जातीभिर्मल्लिकाभिश्च शतपत्रैश्च केसरैः ॥ नालिकेरैश्च पुष्पैश्च कर्णिकारैश्च किंशुकैः ॥१०१॥
वेष्टितं भवनं नृणां सर्वसौख्यप्रदायकम । आदौ वृक्षाणि विन्यस्य पश्चाद गेहानि विन्यसेत ॥१०२॥
अन्यथा यदि कुर्यात्तु तदगृहं नैव शोभनम । नगरं विन्यसेदादौ पश्चाद्गेहानि विन्यसेत ॥१०३॥
अन्यथा यदि कुर्वाणस्तदा न शुभमादिशेत । पीताऽथ पूर्वे कपिला हुताशे याम्ये च कृष्णा निऋतो च श्यामा ।
शुक्ला प्रतीच्यां हरिताऽथ वायौ श्वेताथ सौम्ये धवला च ईशे ॥१०४॥
ईशानपूर्वयोर्मध्ये श्वेता पश्चिमनैॠते । तयोर्मध्ये रक्तवर्णा पताका परिकीर्तिता ॥१०५॥
सर्ववर्णा तथा मध्ये पताका किंकिणीयुता बाहुप्रमाणा कर्तव्या स्तम्भ बाहुप्रमाणकम ॥१०६॥
यद्द्वारमार्गे पूर्वे तु ध्वजः षोडशहस्तकः । स्तंभोऽस्य विधिवत स्थाप्यः सघण्टाभरणीकृतः ॥१०७॥
पुष्पमालान्वितः स्थाप्यो द्वारमार्गेऽथ दक्षिणे । इति प्रोक्तं वास्तुशास्त्रं पूर्व गर्याय धीमते ॥१०८॥
गर्गात्पराशरः प्राप्तस्तस्मात्प्राप्तो बृहद्रथः । बृहद्रथाद्विश्व कर्मा प्राप्तवान्वास्तुशास्त्रकम ॥१०९॥
स विश्वकर्मा जगतो हितायाकथयत पुनः । वासुदेवादिषु पुनर्भूलोके भक्तितोऽब्रवीत ॥११०॥
इदं पवित्रं परमं रहस्यं यः पठेन्नरः । स्यात्तस्यावितथा वाणी सत्यं सत्यं वदाम्यहम ॥१११॥
अथ सुविमलविद्यो विश्वकर्मा महात्मा सकलगुणवरिष्ठः सर्वशास्त्रार्थवेत्ता ।
सकलसुरगणानां सूत्रधारः कृतात्मा भवननिवसतां सच्छास्त्रमेतच्चरकार ॥११२॥
इति ब्रह्मोक्तविश्वकर्मप्रकाशे श्रीविश्वकर्मणोक्तवास्तुशास्त्रे त्रयोदशोऽध्यायः ॥१३॥
समाप्तोऽयं विश्वकर्मप्रकाशः ॥