पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे ।
निद्रोन्मुखब्रह्ममुखाद्धृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥१॥
सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।
कराञ्चलौ संज्वलिताकृतिस्त्वमदृश्यथाः कश्र्चन बालमीनः ॥२॥
क्षिप्तं जले त्वां चकितं विलोक्य
निन्येऽम्बुपात्रेण मुनिः स्वगेहम् ।
स्वल्पैरहोभिः कलशीं च कूपं
वापीं सरश्र्चानशिषे विभो त्वम् ॥३॥
योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् ।
पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्स्वेति वदन्नयासीः ॥४॥
प्राप्ते त्वदुक्तेऽहनि वारिधारपरिप्लुते भूमितले मुनीन्द्रः ।
सप्तर्षिभि सार्द्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ॥५॥
धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते ।
तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥६॥
झषाकृतिं योजनलक्षीदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् ।
निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तङ्गश़ृङ्गे तरणिं बबन्धुः ॥७॥
आकृष्टनौको मुनिमण्डलाय प्रदर्शयन् विश्र्वजगद्विभागान्।
संस्तूयमानों नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः ॥८॥
कल्पावधौ सप्त मुनीन् पुरोवत् प्रस्थाप्य सत्यव्रतभूतिपं तम् ।
वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥९॥
स्वतङ्गश़ृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान् गृहीत्वा ।
विरिञ्चये प्रीतहृदे ददानः प्रभञ्चनागारपते प्रपायाः ॥१०॥
॥इति मत्स्यावतारवर्णनं द्वात्रिंशत्तमदशकं समाप्तम् ॥