संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वितीयः पटलः| मन्त्रदीक्षाविचारः द्वितीयः पटलः कुलाचारविधिः गुरूस्तोत्रम् गुरूलक्षणम् शिष्यलक्षणम् मन्त्रदीक्षाविचारः दीक्षाविधिः द्वितीयः पटलः - मन्त्रदीक्षाविचारः कुलाचारविधिः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मन्त्रदीक्षाविचारः Translation - भाषांतर प्रायश्चितं ततः कृत्वा पुनर्दीक्षां समाचरेत्।सावित्रीमन्त्रजापञ्च लक्ष्यं जाप्यं जगत्पतेः ॥९६॥विष्णोर्वा प्रणवं लक्ष्यं प्रायश्चित्तमिति स्मृतम् ।अशक्तश्चेन्महादेव चायुतं प्रजपेन्मनुम् ॥९७॥दशसाहस्त्रजाप्येन सर्वकल्मषनाशिनी ।गायत्रीच्छन्दसां माता पापराशितुलानला ॥९८॥मम मूर्तिप्रकाशा च पशुभावविवर्जिता ।फलोद्भवप्रकरणे ब्रह्मणापद्यते निशि ॥९९॥यदि भाग्यवशाद् देव सिद्धमन्त्रं गुरुं तथा ।तदैव तान्तु दीक्षेत अष्टैश्वर्याय केवलम् ॥१००॥निर्बीजञ्च पितुर्मन्त्रं शैवे शाक्ते न दुष्यति ।ज्येष्ठपुत्राय दातव्यं कुलीनैः कुलपण्डितैः ॥१०१॥कुलयुक्ताय दान्ताय महामन्त्रं कुलेश्वरम् ।तदैव मुक्तिमाप्नोति सत्यं सत्यं न संशयः ॥१०२॥कनिष्ठञ्च रिपुं चापि सोदरं वैरिपक्षगम् ।मातामहञ्च पितरं यतिञ्च वनवासिनम् ॥१०३॥अनाश्रम कुसंसर्गं स्वकुलत्यागिनं तथा ।वर्जयित्वा च शिष्यांस्तान् दीक्षाविधिमुपाचरेत् ॥१०४॥अन्यथा तद्विरोधेन कामनाभोगनाशनम् ।सिद्धमन्त्रञ्च गृहणीयाद् दुष्कुलदपि भैरव ॥१०५॥सद्गुरो र्भावनेच्छन्नरुपे रुपे धरे शुभे ।तत्र दीक्षां समाकुर्वन् अष्टैश्वर्यजयं लभेत् ॥१०६॥स्वप्ने तु नियमो नास्ति दीक्षासु गुरुशिष्ययोः ।स्वप्नलब्धे स्त्रिया दत्ते संस्कारेणैव शुद्धयति ॥१०७॥साध्वी चैव सदाचार गुरुभक्ता जितेन्दिया ।सर्वमन्त्रार्थ तत्त्वज्ञा सुशीला पूजने रता ॥१०८॥सर्वलक्शणसम्पन्ना जापिका पद्मलोचना ।रत्नालङ्कसंयुक्ता वर्णाभूवनभूषिता ॥१०९॥शान्ता कुलीना कुलजा चन्द्रास्या सर्ववृद्धिगा ।अनन्तगुणसम्पन्ना रुद्रत्वदायिनी प्रिया ॥११०॥गुरुरुपा मुक्तिदात्री शिवज्ञाननिरुपिणी ।गुरुयोग्यता भवेत् सा हि विधवा परिवर्जिता ॥१११॥स्त्रिया दीक्षा प्रोक्ता मन्त्रश्चाष्टगुणा स्मृता ।पुत्रिणी विधवा ग्राह्या केवला ऋणकारिणी ॥११२॥सिद्धमन्त्रो यदि भवेद् गृहणीयाद् विधवामुखात् ।केवलं सुफलं तत्र मातुरष्टागुणं ध्रुवम् ॥११३॥सधवा स्वप्रकृत्या च ददाति यदि तन्मनुम् ।ततोऽष्टगुणमाप्नोति यदि सा पुत्रिणी सती ॥११४॥यदि माता स्वकं मन्त्रं ददाति स्वसुताय च ।तदाष्टसिद्धिमाप्नोति भक्तिमार्गे न संशयः ॥११५॥तदैव दुर्लभं देव यदि मात्रा प्रदीयते ।आदौ भक्तिं ततो मुक्तिं सम्प्राप्य कालरुपधृक् ॥११६॥सहस्त्रकोटिविद्यार्थं जानाति नात्र संशयः ।स्वप्ने तु माता यदि वा ददाति शुद्धमन्त्रकम् ॥११७॥पुनर्दीक्षां सोऽपि कृत्वा दानवत्त्वमवाप्नुयात् ।यदि भाग्यवशेनैव जननी दानवर्तिनी ॥११८॥तदा सिद्धिमवाप्नोति तत्र मन्त्रं विचारयेत् ।स्वीयमन्त्रोपदेशेन न कुर्याद् गुरुचिन्तनम् ॥११९॥तथा श्रीललिता काली महाविद्या महामनोः ।सर्वसिद्धियुतो भूत्त्वा वत्सरात् तां प्रपश्यति ॥१२०॥कालीकल्पलता देवी महाविद्यादिसाधने ।गुरुचिन्ता न कर्तव्या ये जानन्ति गुरोर्वच ॥१२१॥यदि मन्त्रं विचार्याशु गृहणाति साधकोत्तमः ।अनन्तकोतिपुण्यस्य द्विगुणं भवति ध्रुवम् ॥१२२॥विचार्य चक्रसारञ्च मन्त्रं गृहणाति यो नरः ।वैकुठनगरे वासस्तेषां जन्मशतैरपि ॥१२३॥इति श्रुत्वा महादेवो महादेव्याः सरस्वतीम् ।उवाच पुनरानन्दपुलकोल्लासविग्रहः ॥१२४॥ज्ञातुं चक्रं षोडशञ्च चक्रहस्तवरप्रदम् ।अत्यद्भुतफलोपेत् धर्मार्थकाममोक्षदम् ॥१२५॥श्री भैरव उवाच कथयस्व महादेवि कुलसद्भावप्राप्तये ।यदि मे सुकृपादृष्टिः वर्तते स्नेहसागरे ॥१२६॥त्वत्प्रसादाद् भैरवोऽहं कालोऽहं जगदीश्वरः ।भुक्तिमुक्तिप्रदाता च योगयोग्यो दिगम्बरः ॥१२७॥ N/A References : N/A Last Updated : April 07, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP