मित्र लाभः - आरंभः

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


अथ प्रासाद-पृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्ताव-क्रमेण पंडितो ब्रवीत्-भो राज-पुत्राः शृणुत-
काव्य-शास्त्र-विनोदेन कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥१॥
तद् भवतां विनोदाय काक-कूर्मादीनां विचित्रां कथां कथयिष्यामि । राज-पुत्रैर् उक्तम्-आर्य ! कथ्यतां । विष्णु-शर्मोवाच-शृणुत यूयम् । संप्रति मित्र-लाभः प्रस्तूयते । यस्यायम् आद्यः श्लोकः-
असाधना वित्त-हीना बुढिमंतः सुहृन्-मताः । साधयंत्य् आशु कार्याणि काक-कूर्म-मृगाखुवत् ॥२॥
राजपुत्रा ऊचुः-कथम् एतत् ?
सो ब्रवीत्-अस्ति गोदावरी-तीरे विशालः शाल्मली-तरुः । तत्र नाना-दिग्-देशाद् आगत्य रात्रौ पक्षिणो निवसंति । अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचल-चूडावलंबिनि भगवति कुमुदिनी-नायके चंद्रमसि । लघुपतन-नामा वायसः प्रबुढः कृतांतम् इव द्वितीयम् अटंतं पाश-हस्तं व्याघम् अपश्यत् । तम् आलोक्याचिंतयत्-अद्य प्रातर् एवानिष्ट-दर्शनं जातम् । न जाने किम् अनभिमतं दर्शयिष्यति । इत्य् उक्त्वा तद् अनुसरण-क्रमेण व्याकुलश् चलति । यतः-
शोक-स्थान-सहस्राणि भय-स्थान-शतानि च । दिवसे दिवसे मूढम् आविशंति न पंडितम् ॥३॥
अंयच् च-विषयिणाम् इदम् अवश्यं कर्तव्यम् । उठायोठाय बोढव्यं किम् अद्य सुकृतं कृतम् । आयुषः खंडम् आदाय रविर् अस्तं गमिष्यति ॥४॥
अथ तेन व्याधेन तंडुल-कणान् विकीर्य जालं विस्तीर्णम् । स च तत्र प्रच्छंनो भूत्वा स्थितः । अस्मिंन् एव काले चित्रग्रीव-नामा कपोत-राजः स-परिवारो वियति विसर्पंस् तंडुल-कणान् अवलोकयामास । ततः कपोत-राजस् तंडुल-कण-लुब्धान् कपोतान् प्राह-कुतो त्र निर्जने वने तंडुल-कणानां संभवः । तन् निरूप्यतां तावत् । भद्रम् इदं न पश्यामि प्रायेणानेन तंडुल-कण-लोभेनास्माभिर् अपि तथा भवितव्यम् ।
कंकणस्य तु लोभेन मग्नः पंके सुदुस्तरे । वृढ-व्याघ्रेण संप्राप्तः पथिकः संमृतः ॥५॥
कपोता ऊचुः-कथम् एतत् ?

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP