अर्थशास्त्रम् अध्याय ०१ - भाग १३
कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.
१३.०१
कृत.महा.मात्र.अपसर्पः पौर.जानपदान् अपसर्पयेत् ॥
१३.०२
सत्त्रिणो द्वन्द्विनस् तीर्थ.सभा.पूग.जन.समवायेषु विवादं कुर्युः ॥
१३.०३
"सर्व.गुण.सम्पन्नश् च_अयं राजा श्रूयते, न च_अस्य कश्चिद् गुणो दृश्यते यः पौर.जानपदान् दण्ड.कराभ्यां पीडयति" इति ॥
१३.०४
तत्र ये_अनुप्रशंसेयुस् तान् इतरस् तं च प्रतिषेधयेत् ॥
१३.०५
"मात्स्य.न्याय.अभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे ॥
१३.०६
धान्य.षड्.भागं पण्य.दश.भागं हिरण्यं च_अस्य भाग.धेयं प्रकल्पयाम्-आसुः ॥
१३.०७
तेन भृता राजानः प्रजानां योग.क्षेम.आवहाः ॥
१३.०८
तेषां किल्बिषम् अदण्ड.करा हरन्त्य् अयोग.क्षेम.आवहाश् च प्रजानाम् ॥
१३.०९
तस्माद् उञ्छ.षड्.भागम् आरण्यका_अपि निर्वपन्ति - "तस्य_एतद् भाग.धेयं यो_अस्मान् गोपायति" इति ॥
१३.१०
इन्द्र.यम.स्थानम् एतद् राजानः प्रत्यक्ष.हेड.प्रसादाः ॥
१३.११
तान् अवमन्यमानान् दैवो_अपि दण्डः स्पृशति ॥
१३.१२
तस्माद् राजानो न_अवमन्तव्याः ॥
१३.१३
इत्य् एवं क्षुद्रकान् प्रतिषेधयेत् ॥
१३.१४
किं.वदन्तीं च विद्युः ॥
१३.१५
ये च_अस्य धान्य.पशु.हिरण्यान्य् आजीवन्ति, तैर् उपकुर्वन्ति व्यसने_अभ्युदये वा, कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति, अमित्रम् आटविकं वा प्रतिषेधयन्ति, तेषां मुण्ड.जटिल.व्यञ्जनास् तुष्ट.अतुष्टत्वं विद्युः ॥
१३.१६
तुष्टान् भूयो_अर्थ.मानाभ्यां पूजयेत् ॥
१३.१७
अतुष्टांस् तुष्टि.हेतोस् त्यागेन साम्ना च प्रसादयेत् ॥
१३.१८
परस्पराद् वा भेदयेद् एनान्, सामन्त.आटविक.तत्.कुलीन.अपरुद्धेभ्यश् च ॥
१३.१९
तथा_अप्य् अतुष्यतो दण्ड.कर.साधन.अधिकारेण जनपद.विद्वेषं ग्राहयेत् ॥
१३.२०
विविष्टान् उपांशु.दण्डेन जनपद.कोपेन वा साधयेत् ॥
१३.२१
गुप्त.पुत्र.दारान् आकर.कर्म.अन्तेषु वा वासयेत् परेषाम् आस्पद.भयात् ॥
१३.२२
क्रुद्ध.लुब्ध.भीत.मानिनस् तु परेषां कृत्याः ॥
१३.२३
तेषां कार्तान्तिक.नैमित्तिक.मौहूर्तिक.व्यञ्जनाः परस्पर.अभिसम्बन्धम् अमित्र.आटविक.सम्बन्धं वा विद्युः ॥
१३.२४
तुष्टान् अर्थ.मानाभ्यां पूजयेत् ।
१३.२५
अतुष्टान् साम.दान.भेद.दण्डैः साधयेत् ॥
१३.२६
एवं स्व.विषये कृत्यान् अकृत्यांश् च विचक्षणः ।
१३.२६
पर.उपजापात् सम्रक्षेत् प्रधानान् क्षुद्रकान् अपि ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP