अर्थशास्त्रम् अध्याय ०१ - भाग १६

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


१६.०१
उद्वृत्त.मन्त्रो दूत.प्रणिधिः ॥

१६.०२
अमात्य.सम्पदा_उपेतो निसृष्ट.अर्थः ॥

१६.०३
पाद.गुण.हीनः परिमित.अर्थः ॥

१६.०४
अर्ध.गुण.हीनः शासन.हरः ॥

१६.०५
सुप्रतिविहित.यान.वाहन.पुरुष.परिवापः प्रतिष्ठेत ॥

१६.०६
शासनम् एवं वाच्यः परः, स वक्ष्यत्य् एवम्, तस्य_इदं प्रतिवाक्यम्, एवम् अतिसंधातव्यम्, इत्य् अधीयानो गच्छेत् ॥

१६.०७
अटव्य्.अन्त.पाल.पुर.राष्ट्र.मुख्यैश् च प्रतिसंसर्गं गच्छेत् ॥

१६.०८
अनीक.स्थान.युद्ध.प्रतिग्रह.अपसार.भूमीर् आत्मनः परस्य च_अवेक्षेत ॥

१६.०९
दुर्ग.राष्ट्र.प्रमाणं सार.वृत्ति.गुप्तिच्.छिद्राणि च_उपलभेत ॥

१६.१०
पर.अधिष्ठानम् अनुज्ञातः प्रविशेत् ॥

१६.११
शासनं च यथा.उक्तं ब्रूयात्, प्राण.आबाधे_अपि दृष्टे ॥

१६.१२
परस्य वाचि वक्त्रे दृष्ट्यां च प्रसादं वाक्य.पूजनम् इष्ट.परिप्रश्नं गुण.कथा.सङ्गम् आसन्नम् आसनं सत्कारम् इष्टेषु स्मरणं विश्वास.गमनं च लक्षयेत् तुष्टस्य, विपरीतम् अतुष्टस्य ॥

१६.१३
तं ब्रूयात् - "दूत.मुखा हि राजानः, त्वं च_अन्ये च ॥

१६.१४
तस्माद् उद्यतेष्व् अपि शस्त्रेषु यथा.उक्तं वक्तारो दूताः ॥

१६.१५
तेषाम् अन्त.अवसायिनो_अप्य् अवध्याः, किम् अङ्ग पुनर् ब्राह्मणाः ॥

१६.१६
परस्य_एतद् वाक्यम् ॥

१६.१७
एष दूत.धर्मः" इति ॥

१६.१८
वसेद् अविसृष्टः पूजया न_उत्सिक्तः ॥

१६.१९
परेषु बलित्वं न मन्येत ॥

१६.२०
वाक्यम् अनिष्टं सहेत ॥

१६.२१
स्त्रियः पानं च वर्जयेत् ॥

१६.२२
एकः शयीत ॥

१६.२३
सुप्त.मत्तयोर् हि भाव.ज्ञानं दृष्टम् ॥

१६.२४
कृत्य.पक्ष.उपजापम् अकृत्य.पक्षे गूढ.प्रणिधानं राग.अपरागौ भर्तरि रन्ध्रं च प्रकृतीनां तापस.वैदेहक.व्यञ्जनाभ्याम् उपलभेत, तयोर् अन्तेवासिभिश् चिकित्सक.पाषण्ड.व्यञ्जन.उभय.वेतनैर् वा ॥

१६.२५
तेषाम् असम्भाषायां याचक.मत्त.उन्मत्त.सुप्त.प्रलापैः पुण्य.स्थान.देव.गृह.चित्र.लेख्य.संज्ञाभिर् वा चारम् उपलभेत ॥

१६.२६
उपलब्धस्य_उपजापम् उपेयात् ॥

१६.२७
परेण च_उक्तः स्वासां प्रकृतीनां प्रमाणं न_आचक्षीत ॥

१६.२८
"सर्वं वेद भवान्" इति ब्रूयात्, कार्य.सिद्धि.करं वा ॥

१६.२९
कार्यस्य_असिद्धाव् उपरुध्यमानस् तर्कयेत् - "किं भर्तुर् मे व्यसनम् आसन्नं पश्यन्, स्वं वा व्यसनं प्रतिकर्तु.कामः, पार्ष्णि.ग्राहम् आसारम् अन्तः.कोपम् आटविकं वा समुत्थापयितु.कामः, मित्रम् आक्रन्दं वा व्याघातयितु.कामः, स्वं वा परतो विग्रहम् अन्तः.कोपम् आटविकं वा प्रतिकर्तु.कामः, संसिद्धं वा मे भर्तुर् यात्रा.कालम् अभिहन्तु.कामः, सस्य.पण्य.कुप्य.संग्रहं दुर्ग.कर्म बल.समुद्दानं वा कर्तु.कामः, स्व.सैन्यानां वा व्यायामस्य देश.कालाव् आकाङ्क्षमाणः, परिभव.प्रमादाभ्यां वा, संसर्ग.अनुबन्ध.अर्थी वा, माम् उपरुणद्धि" इति ॥

१६.३०
ज्ञात्वा वसेद् अपसरेद् वा ॥

१६.३१
प्रयोजनम् इष्टम् अवेक्षेत वा ॥

१६.३२
शासनम् अनिष्टम् उक्त्वा बन्ध.वध.भयाद् अविसृष्टो_अप्य् अपगच्छेत्, अन्यथा नियम्येत ॥

१६.३३
प्रेषणं संधि.पालत्वं प्रतापो मित्र.संग्रहः ।

१६.३३
उपजापः सुहृद्.भेदो गूढ.दण्ड.अतिसारणम् ॥

१६.३४
बन्धु.रत्न.अपहरणं चार.ज्ञानं पराक्रमः ।

१६.३४
समाधि.मोक्षो दूतस्य कर्म योगस्य च_आश्रयः ॥

१६.३५
स्व.दूतैः कारयेद् एतत् पर.दूतांश् च रक्षयेत् ।

१६.३५
प्रतिदूत.अपसर्पाभ्यां दृश्य.अदृश्यैश् च रक्षिभिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP