ग्रहलाघवः - सूर्यग्रहणाधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


लग्नं दर्शान्ते त्रिभोनं पृथक्स्थं तत्क्रान्त्यंशैः संस्कृतोऽक्षो नतांशाः ॥

तद्दिद्य्वशा वर्गितश्र्चेद्द्विकोर्ध्वोऽसौ द्य्वूनः खण्डितस्तद्युतः सः ॥१॥

सार्को हारः स्यात्रिभोनोदयार्कविश्र्लेषांशांशांशहीनघ्नशक्राः ॥

हाराप्ताः स्याल्लम्बनं नाडिकाद्यं तिथ्यां स्वर्णं वित्रिभेऽर्काधिकोने ॥२॥

दर्शान्ते , लग्नम् , त्रिभोनम् , पृथक्स्थम् (कार्य्यम् ) तत्क्रान्त्यंशैः , संस्कृतः , अक्षः , नतांशाः , स्युः । तद्द्विद्य्वंशः , वर्गित , सन् , चेत् , द्विकोर्ध्वः , (स्यात् , तदा ), असौ , अधः , (स्थाप्यः ), (ततः ,) द्य्वूनः , सन् खण्डितः , (कार्य्यः , यत् , फलम् , स्यात् ) तद्युतः , सः सार्कः , हारः , स्यात् । त्रिभोनोदयार्कविश्र्लेषांशांशांशहीनघ्नशक्राः , हाराप्ताः , नाडिकाद्यम् लग्बनम् स्यात् । वित्रिभे , अर्काधिकोने , (सति ) तिथ्याम् स्वर्णम् (कार्यम् ) ॥१॥२॥

त्रिकुनिघ्नविलम्बनं कलास्तत्सहितोनस्तिथिवद्य्वगुः शरोऽतः ॥ऽऽ॥

त्रिकुनिघ्नविलम्बनम् , कलाः , (स्युः ) । तिथिवत् , व्यगुः , तत्सहितोनः , (कार्यः ), अतः , शरः , (साध्य ) ऽऽ

अथ षड्गुणलम्बनं लवास्तै ——

र्युगयुग्वित्रिभतः पुनर्नतांशाः ॥३॥

अथ , षड्गुणलम्बनं लवाः , (स्युः ) । तैः , युगयुग्वित्रिभतः , नतांशाः , (साध्याः ) ॥३॥

दशत्दृतनतभागोनाहताष्टेन्दवस्तद्रहितसधृतिलिप्तैः षड्भिराप्तास्त एव ॥

स्वदिगिति नतिरेतत्संस्कृतः सोऽङ्गुलादिः स्फुट इषुरमुतोऽत्र स्यातस्थितिच्छन्नपूर्वम् ॥४॥

दशहृतनतभागोनाहताष्टेन्दवः , (पृथक् , स्थाप्याः ) ते , एव , तद्राहितसधृतिलिसैः , षडूभिः आप्ताः , इति , स्वदिक् , नतिः , (स्यात् ) एतत्संस्कृतः सः , अत्र , स्फुटः अंगुलादिः , इषुः , (स्यात् ), अमुतः , स्थितिच्छन्नपूर्वम् , स्यात् ॥४॥

स्थितिरसहतिरंशा वित्रिभं तैः पृथक्स्थ रहितसहितमाभ्यां लम्बने ये तु ताभ्याम् ॥

स्थितिविरहितयुक्तः संस्कृतो मध्यदर्शः क्रमश इति भवेतां स्पर्शमुक्तयोस्तु कालौ ॥५॥

स्यितिरसहितः , अंशाः , (स्युः ) । पृथक्स्थम् , वित्रिभम् , तैः , रहितसहितम् , (कार्य्यम् ) । आभ्याम् , तु , ये , लम्बने , (ते , साध्ये ) । ताभ्याम् , स्थितिविरहितयुक्तः , मध्यदर्शः , संस्कृतः , (कार्य्यः ,) । इति तु , क्रमशः , स्पर्शमुक्तयोः , कालौ , भवेताम् ॥५॥

मर्दादेवं मीनलोन्मीलने स्तो ग्रासो नादेश्योऽङ्गुलाल्पो रवीन्द्वोः ॥

धूम्रः कृष्णः पिङ्गलोऽल्पार्द्धसर्वग्रस्तश्र्चन्द्रोऽर्कस्तु कृष्णः सदैव ॥६॥

एवम् , मर्दात् , मीलनोन्मीलने , स्तः । अंगुलाल्पः , रवीन्द्वोः , ग्रासः , न , आदेश्यः , अल्पार्द्धसर्वग्रस्तः , चन्द्रः , (क्रमात्ः ), धूम्रः , कृष्णः , पिङ्गलः , (गवति ), अर्कः , तु , सदा , एव , कृष्णः , (भवति ) ॥६॥

इष्टं द्विघ्नं छन्नक्षुण्णं स्पर्शान्त्यान्तर्नाडीभक्तम् ।

रूपार्धेनोपेतं विद्यादिष्टे कालेऽर्कस्य ग्रासम् ॥७॥

द्विघ्नम् , छन्नक्षुण्णम् , स्पर्शान्त्यान्तर्नाडीभक्तम् , रूपार्द्धेन , उपतेम् , इष्टे , काले , अर्कस्य ग्रासम् , विद्यात् ॥७॥

इति श्रीगणकवर्यपण्डितगणेशदैवज्ञकृतौ ग्रहलाघवकरणग्रन्थे पश्र्चिमोत्तरदेशीयमुरादाबादवास्तव्यकाशीस्थराजकीयसंस्कृतविद्यालयप्रधानाध्यापक —— पणिडतस्वामिराममिश्रशास्त्रिसान्निध्याधिगतविद्याभारद्वाजगोत्रोत्पन्नगौडवंशावतंस श्रीयुतभोलानाथनूजपणिडतरामस्वरूपशर्म्मणा कृतया सान्वयभाषाटीकया सहितः सूर्यग्रहणाधिकारः समप्तिमितः ॥७॥

N/A

References : N/A
Last Updated : October 23, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP