मित्र लाभः - कथा ४
हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।
अस्ति चंपकाभिधानायां नगर्यां परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति । स च भोजनावशिष्ट-भिक्षान्न-सहितं भिक्षापात्रं नागदंतकेवस्थाप्य स्वपिति । अहं च तद् अन्नम् उत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि । अनंतरं तस्य प्रिय-सुहृद् वीणाकर्णो नाम परिव्राजकः समायातः, तेन सह नाना-कथा-प्रसंगावस्थितो मम त्रासार्थं जर्जर-वंश-खंडेन चूडाकर्णो भूमिम् अताडयत् । तं तथाविधं दृष्ट्वा वीणाकर्ण उवाच-सखे ! किम् इति मम कथा-विरक्तो ंयासक्तो भवान् ? यतः-
मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी । स्नेहो धिकः संभ्रम-दर्शनं च सदानुरक्तस्य जनस्य लक्ष्म ॥११५॥
अदृष्टि-दानं कृत-पूर्व-नाशनम् आननं दुश्चरितानुकीर्तनम् । कथा-प्रसंगेन च नाम-विस्मृतिर् विरक्त-भावस्य जनस्य लक्षणम् ॥११६॥
चूडाकर्णेनोक्तम्-भद्र ! नाहं विरक्तः, किंतु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नम् उत्प्लुत्य भक्षयति । वीणाकर्णो नागदंतम् अवलोक्याह-कथम् अयं मूषिकः स्वल्प-बलो प्य् एतावद् दूरम् उत्पतति ? तद् अत्र केनापि कारणेन भवितव्यम् ।
क्षणं विचिंत्य परिव्राजकेनोक्तम्-कारणं चात्र धन-बाहुल्यम् एव प्रतिभाति । यतः-
धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धन-मूलं हि राज्ञाम् अप्य् उपजायते ॥११७॥
ततः खनित्रम् आदाय तेन परिव्राजकेन विवरं खनित्वा चिर-सञ्चितं मम धनं गृहीतम् । ततः प्रभृति प्रत्यहं निज-शक्ति-हीनः सत्त्वोत्साह-रहितः स्वाहारम् अप्य् उत्पादयितुम् अक्षमः संन् आसं मंदं मंदम् उपसर्पन् चूडाकर्णेनावलोकितः । ततस् तेनोक्तम्-
धनेन बलवान् लोको धनाद् भवति पंडितः । पश्यैनं मूषिकं पापं स्वजाति-समतां गतम् ॥११८॥
किं च- अर्थेन तु विहीनस्य पुरुषस्याल्प-मेधसः । क्रिया सर्वा विनश्यंति ग्रीष्मे कुसरितो यथा ॥११९॥
अपरं च- यस्यार्थास् तस्य मित्राणि यस्यार्थास् तस्य बांधवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पंडितः ॥१२०॥
अपरं च- अपुत्रस्य गृहं शूंयं सन्-मित्र-रहितस्य च । मूर्खस्य च दिशः शूंयाः सर्व-शूंया दरिद्रता ॥१२१॥
अपरं च- दारिद्र्यान् मरणाद् वापि दारिद्र्यम् अवरं स्मृतम् । अल्प-क्लेशेन मरणं दारिद्र्यम् अतिदुःसहम् ॥१२२॥
अंयच् च- तानींद्रियाण्य् अविकलानि तद् एव नाम सा बुढिर् अप्रतिहता वचनं तद् एव । अर्थोष्मणा विरहितः पुरुषः स एव अंयः क्षणेन भवतीति विचित्रम् एतत् ॥१२३॥
एतत् सर्वम् आकर्ण्य मयालोचितं-ममान्नावस्थानम् अयुक्तम् इदानीम् । तथा चोक्तम्- अत्यंत-विमुखे दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनो दरिद्रस्य वनाद् अंयत् कुतः सुखम् ॥१२४॥
अंयच् च- मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणम् आयाति नानलो याति शीतताम् ॥१२५॥
किं च- कुसुम-स्तवकस्येव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वनेथवा ॥१२६॥
यच् चांयस्मै एतद् वृत्तांत-कथनं तद् अप्य् अनुचितम् । यतः-
अर्थ-नाशं मनस्-तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥१२७॥
यच् चात्रैव याच्ञया जीवनं तद् अप्य् अतीव-गर्हितम् । यतः-
वरं विभव-हीनेन प्राणैः संतर्पितो नलः । नोपचार-परिभ्रष्टः कृपणः प्रार्थ्यते जनः ॥१२८॥
अंयच् च- दारिद्र्याद् ध्रियम् एति ह्री-परिगतः सत्त्वात् परिभ्रश्यते निःसत्त्वं परिभूयते परिभवान् निर्वेदम् आपद्यते । निर्विंणः शुचम् एति शोक-फिहितो बुढ्या परित्यज्यते निर्बुढिः क्षयम् एत्य् अहो निधनता सर्वापदाम् आस्पदम् ॥१२९॥
किं च- वरं मौनं कार्यं न च वचनम् उक्तं यद् अनृतं वरं क्लैब्यं पुंसां न च पर-कलत्राभिगमनम् । वरं प्राण-त्यागो न च पिशुन-वाक्येष्व् अभिरुचिर् वरं भिक्षाशित्वं न च पर-धनास्वादन-सुखम् ॥१३०॥
वरं शूंया शाला न च खलु वरो दुष्ट-वृषभो वरं वेश्या पत्नी न पुनर् अविनीता कुल-वधूः । वरं वासो रण्ये न पुनर् अविवेकाधिप-पुरे वरं प्राण-त्यागो न पुनर् अधमानाम् उपगमः ॥१३१॥
अपि च- सेवेव मानम् अखिलं ज्योत्स्नेव तमो जरेव लावण्यम् । हरि-हर-कथेव दुरितं गुण-शतम् अप्य् अर्थिता हरति ॥१३२॥
तत् किम् अहं पर-पिंडेन आत्मानं पोषयामि ? कष्टं भोः ! तद् अपि द्वितीयं मृत्यु-द्वारम् । अंयच् च-
रोगी चिर-प्रवासी परान्न-भोजी परावसथ-शायी । यज् जीवति तन् मरणं यन् मरणं सो स्य विश्रामः ॥१३३॥
इत्य् आलोच्यापि लोभात् पुनर् अपि तदीयम् अन्नं ग्रहीतुं ग्रहम् अकरवम् । तथा चोक्तम्-
लोभेन बुढिश् चलति लोभो जनयते तृषाम् । तृषार्तो दुःखम् आप्नोति परत्रेह च मानवः ॥१३४॥
ततो हं मंदं मंदम् उपसर्पंस् तेन वीणाकर्णेन जर्जर-वंश-खंडेन ताडितश् चाचिंतयम्-लुब्धो ह्य् असंतुष्टो नियतम् आत्म-द्रोही भवति । तथा च-
धन-लुब्धो ह्य् असंतुष्टो नियतात्माजितेंद्रियः । सर्वा एवापदस् तस्य यस्य तुष्टं न मानसम् ॥१३५॥
सर्वाः संपत्तस्यस् तस्य संतुष्टं यस्य मानसम् । उपानद्-गूढ-पादस्य ननु चर्मावृतेव भूः ॥१३६॥
अपरं च- संतोषामृत-तृप्तानां यत् सुखं शांत-चेतसाम् । कुतस् तद्-धन-लुब्धानाम् इतश् चेतश् च धावताम् ॥१३७॥
किं च- तेनाधीतं श्रुतं तेन तेन सर्वम् अनुष्ठितम् । येनाशाः पृष्ठतः कृत्वा नैराश्यम् अवलंबितम् ॥१३८॥
अपि च- असेवितेश्वर-द्वारम् अदृष्ट-विरह-व्यथम् । अनुक्त-क्लीब-वचनं धंयं कस्यापि जीवनम् ॥१३९॥
न योजन-शतं दूरं वाह्यमानस्य तृष्णया । संतुष्टस्य कर-प्राप्तेप्य् अर्थे भवति नादरः ॥१४०॥
तद् अत्र अवस्थोचित-कार्य-परिच्छेदः श्रेयान् ।
को धर्मो भूत-दया किं सौख्यं नित्यम् अरोगिना जगति । कः स्नेहः सद्-भावः किं पांडित्यं परिच्छेदः ॥१४१॥
तथा च- परिच्छेदो हि पांडित्यं यदापन्ना विपत्तयः । अपरिच्छेद-कर्तृ̄णां विपदः स्युः पदे पदे ॥१४२॥
तथा हि- त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥१४३॥
अपरं च- पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् । विचार्यं खलु पश्यामि तत् सुखं यत्र निर्वृतिः ॥१४४॥
इत्य् आलोच्याहं निर्जन-वनम् आगतः । यतः-
वरं वनं व्याघ्र-गजेंद्र-सेवितं द्रुमालयः पत्र-फलांबु-भक्षितम् । तृणानि शय्या वसनं च वल्कलं न बंधु-मध्ये धन-हीन-जीवनम् ॥१४५॥
अतः- संसार-विषय-वृक्षस्य द्वे एव रसवत् फले । काव्यामृत-रसास्वादः संगमः सज्जनैः सह ॥१४६॥
अपरं च- सत्-संगः केशवे भक्तिर् गंगांभसि निमज्जनम् । असारे खलु संसारे त्रीणि साराणि भावयेत् ॥१४७॥
मंथर उवाच- अर्थाः पाद-रजोपमा गिरि-नदी-वेगोपमं यौवनम् आयुष्यं जल-बिंदु-लोल-चपलं फेनोपमं जीवनम् । धर्मं यो न करोति निश्चल-मतिः स्वर्गार्गलोद्घाटनं पश्चात्-ताप-हतो जरा-परिणतः शोकाग्निना दह्यते ॥१४८॥
युष्माभिर् अतिसञ्चयः कृतः । तस्यायं दोषः । शृणु- उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदर-संस्थानां परीवाहैवांभसाम् ॥१४९॥
अंयच् च- यद् अधो धः क्षितौ वित्तं निचखान मितंपचः । तद्-अधो निलयं गंतुं चक्रे पंथानम् अग्रतः ॥१५०॥
यतः- निज-सौख्यं निरुंधानो यो धनार्जनम् इच्छति । परार्थ-भार-वाहीव स क्लेशस्यैव भाजनम् ॥१५१॥
तथा चोक्तं- दानोपभोग-हीनेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयम् ॥१५२॥
यतः- धनेन किं यो न ददाति नाश्नुते बलेन किं यश् च रिपून् न याधत्ते । श्रुतेन किं यो न च धर्मम् आचरेत् किम् आत्मना यो न जितेंद्रियो भवेत् ॥१५३॥
अंयच् च- असंभोगेन सामांयं कृपणस्य धनं परैः । अस्येदम् इति संबंधो हानौ दुःखेन गम्यते ॥१५४॥
अपि च- न देवाय न विप्राय न बंधुभ्यो न चात्मने । कृपणस्य धनं याति वह्नि-तस्कर-पार्थिवैः ॥१५५॥
तथा चोक्तम्- दानं प्रिय-वाक्-सहितं ज्ञानम् अगर्वं क्षमांवितं सौर्यम् । त्यागं सहितं च वित्तं दुर्लभम् एतच् चतुर् भद्रम् ॥१५६॥
उक्तं च- कर्तव्यः सञ्चयो नित्यं न तु कार्यो तिसञ्चयः । अतिसञ्चय-शीलो यं धनुषा जंबुको हतः ॥१५७॥
ताव् आहतुः-कथम् एतत् ?
मंथरः कथयति-
N/A
References : N/A
Last Updated : November 11, 2016
TOP