मित्र लाभः - कथा ६

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


अस्ति ब्रह्मारण्ये कर्पा̆ऊरतिलको नाम हस्ती । तम् अवलोक्य सर्वे शृगालाश् चिंतयंति स्म । यद्य् अयं केनाप्य् उपायेन मिर्यते, तदास्माकम् एतेन देहेन मास-चतुष्टयस्य स्वेच्छा-भोजनं भवेत् । ततस् तन्-मध्याद् एकेन वृढ-शृगालेन प्रतिज्ञा कृता । मया बुढि-प्रभावाद् अस्य मरणं साधयितव्यम् । अनंतरं स वञ्चकः कर्पूरतिलक-समीपं गत्वा साष्टांग-पातं प्रणम्योवाच-देव ! दृष्टि-प्रसादं कुरु ।
हस्ती ब्रूते-कस् त्वम् ? कुतः समायातः ?
सो वदत्-जंबुको हं सर्वैर् वन-वासिभिः पशुभिर् मिलित्वा भवत्-सकाशं प्रस्थापितः । यद् विना राज्ञा स्थातुं न युक्तम् । तद् अत्राटवी-राज्येभिषेक्तुं भवान् सर्व-स्वामि-गुणोपेतो निरूपितः । यतः-
कुलाचार-जनाचारैर् अतिशुढः प्रतापवान् । धार्मिको नीति-कुशलः स स्वामी युज्यते भुवि ॥१८८॥
अपरं च पश्य- राजानं प्रथमं विंदेत् ततो भार्यां ततो धनम् । राजंय् असति लोकेस्मिन् कुतो भार्या कुतो धनम् ॥१८९॥
अंयच् च- पर्जंय इव भूतानाम् आधारः पृथिवी-पतिः । विकलेपि हि पर्जंये जीव्यते न तु भूपतौ ॥१९०॥
किं च- नियत-विषय-वर्ती प्रायशो दंड-योगाज् जगति पर-वशेस्मिन् दुर्लभः साधु-वृत्तेः । कृशम् अपि विकलं वा व्याधितं वाधनं वा पतिम् अपि कुल-नारी दंड-भीत्याभ्युपैति ॥१९१॥
तद् यथा लग्न-वेला न चलति तथा कृत्वा सत्वरम् आगम्यतां देवेन । इत्य् उक्त्वा उठाय चलितः । ततो सौ राज्य-लाभाकृष्टः कर्पूरतिलकः शृगाल-दर्शित-वर्त्मना धावन् महा-पंके निमग्नः । हस्तिनोक्तम्-सखे शृगाल ! किम् अधुना विधेयम् ? महा-पंके पतितो हं म्रिये । परावृत्य पश्य !
शृगालेन विहस्योक्तम्-देव ! मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ । यस्मात् मद्-विधस्य वचसि त्वया विश्वासः कृतः, तस्य फलम् एतत् । तद् अनुभूयताम् अशरणं दुःखम् । तथा चोक्तम्-
यदासत्-संग-रहितो भविष्यसि भविष्यसि । यदासज्जन-गोष्ठीषु पतिष्यसि पतिष्यसि ॥१९२॥
ततो महा-पंके निमग्नो हस्ती शृगालैर् भक्षितः । अतो हं ब्रवीमि-उपायेन हि यच् छक्यम् इत्य् आदि ।

ततस् तद्-धित-वचनम् अवधीर्य महता भयेन विमुग्ध इव मंथरष् तज्-जलाशयम् उत्सृज्य प्रचलितः । तेपि हिरण्यकादयः स्नेहाद् अनिष्टं शंकमानास् तम् अनुजग्मुः । ततः स्थले गच्छन् केनापि व्याधेन वने पर्यटता स मंथरः प्राप्तः । स च तं गृहीत्वा उठाय धनुषि बढ्वा धंयो स्मीत्य् अभिधाय भ्रमण-क्लेशात् क्षुत्-पिपासाकुलः स्व-गृहाभिमुखं प्रयातः । अथ ते मृग-वायस-मूषिकाः परं विषादम् उपगताः तम् अनुगच्छंति स्म । ततो हिरण्यको विलपति-
एकस्य दुःखस्य न यावद् अंतं गच्छाम्य् अहं पारम् इवार्णवस्य । तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व् अनर्था बहुली-भवंति ॥१९३॥
स्वभावजं तु यन् मित्रं भाग्येनैवाभिजायते । तद्-अकृत्रिम-सौहार्दम् आपत्स्व् अपि न मुञ्चति ॥१९४॥
अपि च- न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्वासस् तादृशः पुंसां यादृङ् मित्रे स्वभावजे ॥१९५॥
इति मुहुः विचिंत्य प्राह-अहो मे दुर्दैवम् । यतः-
स्व-कर्म-संतान-विचेष्टितानि कालांतरावर्ति-शुभाशुभानि । इहैव दृष्टानि मयैव तानि जन्मांतराणीव दशांतराणि ॥१९६॥
अथवा इठम् एवैतत् । कायः संनिहितापायः संपदः पदम् आपदाम् । समागमाः सापगमाः सर्वम् उत्पादि भंगुरम् ॥१९७॥
पुनर् विमृश्याह- शोकाराति-भय-त्राणं प्रीति-विश्रंभ-भाजनम् । केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयम् ॥१९८॥
किं च- मित्रं प्रीति-रसायनं नयनयोर् आनंदनं चेतसः पात्रं यत् सुख-दुःखयोः समम् इदं पुण्यात्मना लभ्यते । ये चांये सुहृदः समृढि-समये द्रव्याभिलाषाकुलास् ते सर्वत्र मिलंति तत्त्व-निकष-ग्रावा तु तेषां विपत् ॥१९९॥
इति बहु विलप्य हिरण्यकश् चित्रांग-लघुपतनकाव् आह-यावद् अयं व्याधो वनान् न निःसरति, तावन् मंथरं मोचयितुं यत्नः क्रियताम् ।
ताव् ऊचतुः-सत्वरं यथा-कार्यम् उपदिश ।
हिरण्यको ब्रूते-चित्रांगो जल-समीपं गत्वा मृतम् इवात्मानं निश्चेष्टं दर्शयतु । काकश् च तस्योपरि स्थित्वा चञ्च्वा किम् अपि विलिखतु । नूनम् अनेन लुब्धकेन मृग-मांसार्थिना तत्र कच्छपं परित्यज्य सर्वरं गंतव्यम् । ततो हं मंथरस्य बंधनं छेत्स्यामि । संनिहिते लुब्धके भवद्भ्यां पलायितव्यम् ।
ततश् चित्रांग-लघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः परिश्रांतः पानीयं पीत्वा तरोर् अधस्ताद् उपविष्टः सन् तथाविधं मृगम् अपश्यत् । ततः कच्छपं जल-समीपे निधाय कर्तरिकाम् आदाय प्रहृष्ट-मना मृगांतिकं चलितः । अत्रांतरे हिरण्यकेन आगत्य मंथरस्य बंधनं छिन्नम् । छिन्न-बंधनः कूर्मः सत्वरं जलाशयं प्रविष्टः । स च मृग आसन्नं तं व्याधं विलोक्योठाय द्रुतं पलायितः । प्रत्यावृत्त्य लुब्धको यावत् तरु-तलम् आयाति तावत् कूर्मम् अपश्यंन् अचिंतयत्-उचितम् एवैतत् ममासमीक्ष्य-कारिणः । यतः-
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यंति अध्रुवं नष्टम् एव हि ॥२००॥
ततो सौ स्व-कर्म-वशान् निराशः कटकं प्रविष्टः । मंथरादयश् च सर्वे मुक्तापदः स्व-स्थानं गत्वा यथा-सुखम् आस्थिताः ।
अथ राज-पुत्रैः सानंदम् उक्तम्-सर्वे श्रुतवंतः सुखिनो वयम् । सिढं नः समीहितम् ।
विष्णु-शर्मोवाच-एतद् भवताम् अभिलषितम् अपि संपन्नम् । अपरम् अपीदम् अस्तु-
मित्रं यांतु च सज्जना जनपदैर् लक्ष्मीः समालभ्यतां भूपालाः परिपालयंतु वसुधां शश्वत् स्व-धर्मे स्थिताः । आस्तां मानस-तुष्टये सुकृतिनां नीतिर् नवोढेव वः कल्याणं कुरुतां जनस्य भगवांश् चंद्रार्ध-चूडामणिः ॥२०१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP