संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय १० रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय १० श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अध्याय १० Translation - भाषांतर च्रुचिब्लेमूषा हि क्रौञ्चिका प्रोक्ता कुमुदी करहाटिका ।पाचनी वह्निमित्रा च रसवादिभिरीर्यते ॥१॥च्रुचिब्ले-निरुक्तिमुष्णाति दोषान् मूषा या सा मूषेति निगद्यते ॥२॥च्रुचिब्लेउपादानं भवेत्तस्या मृत्तिका लोहमेव च ॥३॥मूषामुखविनिष्क्रान्ता वरमेकापि काकिणी ।दुर्जनप्रणिपातेन धिग्लक्षम् अपि मानिनाम् ॥४॥संधिलेपमूषापिधानयोर्बन्धे बन्धनं संधिलेपनम् ।अन्ध्रणं रन्ध्रणं चैव संश्लिष्टं संधिबन्धनम् ॥५॥टोन्मृत्तिका पाण्डुरस्थूला शर्करा शोणपाण्डुरा ।चिराध्मानसहा सा हि मूषार्थम् अतिशस्यते ।तदभावे च वाल्मीकी कौलाली वा समीर्यते ॥६॥या मृत्तिका दुग्धतुषैः शणेन शिखित्रकैर् वा हयलद्दिना च ।लौहेन दण्डेन च कुट्टिता सा साधारणा स्यात् खलु मूषिकार्थे ॥७॥श्वेताश्मानस् तुषा दग्धाः शिखित्राः शणखर्परे ।लद्दिः किट्टं कृष्णमृत्स्ना संयोज्या मूषिकामृदि ॥८॥वज्रमूषामृदस्त्रिभागाः शणलद्दिभागौ भागश्च निर्दग्धतुषोपलादेः ।किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यात्खलु सत्त्वपाते ॥९॥योगमूषादग्धाङ्गारतुषोपेता मृत्स्ना वल्मीकमृत्तिका ।तत्तद्विडसमायुक्ता तत्तद्विडविलेपिता ॥१०॥तया या विहिता मूषा योगमूषेति कथ्यते ।अनया साधितः सूतो जायते गुणवत्तरः ॥११॥वज्रद्रावणिकमूषागारभूनागधौताभ्यां शणैर्दग्धतुषैरपि ।समैः समा च मूषामृन्महिषीदुग्धमर्दिता ॥१२॥क्रौञ्चिका यन्त्रमात्रं हि बहुधा परिकीर्तिता ।तया विरचिता मूषा वज्रद्रावणिकोचिता ॥१३॥गारमूषादुग्धषड्गुणगाराष्टकिट्टाङ्गारशणान्विता ।कृष्णमृद्भिः कृता मूषा गारमूषेत्युदाहृता ।यामयुग्मपरिध्मानान् नासौ द्रवति वह्निना ॥१४॥वरमूषावज्राङ्गारतुषास्तुल्यास् तच्चतुर्गुणमृत्तिका ।गारा च मृत्तिकातुल्या सर्वैर् एतैर् विनिर्मिता ।वरमूषेति निर्दिष्टा याममग्निं सहेत सा ॥१५॥वर्णमूषापाषाणरहिता रक्ता रक्तवर्गानुसाधिता ।मृत्तया साधिता मूषा क्षितिखेचरलेपिता ।वर्णमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते ॥१६॥रूप्यमूषापाषाणरहिता श्वेता श्वेतवर्गानुसाधिता ।मृत् तया साधिता मूषा क्षितिखेचरलेपिता ।रौप्यमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते ॥१७॥विडमूषातत्तद्भेदमृदोद्भूता तत्तद्विडविलेपिता ।देहलोहार्थयोगार्थं विडमूषेत्युदाहृता ॥१८॥वज्रद्रावणिकमूषा (२)गारभूनागधौताभ्यां तुषमृष्टशणेन च ।समैः समा च मूषामृन्महिषीदुग्धमर्दिता ॥१९॥क्रौञ्चिका यन्त्रमात्रे हि बहुधा परिकीर्तिता ।तया विरचिता मूषा लिप्ता मत्कुणशोणितैः ॥२०॥बालाब्दध्वनिमूलैश्च वज्रद्रावणक्रौञ्चिका ।सहतेऽग्निं चतुर्यामं द्रवेण व्याधिता सती ॥२१॥मूषाप्यायनद्रवे द्रवीभावमुखे मूषाया ध्मानयोगतः ।क्षणमुद्धरणं यत्तन्मूषाप्यायनम् उच्यते ॥२२॥वृन्ताकमूषावृन्ताकाकारमूषायां नालं द्वादशकाङ्गुलम् ।धत्तूरपुष्पवच् चोर्ध्वं सुदृढं श्लिष्टपुष्पवत् ॥२३॥अष्टाङ्गुलं च सच्छिद्रं सा स्याद् वृन्ताकमूषिका ।अनया खर्परादीनां मृदूनां सत्त्वमाहरेत् ॥२४॥गोस्तनमूषामूषा या गोस्तनाकारा शिखायुक्तपिधानका ।सत्त्वानां द्रावणे शुद्धौ मूषा सा गोस्तनी भवेत् ॥२५॥मल्लमूषानिर्दिष्टा मल्लमूषा या मल्लद्वितयसम्पुटात् ।पर्पट्यादिरसादीनां स्वेदनाय प्रकीर्तिता ॥२६॥पक्वमूषाकुलालभाण्डरूपा या दृढा च परिपाचिता ।पक्वमूषेति सा प्रोक्ता पोट्टल्यादिविपाचने ॥२७॥गोलमूषानिर्वक्त्रगोलकाकारा पुटनद्रव्यगर्भिणी ।गोलमूषेति सा प्रोक्ता सत्वरद्रवरोधिनी ॥२८॥महामूषातले या कूर्पराकारा क्रमादुपरि विस्तृता ।स्थूलवृन्ताकवत् स्थूला महामूषेत्यसौ स्मृता ।सा चायोऽभ्रकसत्त्वादेः पुटाय द्रावणाय च ॥२९॥मण्डूकमूषामण्डूकाकारा या निम्नतायामविस्तरा ।षडङ्गुलप्रमाणेन मूषा मण्डूकसंज्ञिका ।भूमौ निखन्य तां मूषां दद्यात्पुटमथोपरि ॥३०॥मूसल-/मुशलमूषामूषा या चिपिटा मूले वर्तुलाष्टाङ्गुलोच्छ्रया ।मूषा सा मूसलाख्या स्याच्चक्रिबद्धरसे हिता ॥३१॥कोष्ठीसत्त्वानां पातनार्थाय पातितानां विशुद्धये ।कोष्ठिका विविधाकारास्तासां लक्षणम् उच्यते ॥३२॥अङ्गारकोष्ठीराजहस्तसमुत्सेधा तदर्धायामविस्तरा ।चतुरस्रा च कुड्येन वेष्टिता मृन्मयेन च ॥३३॥एकभित्तौ चरेद्द्वारं वितस्त्याभोगसंयुतम् ।द्वारं सार्धवितस्त्या च संमितं सुदृढं शुभम् ॥३४॥देहल्यधो विधातव्यं धमनाय यथोचितम् ।प्रादेशप्रमिता भित्तिर् उत्तरङ्गस्य चोर्ध्वतः ॥३५॥द्वारं चोपरि कर्तव्यं प्रादेशप्रमितं खलु ।ततश्चेष्टिकया रुद्ध्वा द्वारसंधिं विलिप्य च ॥३६॥शिखित्रैस्तां समापूर्य धमेद्भस्त्राद्वयेन च ।शिखित्रान् धमनद्रव्यम् ऊर्ध्वद्वारेण निक्षिपेत् ॥३७॥सत्त्वपातनगोलांश्च पञ्च पञ्च पुनः पुनः ।भवेद् अङ्गारकोष्ठीयं खराणां सत्त्वपातिनी ॥३८॥पातालकोष्ठीदृढभूमौ चरेद्गर्तं वितस्त्या संमितं शुभम् ।वर्तुलं चाथ तन्मध्ये गर्तमन्यं प्रकल्पयेत् ॥३९॥चतुरङ्गुलविस्तारनिम्नत्वेन समन्वितम् ।गर्ताद्धरणिपर्यन्तं तिर्यङ्नालसमन्वितम् ॥४०॥किंचित् समुन्नतं बाह्यगर्ताभिमुखनिम्नगम् ।मृच्चक्रीं पञ्चरन्ध्राढ्यां गर्भगर्तोदरे क्षिपेत् ॥४१॥आपूर्य कोकिलैः कोष्ठीं प्रधमेद् एकभस्त्रया ।पातालकोष्ठिका ह्य् एषा मृदूनां सत्त्वपातिनी ।ध्मानसाध्यपदार्थानां नन्दिना परिकीर्तिता ॥४२॥गारकोष्ठीद्वादशाङ्गुलनिम्ना या प्रादेशप्रमिता तथा ।चतुरङ्गुलतश्चोर्ध्वं वलयेन समन्विता ॥४३॥भूरिच्छिद्रवतीं चक्रीं वलयोपरि निक्षिपेत् ।शिखित्रांस्तत्र निक्षिप्य प्रधमेद् वङ्कनालतः ।गारकोष्ठीयम् आख्याता मृष्टलोहविनाशिनी ॥४४॥वङ्कनालमूषामृद्भिर् विधातव्यम् अरत्निप्रमितं दृढम् ।अधोमुखं च तद्वक्त्रे नालं पञ्चाङ्गुलं खलु ।वङ्कनालम् इदं प्रोक्तं दृढध्मानाय कीर्तितम् ॥४५॥मूषाकोष्ठी/तिर्यक्प्रधमनकोष्ठीकोष्ठी सिद्धरसादीनां विधानाय विधीयते ।द्वादशाङ्गुलकोत्सेधा सा बुध्ने चतुरङ्गुला ।तिर्यक्प्रधमनास्या च मृदुद्रव्यविशोधिनी ॥४६॥पुटरसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् ।नेष्टो न्यूनाधिकः पाकः सुपाकं हितम् औषधम् ॥४७॥लोहादेरपुनर्भावो गुणाधिक्यं ततोऽग्रता ।अनप्सु मज्जनं रेखापूर्णता पुटतो भवेत् ॥४८॥पुटाद् ग्राव्णो लघुत्वं च शीघ्रव्याप्तिश्च दीपनम् ।जारितादपि सूतेन्द्राल्लोहानाम् अधिको गुणः ॥४९॥यथाश्मनि विशेद् वह्निर् बहिःस्थपुटयोगतः ।चूर्णत्वाद्धि गुणावाप्तिस्तथा लोहेषु निश्चितम् ॥५०॥महापुटनिम्नविस्तरतः कुण्डे द्विहस्ते चतुरस्रके ।वनोत्पलसहस्रेण पूरिते पुटनौषधम् ॥५१॥क्रौञ्च्यां रुद्धं प्रयत्नेन पिष्टिकोपरि निक्षिपेत् ।वनोत्पलसहस्रार्धं क्रौञ्चिकोपरि विन्यसेत् ।वह्निं प्रज्वालयेत्तत्र महापुटमिदं स्मृतम् ॥५२॥गजपुटराजहस्तप्रमाणेन चतुरस्रं च निम्नकम् ।पूर्णं चोपलसाठीभिः कण्ठावध्यथ विन्यसेत् ॥५३॥विन्यसेत्कुमुदीं तत्र पुटनद्रव्यपूरिताम् ।पूर्णच्छगणतोऽर्धानि गिरिण्डानि विनिक्षिपेत् ।एतद्गजपुटं प्रोक्तं महागुणविधायकम् ॥५४॥वाराहपुटइत्थं चारत्निके कुण्डे पुटं वाराहमुच्यते ॥५५॥कुक्कुटपुटपुटं भूमितले तत्तद्वितस्तिद्वितयोच्छ्रयम् ।तावच्च तलविस्तीर्णं तत्स्यात्कुक्कुटकं पुटम् ॥५६॥कपोतपुटयत्पुटं दीयते भूमाव् अष्टसंख्यैर् वनोपलैः ।बद्ध्वा सूतार्कभस्मार्थं कपोतपुटमुच्यते ॥५७॥गोवरगोष्ठान्तर्गोक्षुरक्षुण्णं शुष्कं चूर्णितगोमयम् ।गोवरं तत्समादिष्टं वरिष्ठं रससाधने ॥५८॥गोवरपुटगोवरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते ।तद्गोवरपुटं प्रोक्तं रसभस्मप्रसिद्धये ॥५९॥भाण्डपुटस्थूलभाण्डे तुषापूर्णे मध्ये मूषासमन्विते ।वह्निना विहिते पाके तद्भाण्डपुटमुच्यते ॥६०॥वालुकापुटअधस्तादुपरिष्टाच्च क्रौञ्चिकाच्छाद्यते खलु ।वालुकाभिः प्रतप्ताभिर्यत्र तद्वालुकापुटम् ॥६१॥भूधरपुटवह्निमित्राः क्षितौ सम्यङ्निखन्याद् द्व्यङ्गुलादधः ।उपरिष्टात्पुटं यत्र पुटं तद् भूधराह्वयम् ॥६२॥लावकपुटऊर्ध्वं षोडशिकामूत्रैस्तुषैर्वा गोवरैः पुटम् ।यत्र तल्लावकाख्यं स्यात् सुमृदुद्रव्यसाधने ॥६३॥पुट-देfऔल्त् दिमेन्सिओन्स्अनुक्तपुटमाने तु साध्यद्रव्यबलाबलात् ।पुटं विज्ञाय दातव्यम् ऊहापोहविचक्षणैः ॥६४॥उपलपिष्टकं छगणं छाणम् उत्पलं चोपलं तथा ।गिरिण्डोपलसाठी च वराटी छगणाभिधाः ॥६५॥कृत्रिमलोहानिसुवर्णं रजतं ताम्रं त्रपु सीसकम् आयसम् ।षडेतानि च लोहानि कृत्रिमौ कांस्यपित्तलौ ॥६६॥षड्लवणलवणानि षड् उच्यन्ते सामुद्रं सैन्धवं विडम् ।सौवर्चलं रोमकं च चूलिकालवणं तथा ॥६७॥क्षारत्रयक्षारत्रयं समाख्यातं यवसर्जिकटङ्कणम् ॥६८॥क्षारपञ्चकपलाशमुष्ककक्षारौ यवक्षारः सुवर्चिका ।तिलनालोद्भवः क्षारः संयुक्तं क्षारपञ्चकम् ॥६९॥मधुरत्रयघृतं गुडो माक्षिकं च विज्ञेयं मधुरत्रयम् ॥७०॥ओइल्-संस्कारस्कङ्गुणी तुम्बिनी घोषा करीरश्रीफलोद्भवम् ।कटुवार्त्ताकसिद्धार्थसोमराजीविभीतजम् ॥७१॥अतसीजं महाकालीनिम्बजं तिलजं तथा ।अपामार्गाद्देवदालीदन्तीतुम्बुरुविग्रहात् ॥७२॥अङ्कोलोन्मत्तभल्लातपलाशेभ्यस् तथैव च ।एतेभ्यस्तैलमादाय रसकर्मणि योजयेत् ॥७३॥वसावर्गजम्बूकमण्डूकवसा वसा कच्छपसम्भवा ।कर्कटीशिशुमारी च गोशूकरनरोद्भवा ।अजोष्ट्रखरमेषाणां महिषस्य वसा तथा ॥७४॥मूत्रवर्गमूत्राणि हस्तिकरभमहिषीखरवाजिनाम् ।गोऽजावीनां स्त्रियः पुंसां पुष्पं बीजं तु योजयेत् ॥७५॥पञ्चमाहिषमाहिषाम्बु दधि क्षीरं साभिघारं शकृद्रसः ।छागलपञ्चकतत्पञ्चमाहिषं ज्ञेयं तद्वच्छागलपञ्चकम् ॥७६॥अम्लवर्गअम्लवेतसजम्बीरनिम्बुकं बीजपूरकम् ।चाङ्गेरी चणकाम्लं च अम्लीकं कोलदाडिमम् ॥७७॥अम्बष्ठा तिन्तिडीकं च नागरं रसपत्त्रिका ।करवन्दं तथा चान्यदम्लवर्गः प्रकीर्तितः ॥७८॥चणकाम्लश्च सर्वेषामेक एव प्रशस्यते ।अम्लवेतसमेकं वा सर्वेषामुत्तमोत्तमम् ।अम्लवर्गरसादीनां विशुद्ध्यर्थं द्रावणे जारणे हितम् ॥७९॥अम्लपञ्चककोलदाडिमवृक्षाम्लचुल्लिकाचुक्रिकारसः ।पञ्चाम्लकं समुद्दिष्टं तच्चोक्तं चाम्लपञ्चकम् ॥८०॥पञ्चमृत्तिकाइष्टिका गैरिका लोणं भस्म वल्मीकमृत्तिका ।रसप्रयोगकुशलैः कीर्तिताः पञ्चमृत्तिकाः ॥८१॥विषवर्गशृङ्गीकं कालकूटं च वत्सनाभं सकृत्रिमम् ।पित्तं च विषवर्गोऽयं स वरः परिकीर्तितः ॥८२॥रसकर्मणि शस्तोऽयं तद्भेदनविधाव् अपि ।अयुक्त्या सेवितश्चायं मारयत्येव निश्चितम् ॥८३॥उपविषलाङ्गली विषमुष्टिश्च करवीरं जया तथा ।नीलकः कनकोऽर्कश्च वर्गो ह्य् उपविषात्मकः ॥८४॥दुग्धवर्गहस्त्यश्ववनिता धेनुर्गर्दभी छागिकाविका ।उष्ट्रिकोदुम्बराश्वत्थभानुन्यग्रोधतिल्वकम् ॥८५॥दुग्धिका स्नुग्गुणश् चैव तथैवोत्तमकण्टिका ।एषां दुग्धैर् विनिर्दिष्टो दुग्धवर्गो रसादिषु ॥८६॥विष्ठावर्गपारावतस्य चाषस्य कपोतस्य कलापिनः ।गृध्रस्य कुक्कुटस्यापि विनिर्दिष्टो हि विड्गणः ।विड्वर्गशोधनं सर्वलोहानां पुटनाल्लेपनात् खलु ॥८७॥रक्तवर्गकुसुम्भं खदिरो लाक्षा मञ्जिष्ठा रक्तचन्दनम् ।अक्षी च बन्धुजीवश्च तथा कर्पूरगन्धिनी ।माक्षिकं चेति विज्ञेयो रक्तवर्गोऽतिरञ्जनः ॥८८॥पीतवर्गकिंशुकः कर्णिकारश्च हरिद्राद्वितयं तथा ।पीतवर्गोऽयमादिष्टो रसराजस्य कर्मणि ॥८९॥श्वेतवर्गतगरः कुटजः कुन्दो गुञ्जा जीवन्तिका तथा ।सिताम्भोरुहकन्दश्च श्वेतवर्ग उदाहृतः ॥९०॥कृष्णवर्गकदली कारवेल्ली च त्रिफला नीलिका नलः ।पङ्कः कासीसबालाम्रं कृष्णवर्ग उदाहृतः ॥९१॥रञ्जनरक्तवर्गादिवर्गैश्च द्रव्यं यज्जारणात्मकम् ।भावनीयं प्रयत्नेन तादृग्रागाप्तये खलु ॥९२॥शोधनीयवर्गकाचटङ्कणशिप्राभिः शोधनीयो गणो मतः ॥९३॥सत्त्वानां बद्धसूतस्य लोहानां मलनाशनः ।कापालीकङ्गुणध्वंसी रसवादिभिर् उच्यते ॥९४॥वर्ग-रेमोविन्ग् हर्द्नेस्स् ओf मेतल्स्महिषी मेषशृङ्गी च कलिङ्गो धवबीजयुक् ।शशास्थीनि च योगोऽयं लोहकाठिन्यनाशनः ॥९५॥वर्ग-धातुगुडगुग्गुलुगुञ्जाज्यसारघैष् टङ्गणान्वितैः ।दुर्द्रावाखिललोहादेर् द्रावणाय गणो मतः ॥९६॥क्षाराः सर्वे मलं हन्युर् अम्लं शोधनजारणम् ।मान्द्यं विषाणि निघ्नन्ति स्नैग्ध्यं स्नेहाः प्रकुर्वते ॥९७॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP