ग्रहलाघवः - नयनाधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


द्य्वब्धीन्द्राः शकरहितास्तो भवाप्तं चक्राख्यं रविहतशेषकं तु हीनम् ॥

चैत्राद्येः पृथगमुतः सदृग्घ्नचक्रात्सिद्धाढ्यादमरफलाधिमासयुक्तम् ॥१॥

खत्रिघ्नं तिथिरहितं निरग्रचक्राङ्गांशाढ्यं पृथगमुतोऽब्धिषट्कलब्धैः ॥

ऊनाहैर्वियुतमहर्गणो भवेद्वै वारः प्राक्छरहतचक्रयुग्गणोऽब्जात् ॥२॥

द्य्वब्धीन्द्राः , शकरहिताः , (कार्य्याः ) ततः , भवाप्तम् , चक्राख्यम् , (स्यात् ) रविहतशेषकम् , तु , चैत्राद्येः , हीनम् , पृथक् , (स्थाप्यम् ) सदृग्नचक्रात् , सिद्धाढ्यात् , अमुतः , अमरफलाधिमासयुक्तम् , खत्रिघ्नम् , तिथिरहितम् , निरग्नचक्राङ्गांशाढ्यम् , पृथक् . (स्थाप्यम् ) अमुतः , अब्धिषट्कलब्धैः , ऊनाहैः , वियुतम् , अहर्गणः , भवेत् , शरहतचक्रयुग्गणः , प्राक् , अब्जात् , वारः , (भवेत् ) ॥१॥२॥

चक्रनिघ्नध्रुवोपेताः सक्षेपा द्युगणोद्भवैः॥

खेटैरूनाः स्युरिष्टाहे द्य्वब्धीन्द्राल्पःशको यदा ॥३॥

यदा , इष्टाहे , शकः , द्य्वब्धीन्द्राल्पः , (तदा ) चक्रनिघ्नध्रुवोपेतोः , सक्षेपाः , द्युगणोद्भवैः , खेटैः , इष्टखेटाः , स्युः ॥३॥

पूर्वे प्रौढतराः क्वचित्किमपि यच्चक्रुर्धनुर्ज्ये विना ते तेनैव महातिगर्वकुभृदुच्छङ्गेऽधिरोहन्ति हि ॥

सिद्धान्तोक्तमिहाखिलं लघुकृतं हित्वा धनुर्ज्ये मया तद्भर्वो मयि मास्तु किं न यदहं तच्छास्त्रतो वृद्धधीः ॥४॥

क्वचित् , धनुर्ज्ये , विना , यत् , किम् , अपि , पूर्वे , प्रौढतराः , चक्रुः , ते , तेन , एव , हि , महातिगर्वकुभृदुच्छृङ्गे , अधिरोहन्ति , इह , मया धनुर्ज्ये , विना , अखिलम् , सिद्धान्तोक्तम् , लघुतम् ; तद्रर्वः , मयि , मा , अस्तु , यत् , अहम् , किम् , तच्छास्त्रतः , वृद्धधीः , न , (अस्मि ) ॥४॥

नन्दिग्राम इहापरान्तविषये शिष्यादिगीतस्तुतिर्योऽभूत्कौशिकवंशजः सकलसच्छास्त्रार्थवित्केशवः ॥

सूनुस्तस्य तदङ्घ्निपद्मभजनाल्लब्ध्वावबोधांशकं स्पष्टं वृत्तविचित्रमल्पकरणं चैतद्रणेशोऽकरोत् ॥५॥

इह , अपरान्तविषये , नन्द्रिग्रामे , यः , शिष्यादिगीतस्तुतिः , सकलसच्छास्रवित् , कौशिकवंशजः , केशवः , अभूत् , तस्य , सनुः , गणेशः , तद्ङभिपद्मभजनात् , अबबोधांशकम् , लब्ध्वा , वृत्तविचित्रम् , स्पष्टम् , च , एतत् , अल्पकरणम् , अकरोत् ॥५॥

इति श्रीगणकवर्य्यपण्डितगणेशदैवज्ञकृतौ ग्रहलाघवकरणग्रन्थे पश्र्चिमोत्तरदेशीयमुरादाबादवास्तव्यकाशीस्थराजकीयसंस्कृतविद्यालयप्रधानाध्यापकपण्डितस्वामिराममिश्रशास्त्रिसान्निध्याधिगतविद्य -भारद्वाजगोत्रोत्पन्नगौडवंशातंसश्रीयुतभोलानाथनूजपणिडतरामस्वरूपशर्म्मणा विरचितयाऽवयसनाथितया भाषाटीकया सहितः पूर्वशकादहर्गणाद्यानयनाधिकारः समाप्तः ॥१६॥

शुभमस्तु ।

N/A

References : N/A
Last Updated : October 24, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP