निरोगी निरहङ्करो विकाररहितो महान् ।
पण्डितो वाक्‌पतिः श्रीमान् सदा यज्ञविधानकृत् ॥५३॥

पुरश्चरणकृत सिद्धो हिताहितविवर्जित ।
सर्वलक्षणसंयुक्तो महाजनगणादृतः ॥५४॥

प्राणायामादिसिद्धान्तो ज्ञानी मौनी विरागवान् ।
तपस्वी सत्यवादी च सदा ध्यानपरायणः ॥५५॥

आगमार्थविशिष्टज्ञो निरधर्मपरायणः ।
अव्यक्तलिङुचिहनस्थो भावको भद्रदानवान् ॥५६॥

लक्ष्मीवान् धृतिमान्नाथो गुरुरित्यभिधीयते ।
शिष्यस्तु तादृशो भूत्त्वा सद्गुरुं पर्युपाश्रयेत् ॥५७॥

वर्जयेच्च परानन्दरहितं रुपवर्जितम् ।
कुष्ठिनं क्रूरकर्माणं निन्दितं रोगिणं गुरुम् ॥५८॥

N/A

References : N/A
Last Updated : April 07, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP