शक्रेण संयति हतोऽपि बलिर्महात्मा
शुक्रेण जीविततनुः क्रतुवर्धितोष्मा ।
विक्रान्तिमान् भयनिलीनसुरां त्रिलोकीं
चक्रे वशे स तव चक्रमुखादभीतः ॥१॥
पुत्रार्तिदर्शनवशाददितिर्विषण्णा
तं काश्यपं निजपतिं शरण प्रपन्ना ।
त्वत्पूजनं तदुदितं हि पयोव्रताख्यं
सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥२॥
तस्यावधौ त्वयि निलीनमतेरमुष्याः
श्यामश्र्चतुर्भुजवपुः स्वयमाविरासीः ।
नम्रां च तामिह भवत्तनयो भवेयं
गोप्यं मदीक्षणमिति प्रलयपन्नयासीः ॥३॥
त्वं काश्यपे तपसि संनिदधत्तदानीं
प्रप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा ।
प्रासूत च प्रकटवैष्णवदिव्यरूपं
सा द्वादशीश्रवणपुण्यदिने भवन्तम् ॥४॥
पुण्याश्रमं तमभिवर्षति पुष्पवर्षे -
र्हर्षाकुले सुरगणे कृततूर्यघोषे ।
बद्ध्वाञ्चलिं जय जयेति नुतः पितृभ्यां
त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥५॥
तावत् प्रजापतिमुखैरुपनीय मौञ्ची -
दण्डजिनाक्षवलयादिभिरर्च्यमानः ।
देदीप्यमानवपुरीश कृताग्निकार्य -
स्त्वं प्रास्थिथा बलिगृहं प्रकृताश्र्वेमेधम् ॥६॥
गात्रेण भाविमहिमोचितगौरवं प्राग्
व्यावृण्वदेव धरणीं चलयन्नयासीः ।
छत्रं परोष्मतिरणार्थमिवादधानो
दण्डं च दानवजनेष्वि संनिधातुम् ॥७॥
आनीतामाशु भृगुभिर्महसाभिभूतै -
स्त्वां रम्यरूपमसुरः पुलकावृताङ्गः ।
भक्त्या समेत्य सुकृती परिषिच्य पादौ
तत्तोयमन्वधृत मूर्धनि तीर्थतीर्थम् ॥९॥
प्रह्रदवंशजतया क्रतुभिर्द्विजेषु
विश्र्वासतो नु तदिदं दितिजोऽपि लेभे ।
यत्ते पदाम्बु गिरिशस्य शिरोऽभिलाल्यं
स त्वं विभो गुरुपुरालय पालयेथाः ॥१०॥
॥ इति वामनावतारवर्णनं त्रिंशत्तमदशकं समाप्तम् ॥