संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय २ रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय २ श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अष्टमहारसाः Translation - भाषांतर अभ्रवैक्रान्तमाक्षीकविमलाद्रिजसस्यकम् ।चपलो रसकश्चेति ज्ञात्वाष्टौ संग्रहेद् रसान् ॥१॥देव्या रजो भवेद्गन्धो धातुः शुक्रं तथाभ्रकम् इति क्षेपकः ।आयुर्वेदीय गुणगौरीतेजः परमममृतं वातपित्तक्षयघ्नम् प्रज्ञाबोधि प्रशमितरुजं वृष्यमायुष्यमग्र्यम् ।बल्यं स्निग्धं रुचिदम् अकफं दीपनं शीतवीर्यं तत्तद्योगैः सकलगदहृद् व्योम सूतेन्द्रबन्धि ॥२॥राजहस्ताद् अधस्ताद् यत्समानीतं घनं खनेः ।भवेत्तदुक्तफलदं निःसत्त्वं निष्फलं परम् ॥३॥पिनाकं नागमण्डूकं वज्रमित्यभ्रकं मतम् ।श्वेतादिवर्णभेदेन प्रत्येकं तच्चतुर्विधम् ॥४॥पिनाकपिनाकं पावकोत्तप्तं विमुञ्चति दलोच्चयम् ।तत्सेवितं मलं बद्ध्वा मारयत्येव मानवम् ॥५॥नागनागाभ्रं नागवत्कुर्याद्ध्वनिं पावकसंस्थितम् ।आयुर्वेदीय गुणतद्भुक्तं कुरुते कुष्ठं मण्डलाख्यं न संशयः ॥६॥मण्डूकउत्प्लुत्योत्प्लुत्य मण्डूकं ध्मातं पतति चाभ्रकम् ।आयुर्वेदीय गुणतत्कुर्यादश्मरीरोगमसाध्यं शस्त्रतोऽन्यथा ॥७॥वज्रवज्राभ्रं वह्निसंतप्तं निर्मुक्ताशेषवैकृतम् ।देहलोहकरं तच्च सर्वरोगहरं परम् ॥८॥श्वेतं रक्तं च पीतं च कृष्णमेवं चतुर्विधम् ।श्वेतं श्वेतक्रियासूक्तं रक्ताभं रक्तकर्मणि ।पीताभमभ्रकं यत्तु श्रेष्ठं तत्पीतकर्मणि ॥९॥चतुर्विधं वरं व्योम यद्यप्युक्तं रसायने ।तथापि कृष्णवर्णाभ्रं कोटिकोटिगुणाधिकम् ॥१०॥परीक्षास्निग्धं पृथुदलं वर्णसंयुक्तं भारतोऽधिकम् ।सुखनिर्मोच्यपत्त्रं च तदभ्रं शस्तमीरितम् ॥११॥ग्रासायोग्याभ्रसचन्द्रिकं च किट्टाभं व्योम न ग्रासयेद्रसः ।ग्रसितश्च नियोज्योऽसौ लोहे चैव रसायने ॥१२॥अभ्र-निश्चन्द्रिक-आयुर्वेदीय गुणनिश्चन्द्रिकं मृतं व्योम सेव्यं सर्वगदेषु च ।सेवितं चन्द्रसंयुक्तं मेहं मन्दानलं चरेत् ॥१३॥यैर् उक्तं युक्तिनिर्मुक्तैः पत्त्राभ्रकरसायनम् ।तैर् दृष्टं कालकूटाख्यं विषं जीवनहेतवे ॥१४॥सत्त्वार्थं सेवनार्थं च योजयेच्छोधिताभ्रकम् ।अन्यथा त्व् अगुणं कृत्वा विकरोत्येव निश्चितम् ॥१५॥शोधनप्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिकेऽभ्रकम् ।निर्दोषं जायते नूनं प्रक्षिप्तं वापि गोजले ॥१६॥त्रिफलाक्वथिते चापि गवां दुग्धे विशेषतः ।मारणततो धान्याभ्रकं कृत्वा पिष्ट्वा मत्स्याक्षिकारसैः ॥१७॥पुटेदेवं हि षड्वारं पौनर्नवरसैः सह ॥१८॥कलांशटङ्कणेनापि संमर्द्य कृतचक्रिकम् ।अर्धेभाख्यपुटैस् तद्वत् सप्तवारं पुटेत् खलु ॥१९॥एवं वासारसेनापि तण्डुलीयरसेन च ।प्रपुटेत् सप्तवाराणि पूर्वप्रोक्तविधानतः ।एवं सिद्धं घनं सर्वयोगेषु विनियोजयेत् ॥२०॥धान्याभ्रचूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते ॥२१॥मारणधान्याभ्रं कासमर्दस्य रसेन परिमर्दितम् ।पुटितं दशवारेण म्रियते नात्र संशयः ।तद्वन्मुस्तारसेनापि तण्डुलीयरसेन च ॥२२॥मारणपीतामलकसौभाग्यपिष्टं चक्रीकृताभ्रकम् ।पुटितं षष्टिवाराणि सिन्दूराभं प्रजायते ।क्षयाद्यखिलरोगघ्नं भवेद्रोगानुपानतः ॥२३॥मारणवटमूलत्वचः क्वाथैस् ताम्बूलीपत्त्रसारतः ।वासामत्स्याक्षिकाभ्यां वा मीनाक्ष्या सकठिल्लया ॥२४॥पयसा वटवृक्षस्य मर्दितं पुटितं घनम् ।भवेद्विंशतिवारेण सिन्दूरसदृशप्रभम् ॥२५॥सत्त्वपातनपादांशटङ्कणोपेतं मुसलीरसमर्दितम् ।रुन्ध्यात्कोष्ठ्यां दृढं ध्मातं सत्त्वरूपं भवेद् घनम् ॥२६॥सत्त्वपातनकासमर्दघनाधान्यवासानां च पुनर्भुवः ।मत्स्याक्ष्याः काण्डवल्ल्याश्च हंसपाद्या रसैः पृथक् ॥२७॥पिष्ट्वा पिष्ट्वा प्रयत्नेन शोषयेद् घर्मयोगतः ।पलं गोधूमचूर्णस्य क्षुद्रमत्स्याश्च टङ्कणम् ॥२८॥प्रत्येकमष्टमांशेन दत्त्वा दत्त्वा विमर्दयेत् ।मर्दने मर्दने सम्यक्शोषयेद्रविरश्मिभिः ॥२९॥पञ्चाजं पञ्चगव्यं वा पञ्चमाहिषमेव च ।क्षिप्त्वा गोलान्प्रकुर्वीत किंचित्तिन्दुकतोऽधिकान् ॥३०॥पञ्चाजपयो दधि घृतं मूत्रं सविट्कं चाजम् उच्यते ।अधःपातनकोष्ठ्यां हि ध्मात्वा सत्त्वं निपातयेत् ॥३१॥सत्त्वपातन कोष्ठ्यां किट्टं समाहृत्य विचूर्ण्य रवकान् हरेत् ।तत्किट्टं स्वल्पटङ्केन गोमयेन विमर्द्य च ॥३२॥गोलान्विधाय संशोष्य घर्मे भूयोऽपि पूर्ववत् ।भूयः किट्टं समाहृत्य मृदित्वा सत्त्वमाहरेत् ॥३३॥सत्त्व-शोधनअथ सत्त्वकणांस्तांस्तु क्वाथयित्वाम्लकाञ्जिकैः ।शोधनीयगणोपेतं मूषामध्ये निरुध्य च ॥३४॥सम्यग्द्रुतं समाहृत्य द्विवारं प्रधमेद् घनम् ।इति शुद्धं भवेत्सत्त्वं योज्यं रसरसायने ॥३५॥सत्त्व-मृदूकरणमधुतैलवसाज्येषु द्रावितं परिवापितम् ।मृदु स्याद्दशवारेण सत्त्वं लोहादिकं खरम् ॥३६॥मारणपट्टचूर्णं विधायाथ गोघृतेन परिप्लुतम् ।भर्जयेत्सप्तवाराणि चुल्लीसंस्थितखर्परे ॥३७॥अग्निवर्णं भवेद्यावद्वारं वारं विचूर्णयेत् ।तृणं क्षिप्त्वा दहेद्यावत्तावद्वा भर्जनं चरेत् ॥३८॥ततः सगन्धकं पिष्ट्वा वटमूलकषायतः ।पुटेद्विंशतिवारेण वाराहेण पुटेन हि ॥३९॥पुनर्विंशतिवाराणि त्रिफलोत्थकषायतः ।त्रिफलामुण्डिकाभृङ्गपत्रपथ्याक्षमूलकैः ॥४०॥भावयित्वा प्रयोक्तव्यं सर्वरोगेषु मात्रया ।सत्त्वाभ्रात्किंचिदपरं निर्विकारं गुणाधिकम् ॥४१॥एवं चेच्छतवाराणि पुटपाकेन साधितम् ।गुणवज्जायतेऽत्यर्थं परं पाचनदीपनम् ॥४२॥मारण-निश्चन्द्रिकगन्धर्वपत्त्रतोयेन गुडेन सह भावितम् ।अधोर्ध्वं वटपत्राणि निश्चन्द्रं त्रिपुटैः खगम् ॥४३॥क्षुधं करोति चात्यर्थं गुञ्जार्धमितिसेवया ।तत्तद्रोगहरैर्योगैः सर्वरोगहरं परम् ॥४४॥सत्त्व-शोधनसत्त्वस्य गोलकं ध्मातं सस्यसंयुक्तकाञ्जिके ।निर्वाप्य तत्क्षणेनैव कुट्टयेल्लोहपारया ॥४५॥सम्प्रताप्य घनस्थूलकणान् क्षिप्त्वाथ काञ्जिके ।तत्क्षणेन समाहृत्य कुट्टयित्वा रजश्चरेत् ॥४६॥गोघृतेन च तच्चूर्णं भर्जयेत् पूर्ववत् त्रिधा ।धात्रीफलरसैस्तद्वद्धात्रीपत्ररसेन वा ॥४७॥भर्जने भर्जने कार्यं शिलापट्टेन पेषणम् ।ततः पुनर्नवावासारसैः काञ्जिकमिश्रितैः ॥४८॥प्रपुटेद्दशवाराणि दशवाराणि गन्धकैः ।एवं संशोधितं व्योमसत्त्वं सर्वगुणोत्तरम् ।यथेष्टं विनियोक्तव्यं जारणे च रसायने ॥४९॥द्रुतिद्रुतयो नैव निर्दिष्टाः शास्त्रे दृष्टा अपि दृढम् ।विना शंभोः प्रसादेन न सिध्यन्ति कदाचन ॥५०॥मृत-आयुर्वेदीय गुणवेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहणिकाशूलामकुष्ठामयम् ।जूर्तिं श्वासगदं प्रमेहमरुचिं कासामयं दुर्धरं मन्दाग्निं जठरव्यथां विजयते योगैरशेषामयान् ॥५१॥वैक्रान्त-परीक्षाअष्टास्रश् चाष्टफलकः षट्कोणो मसृणो गुरुः ।शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ॥५२॥वैक्रान्त श्वेतो रक्तश्च पीतश्च नीलः पारापतच्छविः ।श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः ॥५३॥वैक्रान्त-आयुर्वेदीय गुणआयुःप्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषगदापहारी ।दीप्ताग्निकृत् पविसमानगुणस्तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ॥५४॥रसायनेषु सर्वेषु पूर्वगण्यः प्रतापवान् ।वज्रस्थाने नियोक्तव्यो वैक्रान्तः सर्वदोषहा ॥५५॥वैक्रान्त-मिथकीय उत्पत्तिदैत्येन्द्रो माहिषः सिद्धः सहदेवसमुद्भवः ।दुर्गा भगवती देवी तं शूलेन व्यमर्दयत् ॥५६॥तस्य रक्तं तु पतितं यत्र यत्र स्थितं भुवि ।तत्र तत्र तु वैक्रान्तं वज्राकारं महारसम् ॥५७॥वैक्रान्त-लोचल् दिस्त्रिबुतिओन्विन्ध्यस्य दक्षिणे वास्ति ह्य् उत्तरे वास्ति सर्वतः ।वैक्रान्त-निरुक्तिविकृन्तयति लोहानि तेन वैक्रान्तकः स्मृतः ॥५८॥वैक्रान्तश्वेतः पीतस्तथा रक्तो नीलः पारावतप्रभः ।मयूरकण्ठसदृशश्चान्यो मरकतप्रभः ॥५९॥देहसिद्धिकरं कृष्णं पीते पीतं सिते सितम् ।सर्वार्थसिद्धिदं रक्तं तथा मरकतप्रभम् ।शेषे द्वे निष्फले वर्ज्ये वैक्रान्तमिति सप्तधा ॥६०॥यत्र क्षेत्रे स्थितं चैव वैक्रान्तं तत्र भैरवम् ।विनायकं च सम्पूज्य गृह्णीयाच्छुद्धमानसः ॥६१॥वैक्रान्त-आयुर्वेदीय गुणवैक्रान्तो वज्रसदृशो देहलोहकरो मतः ।विषघ्नो रसराजश्च ज्वरकुष्ठक्षयप्रणुत् ॥६२॥वैक्रान्त-शोधनवैक्रान्तकाः स्युस्त्रिदिनं विशुद्धाः संस्वेदिताः क्षारपटूनि दत्त्वा ।अम्लेषु मूत्रेषु कुलत्थरम्भानीरेऽथवा कोद्रववारिपक्वाः ॥६३॥वैक्रान्त-शोधनकुलत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति ।वैक्रान्त-मारणम्रियतेऽष्टपुटैर् गन्धनिम्बुकद्रवसंयुतः ॥६४॥वैक्रान्त-मारणवैक्रान्तेषु च तप्तेषु हयमूत्रं विनिक्षिपेत् ।पौनःपुन्येन वा कुर्याद्द्रवं दत्त्वा पुटं त्वनु ।भस्मीभूतं तु वैक्रान्तं वज्रस्थाने नियोजयेत् ॥६५॥वैक्रान्त-सत्त्वपातनमोचमोरटपालाशक्षारगोमूत्रभावितम् ।वज्रकन्दनिशाकल्कफलचूर्णसमन्वितम् ॥६६॥तत्कल्कं टङ्कणं लाक्षाचूर्णं वैक्रान्तसंभवम् ।नवसारसमायुक्तं मेषशृङ्गीद्रवान्वितं ॥६७॥पिण्डितं मूकमूषस्थं ध्मापितं च हठाग्निना ।तत्रैव पतते सत्त्वं वैक्रान्तस्य न संशयः ॥६८॥वैक्रान्त-सत्त्वपातनसत्त्वपातनयोगेन मर्दितश्च वटीकृतः ।मूषास्थो घटिकाध्मातो वैक्रान्तः सत्त्वमुत्सृजेत् ॥६९॥वैक्रान्तभस्मत्वं समुपागतो विकृतको हेम्ना मृतेनान्वितः पादांशेन कणाज्यवेल्लसहितो गुञ्जामितः सेवितः ।यक्ष्माणं जरणं च पाण्डुगुदजं श्वासं च कासामयं दुष्टां च ग्रहणीम् उरःक्षतमुखान् रोगाञ्जयेद् देहकृत् ॥७०॥सूतभस्मार्धसंयुक्तं नीलवैक्रान्तभस्मकं ।मृताभ्रसत्त्वमुभयोस्तुलितं परिमर्दितम् ॥७१॥क्षौद्राज्यसंयुतं प्रातर्गुञ्जामात्रं निषेवितम् ।निहन्ति सकलान्रोगान्दुर्जयानन्यभेषजैः ।त्रिःसप्तदिवसैर् नॄणां गङ्गाम्भ इव पातकम् ॥७२॥माक्षिक-मिथकीय उत्पत्तिसुवर्णशैलप्रभवो विष्णुना काञ्चनो रसः ।ताप्यां किरातचीनेषु यवनेषु च निर्मितः ।माक्षिकताप्यः सूर्यांशुसंतप्तो माधवे मासि दृश्यते ॥७३॥माक्षिक-आयुर्वेदीय गुणमधुरः काञ्चनाभासः साम्लो रजतसंनिभः ।किंचित्कषायमधुरः शीतः पाके कटुर्लघुः ।तत्सेवनाज्जराव्याधिविषैर्न परिभूयते ॥७४॥माक्षिकअभ्रमाक्षिको द्विविधो हेममाक्षिकस्तारमाक्षिकः ।स्वर्णमाक्षिकतत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसंनिभम् ॥७५॥तारमाक्षिकतपतीतीरसम्भूतं पञ्चवर्णसुवर्णवत् ।पाषाणबहलः प्रोक्तस्ताराख्योऽल्पगुणात्मकः ॥७६॥माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः ।दुर्मेललोहद्वयमेलनश् च गुणोत्तरः सर्वरसायनाग्र्यः ॥७७॥माक्षिक-शोधनएरण्डतैललुङ्गाम्बुसिद्धं शुध्यति माक्षिकम् ।माक्षिक-शोधनसिद्धं वा कदलीकन्दतोयेन घटिकाद्वयम् ।तप्तं क्षिप्तं वराक्वाथे शुद्धिमायाति माक्षिकम् ॥७८॥माक्षिक-मारणमातुलुङ्गाम्बुगन्धाभ्यां पिष्टं मूषोदरे स्थितम् ।पञ्चक्रोडपुटैर् दग्धं म्रियते माक्षिकं खलु ॥७९॥माक्षिक-मारणएरण्डस्नेहगव्याजैर् मातुलुङ्गरसेन वा ।खर्परस्थं दृढं पक्वं जायते धातुसंनिभम् ।एवं मृतं रसे योज्यं रसायनविधाव् अपि ॥८०॥माक्षिक-सत्त्वपातनत्रिंशांशनागसंयुक्तं क्षारैर् अम्लैश्च वर्तितम् ।ध्मातं प्रकटमूषायां सत्त्वं मुञ्चति माक्षिकम् ॥८१॥माक्षिक-सत्त्व-नागग्राससप्तवारं परिद्राव्य क्षिप्तं निर्गुण्डिकारसे ।माक्षीकसत्त्वसंमिश्रं नागं नश्यति निश्चितम् ॥८२॥माक्षिक-सत्त्वपातनक्षौद्रगन्धर्वतैलाभ्यां गोमूत्रेण घृतेन च ।कदलीकन्दसारेण भावितं माक्षिकं मुहुः ।मूषायां मुञ्चति ध्मातं सत्त्वं शुल्बनिभं मृदु ॥८३॥माक्षिक-सत्त्व-गुणगुञ्जाबीजसमच्छायं द्रुतद्रावं च शीतलम् ।ताप्यसत्त्वं विशुद्धं तद्देहलोहकरं परम् ॥८४॥माक्षिक-सत्त्वमाक्षीकसत्त्वेन रसेन्द्रपिष्टं कृत्वा विलीने च बलिं निधाय ।संमिश्र्य संमर्द्य च खल्वमध्ये निक्षिप्य सत्त्वं द्रुतिमभ्रकस्य ॥८५॥विधाय गोलं लवणाख्ययन्त्रे पचेद्दिनार्धं मृदुवह्निना च ।स्वतः सुशीतं परिचूर्ण्य सम्यग्वल्लोन्मितं व्योषविडङ्गयुक्तम् ॥८६॥संसेवितं क्षौद्रयुतं निहन्ति जरां सरोगां त्वपमृत्युमेव ।दुःसाध्यरोगानपि सप्तवासरैर्नैतेन तुल्योऽस्ति सुधारसोऽपि ॥८७॥एरण्डोत्थेन तैलेन गुञ्जाक्षौद्रं च टङ्कणम् ।मर्दितं तस्य वापेन सत्त्वं माक्षीकजं द्रवेत् ॥८८॥विमलविमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्वकः ।तृतीयः कांस्यविमलस्तत्तत्कान्त्या स लक्ष्यते ॥८९॥विमलवर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः ।विमल-आयुर्वेदीय गुणमरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः ॥९०॥विमलपूर्वो हेमक्रियासूक्तो द्वितीयो रूप्यकृन्मतः ।तृतीयो भेषजे तेषु पूर्वपूर्वो गुणोत्तरः ॥९१॥विमल-शोधनआटरूषजले स्विन्नो विमलो विमलो भवेत् ।जम्बीरस्वरसे स्विन्नो मेषशृङ्गीरसेऽथवा ।आयाति शुद्धिं विमलो धातवश्च यथा परे ॥९२॥विमल-मारणगन्धाश्मलकुचाम्लैश्च म्रियते दशभिः पुटैः ॥९३॥विमल-सत्त्वपातनसटङ्कलकुचद्रावैर्मेषशृङ्ग्याश्च भस्मना ।पिष्टो मूषोदरे लिप्तः संशोष्य च निरुध्य च ॥९४॥षट्प्रस्थकोकिलैर्ध्मातो विमलः सीससंनिभः ।सत्त्वं मुञ्चति तद्युक्तो रसः स्यात्स रसायनः ॥९५॥विमल-सत्त्वपातनविमलं शिग्रुतोयेन काङ्क्षीकासीसटङ्कणम् ।वज्रकन्दसमायुक्तं भावितं कदलीरसैः ॥९६॥मोक्षकक्षारसंयुक्तं ध्मापितं मूकमूषगम् ।सत्त्वं चन्द्रार्कसंकाशं पतते नात्र संशयः ॥९७॥विमल-सत्त्व-आयुर्वेदीयतत्सत्त्वं सूतसंयुक्तं पिष्टं कृत्वा सुमर्दितम् ।विलीने गन्धके क्षिप्त्वा जारयेत्त्रिगुणालकं ॥९८॥शिलां पञ्चगुणां चापि वालुकायन्त्रके खलु ।तारभस्मदशांशेन तावद्वैक्रान्तकं मृतं ॥९९॥सर्वमेकत्र संचूर्ण्य पटेन परिगाल्य च ।निक्षिप्य कूपिकामध्ये परिपूर्य प्रयत्नतः ॥१००॥लीढो व्योषवरान्वितो विमलको युक्तो घृतैः सेवितो हन्याद्दुर्भगकृज्ज्वराञ्श्वयथुकं पाण्डुप्रमेहारुचीः ।मूलार्तिं ग्रहणीं च शूलमतुलं यक्ष्मामयं कामलां सर्वान्पित्तमरुद्गदान्किमपरैर्योगैरशेषामयान् ॥१०१॥शिलाजतुशिलाधातुर् द्विधा प्रोक्तो गोमूत्राद्यो रसायनः ।कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः पुनः ।ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः ॥१०२॥शिलाजतुग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः ।स्वर्णरूप्यार्कगर्भेभ्यः शिलाधातुर्विनिःसरेत् ॥१०३॥शिलाजतुस्वर्णगर्भगिरेर्जातो जपापुष्पनिभो गुरुः ।सस्वल्पतिक्तः सुस्वादुः परमं तद्रसायनम् ॥१०४॥शिलाजतुरूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु ।शिलाजं पित्तरोगघ्नं विशेषात्पाण्डुरोगहृत् ॥१०५॥शिलाजतुताम्रगर्भं गिरेर्जातं नीलवर्णं घनं गुरु ।शिलाजं कफवातघ्नं तिक्तोष्णं क्षयरोगहृत् ॥१०६॥शिलाजतु-परीक्षा-शुद्धवह्नौ क्षिप्तं भवेद्यत्तल्लिङ्गाकारमधूमकम् ।सलिलेऽथ विलीनं च तच्छुद्धं हि शिलाजतु ॥१०७॥शिलाजतु-आयुर्वेदीय गुणनूनं सज्वरपाण्डुशोफशमनं मेहाग्निमान्द्यापहं मेदश्छेदकरं च यक्ष्मशमनं शूलामयोन्मूलनम् ।गुल्मप्लीहविनाशनं जठरहृच्छूलघ्नमामापहं सर्वत्वग्गदनाशनं किमपरं देहे च लोहे हितम् ॥१०८॥शिलाजतु-गुण रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः ।वसन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥१०९॥शिलाजतु-शोधनक्षाराम्लगोजलैर् धौतं शुध्यत्येव शिलाजतु ॥११०॥शिलाजतु-शोधनशिलाधातुं च दुग्धेन त्रिफलामार्कवद्रवैः ।लोहपात्रे विनिक्षिप्य शोधयेदतियत्नतः ॥१११॥शिलाजतु-शोधनक्षाराम्लगुग्गुलोपेतैः स्वेदनीयन्त्रमध्यगैः ।स्वेदितं घटिकामानाच्छिलाधातु विशुध्यति ॥११२॥शिलाजतु-मारणशिलया गन्धतालाभ्यां मातुलुङ्गरसेन च ।पुटितं हि शिलाधातु म्रियतेऽष्टगिरिण्डकैः ॥११३॥शिलाजतु-आयुर्वेदीय भस्मीभूतशिलोद्भवं समतुलं कान्तं च वैक्रान्तकं युक्तं च त्रिफलाकटुत्रिकघृतैर्वल्लेन तुल्यं भजेत् ।पाण्डौ यक्ष्मगदे तथाग्निसदने मेहेषु मूलामये गुल्मप्लीहमहोदरे बहुविधे शूले च योन्यामये ॥११४॥सेवेत यदि षण्मासं रसायनविधानतः ।वलीपलितनिर्मुक्तो जीवेद्वर्षशतं सुखी ॥११५॥शिलाजतु-सत्त्वपातनपिष्टं द्रावणवर्गेण साम्लेन गिरिसंभवम् ।क्षिप्त्वा मूषोदरे रुद्ध्वा गाढैर्ध्मातं हि कोकिलैः ।सत्त्वं मुञ्चेच्छिलाधातुः श्वसनैर्लोहसंनिभम् ॥११६॥कर्पूरशिलाजतु-गुणपाण्डुरं सिकताकारं कर्पूराद्यं शिलाजतु ।कर्पूरशिलाजतु-आयुर्वेदीय गुणमूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ॥११७॥कर्पूरशिलाजतु-शोधनएलातोयेन संभिन्नं सिद्धं शुद्धिमुपैति तत् ।कर्पूरशिलाजतु-मारण, सत्त्वपातननैतस्य मारणं सत्त्वपातनं विहितं बुधैः ॥११८॥सस्यक-मिथकीय उत्पत्तिपीत्वा हालाहलं वान्तं पीतामृतगरुत्मता ।विषेणामृतयुक्तेन गिरौ मरकताह्वये ।तद्वान्तं हि घनीभूतं संजातं सस्यकं खलु ॥११९॥सस्यक-परीक्षामयूरकण्ठसच्छायं भाराढ्यमतिशस्यते ॥१२०॥द्रव्यं विषयुतं यत्तद्द्रव्याधिकगुणं भवेत् ।हालाहलं सुधायुक्तं सुधाधिकगुणं तथा ॥१२१॥मयूरतुत्थ-आयुर्वेदीय गुणनिःशेषदोषविषहृद्गदशूलमूलकुष्ठाम्लपैत्तिकविबन्धहरं परं च ।रसायनं वमनरेककरं गरघ्नं श्वित्रापहं गदितमत्र मयूरतुत्थम् ॥१२२॥सस्यक-शोधनसस्यकं शुद्धिमाप्नोति रक्तवर्गेण भावितम् ॥१२३॥स्नेहवर्गेण संसिक्तं सप्तवारमदूषितम् ।दोलायन्त्रेण सुस्विन्नं सस्यकं प्रहरत्रयम् ।गोमहिष्याजमूत्रेषु शुध्यते पञ्चखर्परम् ॥१२४॥मारणलकुचद्रावगन्धाश्मटङ्कणेन समन्वितम् ।निरुध्य मूषिकामध्ये म्रियते कौक्कुटैः पुटैः ॥१२५॥सत्त्वपातनसस्यकस्य तु चूर्णं तु पादसौभाग्यसंयुतम् ।करञ्जतैलमध्यस्थं दिनमेकं निधापयेत् ॥१२६॥अन्धमूषास्यमध्यस्थं ध्मापयेत्कोकिलत्रयम् ।इन्द्रगोपाकृति चैव सत्त्वं भवति शोभनम् ॥१२७॥सत्त्वपातननिम्बुद्रवाल्पटङ्काभ्यां मूषामध्ये निरुध्य च ।ताम्ररूपं परिध्मातं सत्त्वं मुञ्चति सस्यकम् ॥१२८॥सत्त्वपातनशुद्धं सस्यं शिलाक्रान्तं पूर्वभेषजसंयुतम् ।नानाविधानयोगेन सत्त्वं मुञ्चति निश्चितम् ॥१२९॥सत्त्वमेतत्समादाय खरभूनागसत्त्वभुक् ।तन्मुद्रिका कृतस्पर्शा शूलघ्नी तत्क्षणाद् भवेत् ॥१३०॥चराचरं विषं भूतडाकिनीदृग्गतं जयेत् ।मुद्रिकेयं विधातव्या दृष्टप्रत्ययकारिका ॥१३१॥रामवत् सोमसेनानीर् मुद्रितेऽपि तथाक्षरम् ।हिमालयोत्तरे पार्श्वे अश्वकर्णो महाद्रुमः ।तत्र शूलं समुत्पन्नं तत्रैव विलयं गतम् ॥१३२॥मन्त्रेणानेन मुद्राम्भो निपीतं सप्तमन्त्रितम् ।सद्यः शूलहरं प्रोक्तमिति भालुकिभाषितम् ॥१३३॥अनया मुद्रया तप्तं तैलमग्नौ सुनिश्चितम् ।लेपितं हन्ति वेगेन शूलं यत्र क्वचिद्भवेत् ।सद्यः सूतिकरं नार्याः सद्यो नेत्ररुजापहम् ॥१३४॥चपलगौरः श्वेतोऽरुणः कृष्णश्चपलस्तु चतुर्विधः ।हेमाभश्चैव ताराभो विशेषाद्रसबन्धनः ॥१३५॥शेषौ तु मध्यौ लाक्षावच्छीघ्रद्रावौ तु निष्फलौ ।चपल-निरुक्तिवङ्गवद्द्रवते वह्नौ चपलस्तेन कीर्तितः ॥१३६॥चपल-आयुर्वेदीय गुणचपलो लेखनः स्निग्धो देहलोहकरो मतः ।रसराजसहायः स्यात्तिक्तोष्णमधुरो मतः ॥१३७॥चपल-गुणचपलः स्फटिकच्छायः षडस्री स्निग्धको गुरुः ।चपल-आयुर्वेदीय गुणत्रिदोषघ्नोऽतिवृष्यश्च रसबन्धविधायकः ॥१३८॥चपल-महारसमहारसेषु कैश्चिद्धि चपलः परिकीर्तितः ॥१३९॥चपल-शोधनजम्बीरकर्कोटकशृङ्गवेरैर् विभावनाभिश्चपलस्य शुद्धिः ॥१४०॥चपल-सत्त्वपातनशैलं तु चूर्णयित्वा तु धान्याम्लोपविषैर् विषैः ।पिण्डं बद्ध्वा तु विधिवत्पातयेच्चपलं तथा ॥१४१॥रसकरसको द्विविधः प्रोक्तो दुर्दुरः कारवेल्लकः ।सदलो दुर्दुरः प्रोक्तो निर्दलः कारवेल्लकः ॥१४२॥सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु ।रसक-आयुर्वेदीय गुणरसकः सर्वमेहघ्नः कफपित्तविनाशनः ।नेत्ररोगक्षयघ्नश्च लोहपारदरञ्जनः ॥१४३॥नागार्जुनेन संदिष्टौ रसश्च रसकावुभौ ।श्रेष्ठौ सिद्धरसौ ख्यातौ देहलोहकरौ परम् ॥१४४॥रसश्च रसकश्चोभौ येनाग्निसहनौ कृतौ ।देहलोहमयी सिद्धिर्दासी तस्य न संशयः ॥१४५॥रसक-शोधनकटुकालाबुनिर्यास आलोड्य रसकं पचेत् ।शुद्धं दोषविनिर्मुक्तं पीतवर्णं तु जायते ॥१४६॥रसक-शोधनखर्परः परिसंतप्तः सप्तवारं निमज्जितः ।बीजपूररसस्यान्तर्निर्मलत्वं समश्नुते ॥१४७॥रसक-शोधननृमूत्रे वाश्वमूत्रे वा तक्रे वा काञ्जिकेऽथवा ।प्रताप्य मज्जितं सम्यक्खर्परं परिशुध्यति ॥१४८॥रसक-शोधननरमूत्रे स्थितो मासं रसको रञ्जयेद्ध्रुवम् ।शुद्धताम्रं रसं तारं शुद्धस्वर्णप्रभं यथा ॥१४९॥रसक-सत्त्वपातनहरिद्रात्रिफलारालासिन्धुधूमैः सटङ्कणैः ।सारुष्करैश्च पादांशैः साम्लैः संमर्द्य खर्परम् ॥१५०॥लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च ।मूषामुखोपरि न्यस्य खर्परं प्रधमेत्ततः ॥१५१॥खर्परे प्रहृते ज्वाला भवेन्नीला सिता यदि ।तदा संदंशतो मूषां धृत्वा कृत्वा त्वधोमुखीम् ॥१५२॥शनैरास्फालयेद्भूमौ यथा नालं न भज्यते ।वङ्गाभं पतितं सत्त्वं समादाय नियोजयेत् ।एवं त्रिचतुरैर्वारैः सर्वं सत्त्वं विनिःसरेत् ॥१५३॥रसक-सत्त्वपातनसाभयाजतुभूनागनिशाधूमजटङ्कणम् ।मूकमूषागतं ध्मातं शुद्धं सत्त्वं विमुञ्चति ॥१५४॥रसक-सत्त्वपातनलाक्षागुडासुरीपथ्याहरिद्रासर्जटङ्कणैः ।सम्यक्संचूर्ण्य तत्पक्वं गोदुग्धेन घृतेन च ॥१५५॥वृन्ताकमूषिकामध्ये निरुध्य गुटिकाकृतिम् ।ध्मात्वा ध्मात्वा समाकृष्य ढालयित्वा शिलातले ।सत्त्वं वङ्गाकृतिं ग्राह्यं रसकस्य मनोहरम् ॥१५६॥रसक-सत्त्वपातनयद्वा जलयुतां स्थालीं निखनेत्कोष्ठिकोदरे ।सच्छिद्रं तन्मुखे मल्लं तन्मुखेऽधोमुखीं क्षिपेत् ॥१५७॥मूषोपरि शिखित्रांश्च प्रक्षिप्य प्रधमेद्दृढम् ।पतितं स्थालिकानीरे सत्त्वमादाय योजयेत् ॥१५८॥रसक-सत्त्व-मारणतत्सत्त्वं तालकोपेतं प्रक्षिप्य खलु खर्परे ।मर्दयेल्लोहदण्डेन भस्मीभवति निश्चितम् ॥१५९॥रसक-सत्त्व-मृत-आयुर्वेदीय तद्भस्म मृतकान्तेन समेन सह योजयेत् ।अष्टगुञ्जामितं चूर्णं त्रिफलाक्वाथसंयुतम् ॥१६०॥कान्तपात्रस्थितं रात्रौ तिलजप्रतिवापकम् ।निषेवितं निहन्त्याशु मधुमेहमपि ध्रुवम् ॥१६१॥पित्तं क्षयं च पाण्डुं च श्वयथुं गुल्ममेव च ।रक्तगुल्मं च नारीणां प्रदरं सोमरोगकम् ॥१६२॥योनिरोगानशेषांश्च विषमांश्च ज्वरानपि ।रजःशूलं च नारीणां कासं श्वासं च हिध्मिकाम् ॥१६३॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP