ना गृहं कारयेद्धीमान्पुराणैर्न च दारुभिः । कुर्वन्नाप्नोति मरणं संपदां नाशमेव च ॥४१॥
जीर्णे तु नूतनं शस्तं नो जीर्णं नूतने शुभम । पूर्वोत्तरे नीचगता उच्चस्था दक्षिणापरे ॥४२॥
तिर्यग्गताः सर्वदिशाभागे पीडावहा गृहाः । दक्षिणे योजनमुच्चं पश्चिमे चार्द्धयोजनम ॥४३॥
तदर्द्ध मुत्तरे चैव तस्यार्द्ध पूर्वदिकस्थितम । एतद्वेधं नृपाणां च गृहाणां कथित द्विजाः ॥४४॥
विशेषेण द्विजातीनां प्रमाणं कथयाम्यतः । पूर्वोत्तरे नीचभागे शतपादान्वितं तथा ॥४५॥
दण्डानां पश्चिमे याम्ये द्विशतं सार्द्धसंयुतम । ऊर्ध्वीभूतः पुमानस्य गेहाद्गेहांतरं यदि ॥४६॥
दक्षिणस्थं प्रपश्येत तद्वेधं च विनिर्द्दिशेत । उच्चस्थोप्यथ नीचस्थं सदा याम्यगृहं त्यजेत ॥४७॥
आयुःपुत्रकलत्राणि यतः शीघ्रं विनश्यति । पूर्वोत्तरे गृहेनीचे भवेदादौ जलान्तिके ॥४८॥
मध्यभूमिर्न दोषाय यावदृष्टिपथेऽनयोः । तुंगस्थे पूर्वदिग्भागे दण्डान्विंशतिसम्मितान ॥४९॥
न चान्यजातीयरो नृपसद्म वसेन्नरः । सौम्यभागे तथा त्र्शिंच्चत्वारिंशच्च पश्चिमे ॥५०॥
याम्ये पञ्चाशत्संख्यानि दण्डानि नीचसंस्थितः । प्रासादवीथी च तथा गृहं च आग्नेयवायव्यतथेशरक्षे ।
त्रिकोणवेधः कथितः क्रमेण सुतार्थिना तत्र विवर्ज्जनीयाः ॥५१॥
आग्नेयं दृष्टितो विद्धं वायो द्विगुणभूमिषु नैऋत्येदृक्पथं यावदीशाने त्रिगुणं गृहात ॥५२॥
एतनृपाणां कथितं वर्णानामनुपूर्वशः । पूर्वाशादिक्रमेणैव ब्रह्माणादिक्रमेण च । पञ्चाशद्धनुषान्नीच्चैर्विधेयं द्विजमंन्दिरात ।
तथा सोम्यजनो नीचो दण्डान सप्ततिसंमितान ॥५३॥
जलाशासंस्थितोऽप्युच्चे प्रान्तदण्डान हरेत पुरात । याम्योच्चस्थो हरेद्गेहं दण्डान विंशतिसम्मितान ॥५४॥
शूद्राणां तु समासेन कथयामि परात्पुरम । दशदण्डाणि पर्यन्तं प्रयान्ते पूर्वनीचगम ॥५५॥
उत्तरे द्वादशं दण्डं नीचस्तानस्थितस्य तु । पश्चिमे त्रिशद्दण्डानि यदि चेदुच्चभूमिषु ॥५६॥
दक्षिणे शतदण्डानि गृहाणि परिवर्जयेत । वैपरित्ये पादहीनान दण्डान्सन्त्यज्य बुद्धिमान ॥५७॥
शतं दण्डानि पर्यन्तं पीड्यते पूरवासिनाम । समभूमिषु सन्त्याज्यो वेधोऽयं द्विजपुंगवैः ॥५८॥
दक्षिणेऽन्तोदिग्विषये स्थितो वा । ऊर्ध्वे च नीचे यमदिक्स्थितस्य गेहं च चाग्रे प्रभवेच्च दोषः ॥५९॥
अमावस्योद्भवा कन्या पितृहायोगतः सुतः । तथा याम्यं गृहं त्याज्यं नरेण भूतिमिच्छता ॥६०॥