प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणात् सर्वथापि
त्वामाराध्यन्नजित रचयन्नञ्चलिं संजगाद ।
मत्तः किं ते समभिलषितं विप्रसूनो वद त्वं
वित्तं भक्तं भवनमवनिं वापि सर्वं प्रदास्ये ॥१॥
तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णो -
ऽप्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् ।
भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं
सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥२॥
विश्र्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं
सर्वां भूमि वृणु किममुनेत्यालपत्त्वां स दृप्यन् ।
यस्माद्दर्पात्त्रिपदपरिपूर्त्यक्षमः क्षेपवादान्
बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥३॥
पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये -
दित्युक्तेऽस्मिन् वरद भवते दातुकामेऽथ तोयम् ।
दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं
मा मा देयं हरिरयमिति व्यक्तमतेवाबभाषे ॥४॥
याचत्येवं यदि स भगवान् पूर्णकामोऽस्मि सोऽहं
दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्यः ।
विन्ध्यावल्या निजदायितया दत्तपाद्याय तुभ्यं
चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् ॥५॥
निस्संदेहं दितिकुलपतौ त्वय्यशेषापर्ण तद्
व्यातन्वाने मुमुचुर्ऋृषयः सामराः पुष्पवर्षम् ।
दिव्यं रूपं तव च तदिदं पश्यतां विश्र्वभाजा -
मुच्चैरुच्चैरवृधदवधीकृत्य विश्र्वाण्डभाण्डम् ॥६॥
त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्र्वलोकान् ।
हर्षोत्कर्षात् सुबहु ननृते खेचरैरुत्सवेऽस्मिन्
भेरीं निघ्रन् भुवनमचरज्जाम्ब्वान् भक्तिशाली ॥७॥
तावद् दैत्यास्त्वनुमतिमृते भर्तुराब्धयुद्धा
देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् ।
कालात्मायं वसति पुरतो यद्वशात् प्राग्जिताः स्मः
किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥८॥
दर्पोच्छित्त्यै विहितमखिलं दैत्य सिद्धोऽसि पुण्यै -
र्लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्र्चात्
मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं
विप्रैः संतनितमखवरः पाहि वातालयेश ॥१०॥
॥ इति बलिविध्वंसनमेकत्रिंशत्तमदशकं समाप्तम् ॥