संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय १८ रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय १८ श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अध्याय १८ Translation - भाषांतर भेदा वन्ध्याबलानां हि नवधा परिकीर्तिताः ।तत्रादिवन्ध्या प्रथमा पापकर्मविनिर्मिता ॥१॥रक्तेन च पृथग्दोषैः समस्तैः पञ्चधा भवेत् ।भूतदेवाभिचारैश्च तिस्रो वन्ध्याः प्रकीर्तिताः ॥२॥पुमानपि भवेद्वन्ध्यो दोषैरेतैश्च शुक्रतः ॥३॥गर्भस्रावी स्मृता पूर्वं मृतवत्सा द्वितीयका ।तृतीया स्त्रीप्रसूतिः स्यात्काकवन्ध्या सकृत्प्रसूः ॥४॥जयसुन्दररससुवर्णं रजतं ताम्रं ताप्यसत्त्वं च वैकृतम् ।एकैकं निष्कमानेन संशुद्धं परिमारितम् ॥५॥एतच्चतुर्गुणं सूतं सूताद्द्विगुणगन्धकम् ।मर्दयेल्लक्ष्मणातोयैर्बन्धुजीवरसैरपि ॥६॥काचकूप्यां ततः क्षिप्त्वा ताम्रपात्रं मुखे न्यसेत् ।विलिम्पेदभितः कूपीमङ्गुलोत्सेधया मृदा ॥७॥विशोष्य च पुटं दद्याद्भूमौ निक्षिप्य कूपिकाम् ।गजाख्यपुटपर्याप्तिः शाणकर्षमितोत्पलैः ॥८॥स्वांगशीतं विचूर्ण्याथ भावयेल्लक्ष्मणाद्रवैः ।सप्तवारं विशोष्याथ करण्डान्तर्विनिक्षिपेत् ॥९॥अश्वगन्धारजोयुक्तरताम्रगोक्षीरसंयुतः ।सेवितो गुञ्जया तुल्यः सितया च रसोत्तमः ॥१०॥मासत्रयप्रयोगेण वन्ध्या भवति पुत्रिणी ।पुत्रिण्यै स्नानशुद्धायै जरत्कौशिकचक्षुषी ॥११॥गव्याज्येन च संसाध्य तत्तदानीं हि भोजयेत् ।ऋतावृताविदं देयं यावन्मासत्रयं भवेत् ॥१२॥रसेन्द्रः कथितः सोऽयं चम्पकारण्यवासिभिः ।पूर्णामृताख्ययोगीन्द्रैर् नामतो जयसुन्दरः ॥१३॥सेवितेऽस्मिन्रसे स्त्रीणां न भवेत् सूतिकागदः ।भवेत्पुत्रश्च दीर्घायुः पण्डितो भाग्यमण्डितः ॥१४॥रत्नभागोत्तररसवज्रं मरकतं पद्मरागं पुष्पं च नीलकम् ।वैदूर्यं चाथ गोमेदं मौक्तिकं विद्रुमं तथा ॥१५॥पञ्चगुञ्जामितं सर्वं रत्नं भागोत्तरं परम् ।तत्तन्त्रोक्तविधानेन भस्मीकुर्यात्प्रयत्नतः ॥१६॥सर्वस्माद् अष्टगुणितं भस्म वैक्रान्तसम्भवम् ।तत्तुल्यं ताप्यजं भस्म तद्वद्विमलभस्म च ॥१७॥सर्वतस्त्रिगुणां तुल्यां रसगन्धककज्जलीम् ।सर्वमेकत्र संमर्द्य छागीदुग्धेन तद्द्व्यहम् ॥१८॥विधाय पर्पटीं यत्नात्परिचूर्ण्य प्रयत्नतः ।वन्ध्याकर्कोटकीपर्णक्वाथेन परिमर्दयेत् ॥१९॥काननोत्पलविंशत्या पुटेत्षोडशवारकम् ।एवं रसो विनिष्पन्नो रत्नभागोत्तराभिधः ॥२०॥महावन्ध्यादिवन्ध्यानां सर्वासां संततिप्रदः ।देवीशास्त्रे विनिर्दिष्टः पुंसां वन्ध्यत्वरोगनुत् ॥२१॥सोऽयं पाचनदीपनो रुचिकरो वृष्यस्तथा गर्भिणीसर्वव्याधिविनाशनो रतिकरः पाण्डुप्रचण्डार्तिनुत् ।धन्यो बुद्धिकरश्च पुत्रजननः सौभाग्यकृद्योषितां निर्दोषः स्मरमन्दिरामयहरो योगादशेषार्तिनुत् ॥२२॥चक्रिबन्धरसगन्धकः पलमात्रश्च पृथगक्षौ शिलालकौ ।त्रिदिनं मर्दयित्वाथ विदध्यात्कज्जलीं शुभाम् ॥२३॥विषाणाकारमूषायां कज्जलीं निक्षिपेत्ततः ।द्विपलस्य च ताम्रस्य तन्मुखे चक्रिकां न्यसेत् ॥२४॥संनिरुध्यातियत्नेन संधिबन्धे विशोषिते ।ततः करिपुटार्धेन पाकं सम्यक् प्रकल्पयेत् ॥२५॥स्वतःशीतं समुद्धृत्य चक्रिकां परिचूर्णयेत् ।स्थगयेत्कूपिकामध्ये वस्त्रेण परिगालितम् ॥२६॥रसोऽयं चक्रिकाबन्धस् तत्तद्रोगहरौषधैः ।दातव्यः शूलरोगेषु मूले गुल्मे भगन्दरे ॥२७॥ग्रहण्यामग्निमांद्ये च विद्रधौ जठरामये ।नागोदरे तथैवोपविष्टके जलकूर्मके ॥२८॥ स्कन्देनामन्दकृपया त्रिलोकत्राणहेतवे । N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP