संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय १४ रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय १४ श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अध्याय १४ Translation - भाषांतर अग्निमान्द्यं ज्वरः शैत्यं वान्तिः शोणितपूययोः ।सत्त्वहानिश्च दौर्बल्यं राजरोगस्य लक्षणम् ॥१॥रसस्य तुल्यभागेन हेमभस्म प्रकल्पयेत् ।तालकं गन्धकं तुत्थं माक्षिकं रसकं शिलाम् ॥२॥रससाम्येन युञ्जीत तुत्थं भस्मीकृतं न्यसेत् ।वह्नौ भस्मीकृतं चेत्थं मयूरकसुतुत्थकम् ॥३॥किंचिट् टङ्कणकं दत्त्वा मार्जारस्य विशा युतम् ।प्रथमं पुटयेद् दध्ना द्वितीयं मधुना सह ॥४॥तालकं शोधयेदग्रे कूष्माण्डक्षारपाचनात् ।तैले पचेत्ततः सम्यक् चूर्णे वा परिशोधयेत् ॥५॥गन्धकं शोधयेद्दुग्धे रसकं नरवारिणा ।माक्षिकं सिन्धुसंयुक्तं बीजपूररसे पचेत् ॥६॥जयन्तीद्रवसम्पिष्टां शिलां तत्रैव पाचयेत् ।एकीकृत्य ततः सर्वम् अर्कक्षीरेण मर्दयेत् ॥७॥जयन्तीभृङ्गराजाभ्यां वासापाठाकृशानुभिः ।अगस्तिलाङ्गलीभ्यां च प्रत्येकं दिवसं शनैः ॥८॥ततस्तु गोलकं बद्ध्वा पचेत्पूर्ववदाहृतः ।चूर्णयित्वा ततः सम्यग् भावयेदार्द्रकाम्बुना ॥९॥सप्तधा व्योषनिर्यासै रसः कनकसुन्दरः ।गुञ्जाद्वयं त्रयं वास्य राजयक्ष्मापनुत्तये ॥१०॥मधुना पिप्पलीभिश्च मरिचैर्वा घृतान्वितैः ।लेहयेद्रोगिणं वैद्यो बलावस्थाविशेषवित् ॥११॥जयपालरजोभिर्वा शुण्ठ्या गव्यघृताक्तया ।ददीत शूलिने प्राज्ञो गुल्मिने च विशेषतः ॥१२॥कादिवर्ज्यं चरेत्पथ्यं हृद्यं बल्यं च पूर्ववत् ।सन्निपाते ददीतैनमार्द्रकद्रवसंयुतम् ।गुडूचीत्रिफलाक्वाथैः संस्कृतो गुग्गुलुर्वरः ॥१३॥राजमृगाङ्करसःरसभस्म त्रयो भागा भागैकं हेमभस्मकम् ।मृतताम्रस्य भागैकं शिलागन्धकतालकम् ॥१४॥प्रतिभागद्वयं शुद्धमेकीकृत्य विचूर्णयेत् ।वराटान्पूरयेत्तेन अजाक्षीरेण टङ्कणम् ॥१५॥पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे तन्निरोधयेत् ।शुद्धं गजपुटे पच्याच्चूर्णयेत्स्वाङ्गशीतलम् ॥१६॥रसो राजमृगाङ्कोऽयं चतुर्गुञ्जः क्षयापहः ।दशपिप्पलिकाक्षौद्रैर्मरिचैकोनविंशतिः ।सघृतैर्दापयेद्वैद्यो रोगराजप्रशान्तये ॥१७॥शङ्खेश्वररसःशङ्खस्य वलयान्निष्कं चतुर्निष्कं वराटकम् ।निष्कार्धं नीलतुत्थस्य सर्वतुल्यं तु गन्धकम् ॥१८॥गन्धतुल्यं मृतं नागं नागतुल्यं मृतं रसम् ।टङ्कणं रसतुल्यं स्यान्मर्द्यं पाच्यं मृगाङ्कवत् ।राजयक्ष्महरः सोऽयं नाम्ना शङ्खेश्वरो मतः ॥१९॥मृगाङ्कपोटलीरसःशङ्खनाभिं गवां क्षीरैः पेषयेन्निष्कषोडश ।तेन मूषा प्रकर्तव्या तन्मध्ये भस्मसूतकम् ॥२०॥निष्कार्धं गन्धकात्त्रीणि चूर्णीकृत्य विनिक्षिपेत् ।रुद्ध्वा तद्वेष्टयेद्वस्त्रे मृत्तिकां लेपयेद्बहिः ॥२१॥शोष्यं गजपुटे पच्यान्मूषया सह चूर्णयेत् ।गुञ्जैकमनुपानेन क्षयं हन्ति मृगाङ्कवत् ॥२२॥हेमगर्भपटोलीरसःद्विनिष्कं भस्म सूतस्य निष्कैकं स्वर्णभस्मकम् ।शुद्धगन्धकनिष्कौ द्वौ चूर्णयित्वा चित्रकद्रवैः ॥२३॥द्वियामान्ते विशोष्याथ तेन पूर्या वराटिकाः ।वराटान्मृण्मये भाण्डे रुद्ध्वा गजपुटे पचेत् ॥२४॥स्वाङ्गशीतं विचूर्ण्याथ पोटलीं हेमगर्भिताम् ।मृगाङ्कवच्चतुर्गुञ्जं भक्षितं राजयक्ष्मनुत् ॥२५॥स्वयमग्निरसं खादेत्त्रिनिष्कं राजयक्ष्मनुत् ॥२६॥पञ्चामृतरसःभस्मसूताभ्रलोहानां शिलाजतुविषं समम् ।गुडूचीत्रिफलाक्वाथैः संस्कृतं गुग्गुलुं तथा ॥२७॥मृतं नेपालताम्रं च सूतस्थाने नियोजयेत् ।एकीकृत्य द्विगुञ्जं तद्भक्षयेद्राजयक्ष्मनुत् ॥२८॥पञ्चामृतरसो नाम ह्यनुपानं च पूर्ववत् ॥२९॥हरेत्क्षीराजगन्धाभ्यां जयन्ती वा क्षयापहा ॥३०॥क्षयशामकरसःतुल्यं पारदगन्धकं त्रिकटुकं ताभ्यां रजः कम्बुजं तैस्तुल्यं च भवेत्कपर्दभसितं स्यात्पारदाट्टङ्कणम् ।पादांशं सकलैः समानमरिचं लिह्यात्क्रमात्साज्यकं यावन्निष्कमितं भवेत्प्रतिदिनं मासात्क्षयः शाम्यति ॥३१॥लोकनाथरसःरसस्य भस्मना हेम पादांशेन प्रकल्पयेत् ।गन्धकं द्विगुणं दत्त्वा मर्दयेच्चित्रकाम्बुना ॥३२॥चराचरास्ये सम्पूर्य टङ्कणेन निरुध्य च ।भाण्डे चूर्णप्रलिप्तेऽथ क्षिप्त्वा रुन्धीत मृत्स्नया ॥३३॥शोषयित्वा पुटेद्गर्तेऽरत्निमात्रेऽपराह्णके ।स्वाङ्गशीतलम् उद्धृत्य चूर्णयित्वाथ विन्यसेत् ॥३४॥एष लोकेश्वरो नाम पुष्टिवीर्यविवर्धनः ।गुञ्जाचतुष्टयं साज्यं मरिचैश्च समन्वितम् ॥३५॥खादेत्परमया भक्त्या लोकेशे सर्वदर्शिनी ।अङ्गकार्श्येऽग्निमान्द्ये च रसोऽयं कासहिक्कयोः ॥३६॥मरीचैर्घृतसंयुक्तैः प्रदातव्यो दिनत्रयम् ।लवणं वर्जयेत्तत्र साज्यं सदधि भोजनम् ॥३७॥एकविंशद्दिनं यावन्मरिचं सघृतं पिबेत् ।पथ्यं मृगाङ्कवद्देयं शयीतोत्तानपादतः ॥३८॥वमने सम्प्रवृत्ते तु गुडूचीद्रवमाहरेत् ।मधुना पाययेत्सार्धं दग्धवृन्ताकमाशयेत् ॥३९॥स्नानं शीतलतोयेन मूर्ध्नि धारां विनिक्षिपेत् ।जाते श्लेष्मविकारे तु कदलीफलमाहरेत् ॥४०॥भृष्ट्वा तन्मरिचैः सार्धं भोजयेच्छ्लेष्मनुत्तये ।आर्द्रकं मधुमिश्रं वा गुडार्द्रकमथोऽपि वा ॥४१॥भृष्ट्वा कुस्तुम्बरीमाषान्निस्तुषांश्चूर्णयेत्ततः ।शर्कराघृतसम्मिश्रान्ददीतारुचिशान्तये ॥४२॥भृष्ट्वा कुस्तुम्बरीं सम्यग् घृते शर्करया पिबेत् ।एलां मरिचसंयुक्तां यावद् वान्तिः प्रशाम्यति ॥४३॥अजमोदं विडङ्गं च पिष्ट्वा तक्रेण पाययेत् ।कृमिकोपप्रशान्त्यर्थं क्वाथं वातघ्नमुस्तयोः ॥४४॥संस्कृत्य दुग्धिकां वह्नौ विरेके च प्रयोजयेत् ।ईषद्भृष्ट्वा जयाचूर्णं मधुना खादयेन्निशि ॥४५॥अङ्गतोदे घृतेनाङ्गं मर्दयित्वोष्णवारिणा ।स्नापयेद्रोगिणं वैद्यो लोकनाथं रसं स्मरन् ॥४६॥वैद्यनाथरसःशंखस्य वलयं निष्कं चतुर्निष्कं वराटिकाः ।कर्षांशं नीलतुत्थं च तालं गन्धाश्मटङ्कणम् ॥४७॥तुत्थं नागरसं चार्धं निष्कांशं पूर्ववत्पुटेत् ।वराटचूर्णं मण्डूरकल्पितालेपने पचेत् ॥४८॥अस्यार्धमाषं मरिचार्धमाषं ताम्बूलवल्लीरसभावितं च ।तत्पत्रलिप्तं मधुनावलिह्याद्धैयङ्गवीनेन घृतेन वापि ॥४९॥नाडीमार्गे निर्गते चाल्पमल्पं पथ्यं भोज्यं लोकनाथोपदिष्टम् ।यामे यामे चैवम् आ मण्डलान्तात् सिद्धं सद्यः शोषजिद्वैद्यनाथः ॥५०॥लोकनाथरसःअध्यर्धनिष्कौ रसतुत्थभागौ पृथक्पृथग्गन्धकटङ्ककर्षम् ।शंखस्य कर्षं मृतताम्रतो द्वौ वराटिकानां नव सम्पुटस्थान् ॥५१॥पक्त्वा पचेदर्कदलद्रवार्द्रान् भूयोऽर्धभागेन करीषकाणाम् ।अस्यार्धपादं मरिचार्धभागं गन्धाश्मनिष्कं च घृतेन लिह्यात् ॥५२॥अश्नीयात्पूर्ववत्पथ्यं वासराण्येकविंशतिः ।लोकनाथरसो नाम्ना रोगराजनिकृन्तनः ॥५३॥प्राणनाथरसःअयोरजो विंशतिनिष्कमानं विभावितं भृङ्गरसाढकेन ।धत्तूरभार्ङ्गित्रिफलारसार्द्रं तुल्यांशताप्यं विपचेत्पुटेषु ॥५४॥सूतं च निष्कं समभागतुत्थं गन्धोपलौ द्वौ चतुरो वराटान् ।पक्त्वा पुटाग्नौ समलोहचूर्णान्पचेत्तथा पूर्वरसैर्विमिश्रान् ॥५५॥चूर्णेऽस्मिन्मरिचाः सप्त तुत्थटङ्कणयोर्दश ।संसृजेत् तत् पृथङ्निष्कान् प्राणनाथाह्वयोदितः ॥५६॥अर्धपादो रसाद्भक्ष्यः केवलाद्राजयक्ष्मिभिः ।शोषोदरार्शोग्रहणीज्वरगुल्माद्युपद्रुतैः ॥५७॥वज्ररसःकर्षं खर्परसत्त्वस्य षण्मासे हेम्नि विद्रुते ।षण्निष्कसूतं गन्धाश्मन्यष्टनिष्के प्रवेशितम् ॥५८॥प्रवालमुक्ताफलयोश्चूर्णं हेमसमांशयोः ।क्रमाद्द्वित्रिचतुर्निष्कं मृतायः सीसभास्करम् ॥५९॥चाङ्गेर्यम्लेन यामांस्त्रीन्मर्दितं चूर्णितं पृथक् ।द्वौ निष्कौ नीलवटकव्योमायस्कान्ततालकात् ॥६०॥अङ्कोल्लकङ्गुणीबीजतुत्थेभ्यश् चतुरः पृथक् ।अष्टौ च टंकणक्षाराद्वराटानां च विंशतिः ॥६१॥महाजम्बीरनीरस्य प्रस्थद्वन्द्वेन पेषयेत् ।एतदष्टशरावस्थं शुद्धं खार्यास्तुषस्य च ॥६२॥करीषभारे च पचेदथ माषद्वयं ततः ।एतावद्गन्धकात्पादं मरिचाद्भावितादपि ॥६३॥मधुनालोडितं लिह्यात्ताम्बूलीपत्रलेपितम् ।गतेऽस्य घटिकामात्रे प्रतियामं च पथ्यभुक् ॥६४॥नो चेदुद्दीपितो वह्निः क्षणाद्धातून्पचत्यतः ।दिनमेकं निषेव्यैनं त्याज्यान्यामण्डलं त्यजेत् ॥६५॥ततः परं यथेष्टाशी द्वादशाब्दं सुखी भवेत् ।एकमेकं दिनं भुक्त्वा वर्षे वर्षे महारसम् ॥६६॥वर्षादौ च त्यजेत्त्याज्यं द्वादशाब्दं जरां जयेत् ।एष वज्ररसो नाम क्षयपर्वतभेदनः ॥६७॥महावीररसःनिष्कौ द्वौ तुत्थभागस्य रसाद् एकं सुसंस्कृतात् ।निष्कं विषस्य द्वौ तीक्ष्णात्कर्षांशं गन्धमौक्तिकात् ॥६८॥अग्निपर्णीहरिलताभृङ्गार्द्रसुरसारसैः ।मर्दितं लाङ्गलीकन्दप्रलिप्ते सम्पुटे पचेत् ॥६९॥अर्धपादं च पोटल्याः काकिन्यौ द्वे विषस्य च ।लिहेन्मरिचचूर्णं च मधुना पोटलीसमम् ॥७०॥क्षयग्रहण्यतीसारवह्निदौर्बल्यकासिनाम् ।पाण्डुगुल्मवतां श्रेष्ठो महावीरो हितो रसः ॥७१॥अतिस्थूलस्य पूयासृक्कफानुद्वमताक्षये ।न योजयेत्क्षीररसान्विरुद्धक्रमतत्त्वतः ॥७२॥सांआन्योपायःमातुलुङ्गस्य मूलानि लाजचूर्णं ससैन्धवम् ।पिप्पलीमधुना युक्तं खादेद्वान्तिप्रशान्तये ॥७३॥रजनीशङ्खपूगं च निष्कैकं वान्तिनाशनम् ।निष्कार्धं टङ्कणं वाथ काकमाचीद्रवैः पिबेत् ॥७४॥सुगन्धां वा पिबेत्खादेत् सर्ववान्तिप्रशान्तये ।अलक्तकरसं क्षौद्रै रक्तवान्तिहरं परम् ॥७५॥तृष्णाहररसःयुक्तं गन्धकपिष्ट्यायस्तालकं स्वर्णमाक्षिकम् ।युक्त्या तद्भस्मतां नीतं तृष्णाछर्दिनिवारणम् ॥७६॥राजावर्तरसःराजावर्तो रसः शुल्बं माक्षिकं घृतपाचितम् ।मध्वाज्यशर्करायुक्तं हन्ति सर्वान्मदात्ययान् ॥७७॥राजावर्तरसः शुल्बं सूतगर्भे नियोजितम् ।यष्टीमधुरसैर्घृष्टं घृतमध्ये विपाचितम् ॥७८॥मध्वाज्यशर्करायुक्तं हन्ति सर्वान्मदात्ययान् ॥७९॥भैरवनाथी पञ्चामृतपर्पटीसुवर्णं रजतं ताम्रं सत्त्वाभ्रं कान्तलोहकम् ।क्रमवृद्धमिदं सर्वं शाणेयौ नागवङ्गकौ ॥८०॥द्रावयित्वैकतः सर्वं रेतयित्वा ततश्चरेत् ।पृथक्पलमितं गन्धं शिलालं विनिधाय च ॥८१॥सर्वं खल्ले विनिक्षिप्य मर्दयेद् अम्लवर्गतः ।ताप्यं नीलाञ्जनं तालं शिलागन्धं च चूर्णितम् ॥८२॥दत्त्वा दत्त्वा पुटेत्तावद्यावद्विंशतिवारकम् ।लोहाद् द्विगुणसूतेन ततो द्विगुणगन्धतः ॥८३॥विधाय कज्जलीं श्लक्ष्णां क्षिप्त्वा तां लोहपात्रके ।द्रावयेद् बदराङ्गारैर् मृदुभिश्चाथ निक्षिपेत् ॥८४॥हेमादिपञ्चलोहानां भस्म चाथ विलोडयेत् ।अथ तत्कदलीपत्रे गोमयस्थे विनिक्षिपेत् ॥८५॥पत्रेणान्येन संछाद्य कुर्याद्यत्नेन चिप्पिटीम् ।तस्योपरि क्षिपेत्सद्यो गोमयं स्तोकमेव च ॥८६॥स्वतः शीतं समाहृत्य पटचूर्णं विधाय च ।निक्षिपेदूर्ध्वदण्डायां पालिकायां ततः परम् ॥८७॥पूर्ववद्बदराङ्गारैर् मृदुभिर् द्रावयेच्छनैः ।तुल्यालकशिलागन्धं पलार्धं विषभावितम् ॥८८॥पूर्वपर्पटिकातुल्यं तस्मादल्पं मुहुर्मुहुः ।जारयेत्पलिकामध्ये यथा दह्येन्न पर्पटी ॥८९॥पलिकेति विनिर्दिष्टा स्नेहक्षेपणयन्त्रिका ।जीर्णे तालादिके चूर्णे पटचूर्णं विधीयताम् ॥९०॥पूतीकरञ्जषट्कोलव्याघ्रीसौभाञ्जनाङ्घ्रिभिः ।एतैः पञ्चपलैः क्वाथं षोडशांशावशेषितम् ॥९१॥तेन क्वाथेन संस्वेद्य शोषयेत्सप्तधा हि ताम् ।विषतिन्दुफलोद्भूतै रसैर्निर्गुण्डिकारसैः ॥९२॥विभाव्य पलिकामध्ये क्षिप्त्वा बदरवह्निना ।ईषत्प्रस्वेदनं कृत्वा स्थापयेदतियत्नतः ॥९३॥उक्ता भैरवनाथेन स्यात् पञ्चामृतपर्पटी ।व्योषाज्यसहिता लीढा गुञ्जाबीजेन संमिता ॥९४॥सर्वलक्षणसम्पूर्णं विनिहन्ति क्षयामयम् ।श्वासं कासं विषूचीं च प्रमेहमुदरामयम् ॥९५॥अरोचकं च दुःसाध्यं प्रसेकं छर्दिहृद्भवम् ।सर्वजं गुदरोगं च शूलकुष्ठान्यशेषतः ॥९६॥वातज्वरं च विड्बन्धं ग्रहणीं कफजान्गदान् ।एकद्वन्द्वत्रिदोषोत्थान् रोगान् अन्यान् महागदान् ॥९७॥अग्निमान्द्यं विशेषेण हन्तीयं पर्पटी ध्रुवम् ।एवं समूह्य दातव्या रोगेषु भिषगुत्तमैः ॥९८॥तत्तद्रोगहरैर् योगैस् तत्तद्रोगानुपानतः ।क्षयादिसर्वरोगघ्नी स्यात् पञ्चामृतपर्पटी ॥९९॥तिलसर्षपबिल्वाम्लकारवेल्लकुसुम्भकम् ।त्यजेत्पारावतं मांसं वृन्ताकं कुक्कुटं तथा ॥१००॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP