पाण्ड्यखण्डाधिराज -
स्त्वद्भक्तत्मा चन्दनाद्रौ कदाचित् ।
मग्नधीरालुलोके
नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥१॥
कुम्भोद्भूतिः सम्भृतक्रोधभारः
स्तब्धात्मा त्वं हस्तिभूयं भजेति ।
शप्त्वाथैनं प्रत्यगात्सोत्पि लेभे
हस्तीन्द्रत्वं त्वत्समृतिव्यक्तिधन्यम् ॥२॥
दुग्धाम्भोधेर्मध्यभाजि त्रिकू टे
क्रीडन् शैले यूथपोऽयं वशाभिः ।
सर्वान् जन्तूनत्यवर्तिष्ट शक्त्या
त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥३॥
स्वेन स्थेम्ना दिव्यदेशत्वशक्त्या
सोऽयं खेदानप्रजानन् कदाचित् ।
शैलप्रान्ते घर्मतान्तः सरस्यां
यूथैः सार्द्धं त्वत्प्रणुन्नोऽभिरेमे ॥४॥
हूहूस्तावद् देवलस्यापि शापाद्
ग्राहीभूतस्तज्जले वर्तमानः ।
जग्राहैनं हस्तिनं पाददेशे
शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् ॥५॥
त्वत्सेवाया वैभवाद् दुर्निरोधं
युध्यन्तं तं वत्सराणां सहस्त्रम् ।
प्राप्ते काले त्वत्पदैकाग्यसिद्ध्य़ै
नक्राक्रान्तं हस्तिवर्यं व्यधास्त्वम् ॥६॥
आर्तिव्यक्तप्राक्तनज्ञानभक्तिः
शुण्डोत्क्षिप्तैः पुण्डरीकैः समर्च्चन् ।
निर्विशेषात्मनिष्ठं
स्तोत्रश्रेष्ठं सोऽन्वगादीत् परात्मन् ॥७॥
श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं
ब्रह्मेशाद्यैर्नामित्यप्रयाते ।
सर्वात्मा त्वं भूरिकारुण्यवेगात्
तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् ॥८॥
हस्तीन्द्रं तं हस्तपद्मेन धृत्वा
चक्रेण त्वं नक्रवर्यं व्यदारीः ।
गन्धर्वेऽस्मिन् मुक्तशापे स हस्ती
त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥९॥
एतद्वृत्तहं त्वां च मां च प्रगे यो
गायेत्सोऽयं भूयसे श्रेयसे स्यात् ।
इत्युक्त्वैनं तेन सार्द्धं गतस्त्वं
धिष्णयं विष्णो पाहि वातालयेश ॥१०॥
॥ इति गजेन्द्रमोक्षवर्णनं षड्विंशतितमदशकं समाप्तम् ॥