मित्र लाभः - कथा ५
हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।
आसीत् कल्याण-कटक-वास्तव्यो भैरवो नाम व्याधः । स चैकदा मांस-लुब्धो धनुर् आदाय मृगम् अंविष्यन् विंध्याटवी-मध्यं गतः । तत्र तेन मृग एको व्यापादितः । ततो मृगम् आदाय गच्छता तेन घोराकृतिः शूकरो दृष्टः । ततस् तेन मृगं भूमौ निधाय शूकरः शरेण हतः । शूकरेणाप्य् आगत्य प्रलय-घन-घोर-गर्जनं कुर्वाणेन स व्याधो मुष्क-देशे हतः छिन्न-द्रुम इव पपात । तथा चोक्तम्-
जलम् अग्निर् विषं शस्तं क्षुद् व्याधिः पतनं गिरेः । निमित्तं किञ्चिद् आसाद्य देही प्राणैर् विमुच्यते ॥१५८॥
अथ तयोः पादास्फालनेन एकः सर्पो पि मृतः । अत्रांतरे दीर्घरावो नाम जंबुकः परिभ्रमनाहारार्था तान् मृतान् मृग-व्याध-सर्प-शूकरान् अपश्यत् । आलोक्याचिंतयच् च-अहो भाग्यम् ! अद्य महद् भोज्यं मे समुपस्थितम् ।
अथवा- अचिंतितानि दुःखानि यथैवायांति देहिनाम् । सुखांय् अपि तथा मंये दैवम् अत्रातिरिच्यते ॥१५९॥
मासम् एकं नरो याति द्वौ मासौ मृग-शूकरौ । अहिर् एकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ॥१६०॥
ततः प्रथम-बुभुक्षायाम् इदं निःस्वादु कोदंड-लग्नं स्नायु-बंधनं खादामि, इत्य् उक्त्वा तथाकरोत् । ततश् छिंने स्नायु-बंधने द्रुतम् उत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः । अतो हं ब्रवीमि कर्तव्यः सञ्चयो नित्यम् इत्य् आदि । तथा च-
यद् ददाति यद् अश्नाति तद् एव धनिनो धनम् । अंये मृतस्य क्रीडंति दारैर् अपि धनैर् अपि ॥१६१॥
किं च- यद् ददासि विशिष्टेभ्यो यच् चाश्नासि दिने दिने । तत् ते वित्तम् अहं मंये शेषं कस्यापि रक्षसि ॥१६२॥
यातु, किम् इदानीम् अतिक्रांतोपवर्णनेन । यतः-
नाप्रायम् अभिवाञ्छंति नष्टं नेच्छंति शोचितुम् । आपत्स्व् अपि न मुह्यंति नराः पंडित-बुढयः ॥१६३॥
तत् सखे ! सर्वदा त्वया सोत्साहेन भवितव्यम्, यतः-
शास्त्राण्य् अधीत्यापि भवंति मूर्खा यस् तु क्रियावान् पुरुषः स विद्वान् । सुचिंतितं चौषधम् आतुराणां न नाम-मात्रेण करोत्य् अरोगम् ॥१६४॥
अंयच् च- न स्वल्पम् अप्य् अध्यवसाय-भीरोः करोति विज्ञान-विधिर् गुणं हि । अंधस्य किं हस्त-तल-स्थितो पि प्रकाशयत्य् अर्थम् इह प्रदीपः ॥१६५॥
तद् अत्र सखे दशातिशेषेण शांतिः करणीया । एतद् अप्य् अतिकष्टं त्वया न मंतव्यम् ।
सुखम् आपतितं सेव्यं दुःखम् आपतितं तथा । चक्रवत् परिवर्तंते दुःखानि च सुखानि च ॥१६६॥
अपरं च- निपानम् इव मंडूकाः सरः पूर्णम् इवांडजाः । सोद्योगं नरम् आयांति विवशाः सर्व-संपदः ॥१६७॥
अपि च- उत्साह-संपन्नम् अदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्व् असक्तम् । शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः ॥१६८॥
विशेषतश् च- विनाप्य् अर्थैर् धीरः स्पृशति बहुमानोन्नति-पदं समायुक्तो प्य् अर्थैः परिभव-पदं याति कृपणः । स्वभावाद् उद्भूतां गुण-समुदयावाप्ति-विषयां द्युतिं सैंहीं श्वा किं धृत-कनक-मालो पि लभते ॥१६९॥
किं च- धनवान् इति हि मदस् ते किं गत-विभवो विषादम् उपयासि । कर-निहत-कंदुक-समाः पातोत्पाता मनुष्याणाम् ॥१७०॥
अंयच् च- वृत्त्य्-अर्थं नातिचेष्टते सा हि धात्रैव निर्मिता । गर्भाद् उत्पतिते जंतौ मातुः प्रस्रवतः स्तनौ ॥१७१॥
अपि च सखे शृणु- येन शुक्ली-कृता हंसाः शुकाश् च हरितीकृताः । मयूराश् चित्रिता येन स ते वृत्तिं विधास्यति ॥१७२॥
अपरं च सतां रहस्यं शृणु, मित्र !
जनयंत्य् अर्जने दुःखं तापयंति विपत्तिषु । मोहयंति च संपत्तौ कथम् अर्थाः सुखावहाः ॥१७३॥
अपरं च- धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद् धि पंकस्य दूराद् अस्पर्शनं वरम् ॥१७४॥
यतः- यथाआमिषम् आकाशे पक्षिभिः श्वापदैर् भुवि । भक्ष्यते सलिले मत्स्यैस् तथा सर्वत्र वित्तवान् ॥१७५॥
अंयच् च- राजतः सलिलाद् अग्नेश् चोरतः स्वजनाद् अपि । भयम् अर्थवतां नित्यं मृत्योः प्राण-भृताम् इव ॥१७६॥
तथा हि- जन्मनि क्लेश-बहुले किं नु दुःखम् अतः परम् । इच्छा-संपद् यतो नास्ति यच् चेच्छा न निवर्तते ॥१७७॥
अंयच् च भ्रातः शृणु- धनं तावद् असुलभं लब्धं कृच्छ्रेण पाल्यते । लब्ध-नाशो यथा मृत्युस् तस्माद् एतन् न चिंतयेत् ॥१७८॥
सा तृष्णा चेत् परित्यक्ता को दरिद्रः क ईश्वरः । तस्याश् चेत् प्रसरो दत्तो दास्यं च शिरसि स्थितम् ॥१७९॥
अपरं च- यद् यद् एव हि वाञ्छेत ततो वाञ्छा प्रवर्तते । प्राप्त एवार्थतः सो र्थो यतो वाञ्छा निवर्तते ॥१८०॥
किं बहुना, विश्रंभालापैर् मयैव सहात्र कालो नीयताम् । यतः-
आम्रणांताः प्रणयाः कोपाश् च क्षण-भंगुराः । परित्यागाश् च निःसंगा न भवंति महात्मनाम् ॥१८१॥
इति श्रुत्वा लघुपतनको ब्रूते-धंयो सि मंथर ! सर्वथा आश्रयणीयो सि । यतः-
संत एव सतां नित्यम् आपद्-उढरण-क्षमाः । गजानां पंक-मग्नानां गजा एव धुरंधराः ॥१८२॥
अपरं च- श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्-पुरुषः स धंयः । यस्यार्थिनो वा शरणागता वा नाशाविभंगा विमुखाः प्रयांति ॥१८३॥
तद् एवं ते स्वेच्छाहार-विहारं कुर्वाणाः संतुष्टाः सुखं निवसंति स्म । अथ कदाचित् चित्रांग-नामा मृगः केनापि त्रासितस् तत्रागत्य मिलितः । तत्-पश्चाद् आयांतं भय-हेतुं संभाव्य मंथरो जलं प्रविष्टः । मूषिकश् च विवरं गतः, काको पि उड्डीय वृक्षाग्रम् आरूढः । ततो लघुपतनकेन सुदूरं निरूप्य भय-हेतुर् न को प्य् अवलंबितः । पश्चात् तद्-वचनाद् आगत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः । मंथरेणोक्तं-भद्र मृग ! कुशलं ते ? स्वेच्छया उदकाद्याहारो नुभूयताम् । अत्रावस्थानेन वनम् इदं सनाथीक्रियताम् ।
चित्रांगो ब्रूते-लुब्धक-त्रासितो हं भवतां शरणम् आगतः । ततश् च, भवद्भिः सह मित्रत्वम् इच्छामि । भवंतश् च अनुकंपयंतु मैत्र्येण । यतः- लोभाद् वाथ भयाद् वापि यस् त्यजेच् छरणागतम् । ब्रह्म-हत्या-समं तस्य पापम् आहुर् मनीषिणः ॥१८४॥
हिरण्यको प्य् अवदत्-मित्रत्वं तावद् अस्माभिः सह, अयत्नेन निष्पन्नं भवतः । यतः- औरसं कृत-संबंधं तथा वंश-क्रमागतम् । रक्षकं व्यसनेभ्यश् च मित्रं ज्ञेयं चतुर्-विधम् ॥१८५॥
तद् अत्र भवता स्व-गृह-निर्विशेषेण स्थीयताम् । तच् छ्रुत्वा मृगः सानंदो भूत्वा कृत-स्वेच्छाहारः पानीयं पीत्वा जलासन्न-वट-तरु-च्छायायाम् उपविष्टः ।
अथ मंथरो ब्रूते-सखे मृग ! केन त्रासितो सि ? अस्मिन् निर्जने वने कदाचित् किं व्याधाः सञ्चरंति ?
मृगेणोक्तम्-अस्ति कलिंग-विषये रुक्मांगदो नाम नृपतिः । स च दिग्विजय-व्यापार-क्रमेण आगत्य चंद्रभागा-नदी-तीरे समावेशित-कटको वर्तते, प्रातश् च तेनात्रागत्य कर्पूर-सरः समीपे भवितव्यम् इति व्याधानां मुखात् किंवदंती श्रूयते । तद् अत्रापि प्रातर्-अवस्थानं भय-हेतुकम् इत्य् आलोच्य यथा कार्यं तथा आरभ्यताम् ।
तच् छ्रुत्वा कूर्मः स-भयम् आह-मित्र ! जलाशयांतरं गच्छामि ।
काक-मृगाव् अपि उक्तवंतौ-मित्र ! एवम् अस्तु !
हिरण्यको विमृश्याब्रवीत्-पुनर् जलाशये प्राप्ते मंथरस्य कुशलम् । स्थले गच्छतो स्य का विधा ?
अंभांसि जल-जंतूनां दुर्गं दुर्ग-निवासिनाम् । स्व-भूमिः श्वापदादीनां राज्ञां सैंयं परं बलम् ॥१८६॥
उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः । काकी कनक-सूत्रेण कृष्ण-सर्पम् अघातयत् ॥१८७॥
तद् यथा-
N/A
References : N/A
Last Updated : November 11, 2016
TOP