अर्थशास्त्रम् अध्याय ०१ - भाग १५
कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.
१५.०१
कृत.स्व.पक्ष.पर.पक्ष.उपग्रहः कार्य.आरम्भांश् चिन्तयेत् ॥
१५.०२
मन्त्र.पूर्वाः सर्व.आरम्भाः ॥
१५.०३
तद्.उद्देशः संवृतः कथानाम् अनिह्श्रावी पक्षिभिर् अप्य् अनालोक्यः स्यात् ।
१५.०४
श्रूयते हि शुक.सारिकाभिर् मन्त्रो भिन्नः, श्वभिर् अप्य् अन्यैश् च तिर्यग्.योनिभिर् इति ॥
१५.०५
तस्मान् मन्त्र.उद्देशम् अनायुक्तो न_उपगच्छेत् ॥
१५.०६
उच्छिद्येत मन्त्र.भेदी ॥
१५.०७
मन्त्र.भेदो हि दूत.अमात्य.स्वामिनाम् इङ्गित.आकाराभ्याम् ॥
१५.०८
इङ्गितम् अन्यथा.वृत्तिः ॥
१५.०९
आकृति.ग्रहणम् आकारः ॥
१५.१०
तस्य संवरणम् आयुक्त.पुरुष.रक्षणम् आ.कार्य.कालाद् इति ॥
१५.११
तेषां हि प्रमाद.मद.सुप्त.प्रलापाः, काम.आदिर् उत्सेकः, प्रच्छन्नो_अवमतो वा मन्त्रं भिनत्ति ॥
१५.१२
तस्माद् आद्रक्षेन् मन्त्रम् ॥
१५.१३
"मन्त्र.भेदो ह्य् अयोग.क्षेम.करो राज्ञस् तद्.आयुक्त.पुरुषाणां च ॥
१५.१४
तस्माद् गुह्यम् एको मन्त्रयेत" इति भारद्वाजः ॥
१५.१५
"मन्त्रिणाम् अपि हि मन्त्रिणो भवन्ति, तेषाम् अप्य् अन्ये ॥
१५.१६
सा_एषा मन्त्रि.परम्परा मन्त्रं भिनत्ति ॥
१५.१७
"तस्मान् न_अस्य परे विद्युः कर्म किंचिच् चिकीर्षितम् ।
१५.१७
आरब्धारस् तु जानीयुर् आरब्धं कृतम् एव वा ॥
१५.१८
"न_एकस्य मन्त्र.सिद्धिर् अस्ति" इति विशाल.अक्षः ॥
१५.१९
"प्रत्यक्ष.परोक्ष.अनुमेया हि राज.वृत्तिः ॥
१५.२०
अनुपलब्धस्य ज्ञानम् उपलब्धस्य निश्चित.बल.आधानम् अर्थ.द्वैधस्य संशयच्.छेदनम् एक.देश.दृष्टस्य शेष.उपलब्धिर् इति मन्त्रि.साध्यम् एतत् ॥
१५.२१
तस्माद् बुद्धि.वृद्धैः सार्धम् अध्यासीत मन्त्रम् ॥
१५.२२
"न कंचिद् अवमन्येत सर्वस्य शृणुयान् मतम् ।
१५.२२
बालस्य_अप्य् अर्थवद्.वाक्यम् उपयुञ्जीत पण्डितः ॥"
१५.२३
"एतन् मन्त्र.ज्ञानम्, न_एतन् मन्त्र.रक्षणम्" इति पाराशराः ॥
१५.२४
"यद् अस्य कार्यम् अभिप्रेतं तत्.प्रतिरूपकं मन्त्रिणः पृच्छेत् - "कार्यम् इदम् एवम् आसीत्, एवं वा यदि भवेत्, तत् कथं कर्तव्यम्" इति ॥
१५.२५
ते यथा ब्रूयुस् तत् कुर्यात् ॥
१५.२६
एवं मन्त्र.उपलब्धिः संवृतिश् च भवति" इति ॥
१५.२७
न_इति पिशुनः ॥
१५.२८
"मन्त्रिणो हि व्यवहितम् अर्थं वृत्तम् अवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा ॥
१५.२९
स दोषः ॥
१५.३०
तस्मात् कर्मसु ये येष्व् अभिप्रेतास् तैः सह मन्त्रयेत ॥
१५.३१
तैर् मन्त्रयमाणो हि मन्त्र.सिद्धिं गुप्तिं च लभते" इति ॥
१५.३२
न_इति कौटिल्यः ॥
१५.३३
अनवस्था ह्य् एषा ॥
१५.३४
मन्त्रिभिस् त्रिभिश् चतुर्भिर् वा सह मन्त्रयेत ॥
१५.३५
मन्त्रयमाणो ह्य् एकेन_अर्थ.कृच्छ्रेषु निश्चयं न_अधिगच्छेत् ॥
१५.३६
एकश् च मन्त्री यथा.इष्टम् अनवग्रहश् चरति ॥
१५.३७
द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्याम् अवगृह्यते, विगृहीताभ्यां विनाश्यते ॥
१५.३८
तत् त्रिषु चतुषु वा कृच्छ्रेण_उपपद्यते ॥
१५.३९
महा.दोषम् उपपन्नं तु भवति ॥
१५.४०
ततः परेषु कृच्छ्रेण_अर्थ.निश्चयो गम्यते, मन्त्रो वा रक्ष्यते ॥
१५.४१
देश.काल.कार्य.वशेन त्व् एकेन सह द्वाभ्याम् एको वा यथा.सामर्थ्यं मन्त्रयेत ॥(अल्तेर्णतिवे विएwस् अप्प्रोवेद्)
१५.४२
कर्मणाम् आरम्भ.उपायः पुरुष.द्रव्य.सम्पद् देश.काल.विभागो विनिपात.प्रतीकारः कार्य.सिद्धिर् इति पञ्च.अङ्गो मन्त्रः ॥
१५.४३
तान् एकैकशः पृच्छेत् समस्तांश् च ॥
१५.४४
हेतुभिश् च_एषां मति.प्रविवेकान् विद्यात् ॥
१५.४५
अवाप्त.अर्थः कालं न_अतिक्रामयेत् ॥
१५.४६
न दीर्घ.कालं मन्त्रयेत, न तेषां पक्षीयैर् येषाम् अपकुर्यात् ॥
१५.४७
"मन्त्रि.परिषदं द्वादश.अमात्यान् कुर्वीत" इति मानवाः ॥
१५.४८
"षोडश" इति बार्हस्पत्याः ॥
१५.४९
"विंशतिम्" इत्य् औशनसाः ॥
१५.५०
यथा.सामर्थ्यम् इति कौटिल्यः ॥
१५.५१
ते ह्य् अस्य स्व.पक्षं पर.पक्षं च चिन्तयेयुः ॥
१५.५२
अकृत.आरम्भम् आरब्ध.अनुष्ठानम् अनुष्ठित.विशेषं नियोग.सम्पदं च कर्मणां कुर्युः ॥
१५.५३
आसन्नैः सह कर्माणि पश्येत् ॥
१५.५४
अनासन्नैः सह पत्त्र.सम्प्रेषणेन मन्त्रयेत ॥
१५.५५
इन्द्रस्य हि मन्त्रि.परिषद्.ऋषीणां सहस्रम् ॥
१५.५६
स तच् चक्षुः ॥
१५.५७
तस्माद् इमं द्व्य्.अक्षं सहस्र.अक्षम् आहुः ॥
१५.५८
आत्ययिके कार्ये मन्त्रिणो मन्त्रि.परिषदं च_आहूय ब्रूयात् ॥
१५.५९
तत्र यद्.भूयिष्ठा ब्रूयुः कार्य.सिद्धि.करं वा तत् कुर्यात् ॥
१५.६०
कुर्वतश् च --
१५.६०
न_अस्य गुह्यं परे विद्युश् छिद्रं विद्यात् परस्य च ।
१५.६०
गूहेत् कूर्म_इव_अङ्गानि यत् स्याद् विवृतम् आत्मनः ॥
१५.६१
यथा ह्य् अश्रोत्रियः श्राद्धं न सतां भोक्तुम् अर्हति ।
१५.६१
एवम् अश्रुत.शास्त्र.अर्थो न मन्त्रं श्रोतुम् अर्हति ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP