रसरत्नसमुच्चय - अध्याय ७
श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।
रसशालां प्रकुर्वीत सर्वबाधाविवर्जिते ।
सर्वौषधिमये देशे रम्ये कूपसमन्विते ॥१॥
यक्षत्र्यक्षसहस्राक्षदिग्विभागे सुशोभने ।
नानोपकरणोपेतां प्राकारेण सुशोभिताम् ॥२॥
शालायाः पूर्वदिग्भागे स्थापयेद् रसभैरवम् ।
वह्निकर्माणि चाग्नेये याम्ये पाषाणकर्म च ॥३॥
नैरृत्ये शस्त्रकर्माणि वारुणे क्षालनादिकम् ।
शोषणं वायुकोणे च वेधकर्मोत्तरे तथा ।
स्थापनं सिद्धवस्तूनां प्रकुर्याद् ईशकोणके ॥४॥
पदार्थसंग्रहः कार्यो रससाधनहेतुकः ।
सत्त्वपातनकोष्ठीं च झरत्कोष्ठीं सुशोभनाम् ॥५॥
भूमिकोष्ठीं चलत्कोष्ठीं जलद्रोण्योऽप्यनेकशः ।
भस्त्रिकायुगलं तद्वन्नलिके वंशलोहयोः ॥६॥
स्वर्णायोघोषशुल्वाश्मकुण्ड्यश् चर्मकृतां तथा ।
करणानि विचित्राणि द्रव्याण्यपि समाहरेत् ॥७॥
कण्डणी पेषणी स्वल्पा द्रोणीरूपाश्च वर्तुलाः ।
आयसास्तप्तखल्लाश्च मर्दकाश्च तथाविधाः ॥८॥
सूक्ष्मच्छिद्रसहस्राढ्या द्रव्यगालनहेतवे ।
चालनी च कटत्राणि शलाका हि च कुण्डली ॥९॥
सिएवे
चालनी त्रिविधा प्रोक्ता तत्स्वरूपं च कथ्यते ।
वैणवीभिः शलाकाभिर्निर्मिता ग्रथिता गुणैः ।
कीर्तिता सा सदा स्थूलद्रव्याणां गालने हिता ॥१०॥
सिएवे-व्.२
चूर्णचालनहेतोश्च चालन्यन्यापि वंशजा ॥११॥
कर्णिकारस्य शाल्मल्या हरिजातस्य कम्बया ।
चतुरङ्गुलविस्तारयुक्तया निर्मिता शुभा ॥१२॥
सिएवे-कुण्डली
कुण्डल्यरत्निविस्तारा छागचर्माभिवेष्टिता ।
वाजिवालाम्बरानद्धतला चालनिका परा ।
तया प्रचालनं कुर्याद्धर्तुं सूक्ष्मतरं रजः ॥१३॥
मूषामृत्तुषकार्पासवनोपलकपिष्टकम् ।
त्रिविधं भेषजं धातुजीवमूलमयं तथा ।
शिखित्र, शर्करा
शिखित्रा गोवरं चैव शर्करा च सितोपला ॥१४॥
छर्चोअल्
शिखित्राः पावकोच्छिष्टा अङ्गाराः कोकिला मताः ॥१५॥
छर्चोअल्-कोकिल
कोकिलाश् चेतिताङ्गारा निर्वाणाः पयसा विना ॥१६॥
पिष्टकं छगणं छाणम् उपलं चोत्पलं तथा ।
गिरिण्डोपलसाठी च संशुष्कच्छगणाभिधाः ॥१७॥
काचायोमृद्वराटानां कूपिका चषकानि च ॥१८॥
बोत्त्ले
कूपिका कुपिका सिद्धा गोला चैव गिरिण्डिका ॥१९॥
चषकपर्यायाः
चषकं च कटोरी च वाटिका खारिका तथा ।
कञ्चोली ग्राहिका चेति नामान्येकार्थकानि हि ॥२०॥
शूर्पादिवेणुपात्राणि क्षुद्रशिप्राश्च शङ्खिकाः ।
क्षुरप्राश्च तथा पाक्यः यच्चान्यत्तत्र युज्यते ।
पालिका कर्णिका चैव शाकच्छेदनशस्त्रकाः ॥२१॥
शालासम्मार्जनाद्यं हि रसपाकान्तकर्म यत् ।
तत्रोपयोगि यच्चान्यत्तत्सर्वं परविद्यया ॥२२॥
श्रीरसाङ्कुशया सर्वं मन्त्रयित्वा समर्चयेत् ।
अन्यथा तद्गतं तेजः परिगृह्णन्ति भैरवाः ॥२३॥
रससंचिन्तका वैद्या निघण्टुज्ञाश्च वार्त्तिकाः ।
सर्वदेशजभाषाज्ञाः संग्राह्यास्तेऽपि साधकैः ॥२४॥
रसपाकावसानं हि सदाघोरं च जापयेत् ॥२५॥
सोद्यमाः शुचयः शूरा बलिष्ठाः परिचारकाः ॥२६॥
धर्मिष्ठः सत्यवाग्विद्वान् शिवकेशवपूजकः ।
सदयः पद्महस्तश्च संयोज्यो रसवैद्यके ॥२७॥
पताकाकुम्भपाथोजमत्स्यचापाङ्कपाणिकः ।
अनामाधस्थरेखाङ्कः स स्यादमृतहस्तवान् ॥२८॥
अदेशिकः कृपामुक्तो लुब्धो गुरुविवर्जितः ।
कृष्णरेखाकरो वैद्यो दग्धहस्तः स उच्यते ॥२९॥
निग्रहमन्त्रज्ञास्ते योज्या निधिसाधने ॥३०॥
बलिष्ठाः सत्यवन्तश्च रक्ताक्षाः कृष्णविग्रहाः ।
भूतत्रासनविद्याश्च ते योज्या बलिसाधने ॥३१॥
निर्लोभाः सत्यवक्तारो देवब्राह्मणपूजकाः ।
यमिनः पथ्यभोक्तारो योजनीया रसायने ॥३२॥
धनवन्तो वदान्याश्च सर्वोपस्करसंयुताः ।
गुरुवाक्यरता नित्यं धातुवादेषु ते शुभाः ॥३३॥
तत्तदौषधनामज्ञाः शुचयो वञ्चनोज्झिताः ।
नानाविषयभाषाज्ञास्ते मता भेषजाहृतौ ॥३४॥
शुचीनां सत्यवाक्यानामास्तिकानां मनस्विनाम् ।
संदेहोज्झितचित्तानां रसः सिध्यति सर्वदा ॥३५॥
दशाष्टक्रियया सिद्धो रसोऽसौ साधकोत्तमः ।
हा रसो नष्टमित्युक्त्वा सेवेतान्यत्र तं रसम् ॥३६॥
रससिद्धो भवेन्मर्त्यो दाता भोक्ता न याचकः ।
जरामुक्तो जगत्पूज्यो दिव्यकान्तिः सदा सुखी ॥३७॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP