरोम.पक्ष्म.शातनं च, -२१.०७लोह.मणिमयानां पङ्कम.लोपदेहता स्नेह.राग.गौरव.प्रभाव.वर्ण.स्पर्शवधश् च - इति विषयुक्तस्य लिङ्गानि ॥२१.०८विष.प्रदस्य तु शुष्क.श्याव.वक्त्रता वाक्.सङ्गः स्वेदो विजृम्भणं च_अतिमात्रं वेपथुः प्रस्खलनं वाक्य.विप्रेक्षणम् आवेगः कर्मणि स्व.भूमौ च_अनवस्थानम् इति ॥२१.०९तस्माद् अस्य जाङ्गुलीविदो भिषजश् च_आसन्नाः स्युः ॥२१.१०भिषग्.भैषज्य.अगाराद् आस्वाद.विशुद्धम् औषधं गृहीत्वा पाचक.पेषकाभ्याम् आत्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ॥२१.११पानं पानीयं च_औषधेन व्याख्यातम् ॥२१.१२कल्पक.प्रसाधकाः स्नान.शुद्ध.वस्त्र.हस्ताः समुद्रम् उपकरणम् अन्तर्वंशिक.हस्ताद् आदाय परिचरेयुः ॥२१.१३स्नापक.संवाहक.आस्तरक.रजक.माला.कार.कर्म दास्यः प्रसिद्ध.शौचाः कुर्युः, ताभिर् अधिष्ठिता वा शिल्पिनः ॥२१.१४आत्म.चक्षुषि निवेश्य वस्त्र.माल्यं दद्युः, स्नान.अनुलेपन.प्रघर्ष.चूर्ण.वास.स्नानीयानि च स्व.वक्षो.बाहुषु च ॥२१.१५एतेन परस्माद् आगतकं व्याख्यातम् ॥२१.१६कुशीलवाः शस्त्र.अग्नि.रस.क्रीडा.वर्जं नर्मयेयुः ॥२१.१७आतोद्यानि च_एषाम् अन्तस् तिष्ठेयुः, अश्व.रथ.द्विप.अलंकाराश् च ॥२१.१८आप्त.पुरुष.अधिष्ठितं यान.वाहनम् आरोहेत्, नावं च_आप्त.नाविक.अधिष्ठितम् ॥२१.१९अन्य.नौ.प्रतिबद्धां वात.वेग.वशां च न_उपेयात् ॥२१.२०उदक.अन्ते सैन्यम् आसीत ॥२१.२१मत्स्य.ग्राह.विशुद्धम् उदकम् अवगाहेत ॥२१.२२व्याल.ग्राह.विशुद्धम् उद्यानं गच्छेत् ॥२१.२३लुब्धक.श्व.गणिभिर् अपास्त.स्तेन.व्याल.पर.आबाध.भयं चल.लक्ष्य.परिचय.अर्थं मृग.अरण्यं गच्छेत् ॥२१.२४आप्त.शस्त्र.ग्राह.अधिष्ठितः सिद्ध.तापसं पश्येत्, मन्त्रि.परिषदा सह सामन्त.दूतम् ॥२१.२५सम्नद्धो_अश्वं हस्तिनं वा_आरूढः सम्नद्धम् अनीकं पश्येत् ॥२१.२६निर्याणे_अभियाने च राज.मार्गम् उभयतः कृत.आरक्षं शस्त्रिभिर् दण्डिभिश् च_अपास्त.शस्त्र.हस्त.प्रव्रजित.व्यङ्गं गच्छेत् ॥२१.२७न पुरुष.सम्बाधम् अवगाहेत ॥२१.२८यात्रा.समाज.उत्सव.प्रहवणानि च दश.वर्गिक.अधिष्ठितानि गच्छेत् ॥२१.२९यथा च योग.पुरुषैर् अन्यान् राजा_अधितिष्ठति ।२१.३०तथा_अयम् अन्य.आबाधेभ्यो रक्षेद् आत्मानम् आत्मवान् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP