गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटम् ।
अमरस्तुतिवादमोदानिघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥१॥
विमस्थत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन् ।
हयरत्नमभूदथेभरत्नं द्युतरुश्र्चाप्सरसः सुरेषु तानि ॥२॥
जगदीश भवत्परा तदानीं कमनीयां कमला बभूव देवी ।
अमलामवलोक्य यां विलोलः सकलोऽपि स्पृहयाम्बभूव लोकः ॥३॥
त्वयि दत्तहृदे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारित् ।
सकलोपहृताभिषेचनीयैर्ऋषयस्तां श्रुतिर्गीर्भिरभ्यषिञ्चन् ॥४॥
अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीम् ।
मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्वभूषन् ॥५॥
वरणस्रजमात्तभृङ्गनादं दधती सा कुचकुम्भमन्दयाना ।
पदशिञ्चितमञ्चुनूपुरा त्वां कलितव्रीडविलासमाससाद ॥६॥
गिरिशद्रुहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् ।
अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ॥७॥
उरसा तरसा ममानिथैनां भुवनानां जननीमन्यभावाम् ।
त्वदुरोविलसत्तदीक्षणश्रीपरिवृष्ट्या परिपुष्टमास विश्र्वम् ॥८॥
अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् ।
तमसः पदवीमदास्त्वमनामतिसम्माननया महासुरेभ्यः ॥९॥
तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः ।
अमृतं कलशे वहन् कराभ्यामखिलार्तिं हर मारुतालयेश ॥१०॥
॥ इति अमृतकथने कालकूटोत्पत्तिवर्णनं लक्ष्मीस्वयंवरवर्णनम् अमृतोत्पत्तिवर्णनं च अष्टाविंशतितमदशकं समाप्तम् ॥