विषमे न भवेद्वेधं न वेधं नतोन्नते । गृहस्य दक्षिणे भागे कूपो दोषप्रदो मतः ॥८१॥
अपत्यहामिर्भूनाशस्त्वथा रोगमद्बुतम । अदर्शनेन दीपारे दुरे वा समभूमिषु ॥८२॥
न वेधन्ते गृहाः सर्वे यथोक्तदिशि संस्थिताः । अश्वत्थश्च प्लक्षवटोदुम्बराश्च क्रमेण च ॥८३॥
पूर्वादिदिक्षु वेधः स्यात्सर्वेषां प्राक्तना विदुः । राजवृक्षं तथा निम्बं चाम्रकं कदलीफलम ॥८४॥
पूर्वादिक्रमयोगेन वेधन्त्येतद द्रुमांस्तथा । आग्नेयादिक्रमेणेव क्षीरिणोऽथ कदम्बकाः ॥८५॥
कण्टकाः कदलीस्तम्भा वेधन्ते फलद्रुमाः । विवरं पूर्वादिग्भागे दक्षिणे मठमन्दिरम ॥८६॥
पश्चिमे पौष्करं तोयं खातमुत्तरसंज्ञके । पूर्वेण फलिनो वृक्षाः क्षीरवृक्षाश्च दक्षिणे ॥८७॥
पश्चिमे जलजा वृक्षा रिपुतो भयदायकाः । क्षीरिणश्चार्थनाशाय फलिनो दोषदा मताः ।
दशदण्डानि पर्यन्तं पीड्यन्ते पूरवासिनाम ॥८८॥
कलहं चाक्षिरोगं च व्याधिशोकं धनक्षतिः ॥८९॥
वीथ्यन्तरेण दोषः स्यान्न दोषश्चैत्यमध्यमे ॥९१॥
न दोषः पुष्करान्तस्थं न दोषो बाणघातके । न दोषं तु विकोणे तु न दोषं फलवृक्षके ॥९२॥
न दोषं भग्न मन्दिरे । चतुष्पथान्ते न भवेद्वेधो जीर्णगृहान्तरे ॥९३॥
अतुच्चमतिनीचं च मध्ये विषमलंघनम । अन्तरजलाद्रिपतेन वेधदोषो न विद्यते ॥९४॥
अन्तरारोपिता वृक्षा बिल्वदाडिमकेसराः । न तत्र वेधदोषः स्यात्सत्यं ब्रह्ममुखाच्छ्रतम ॥९५॥
वेधदोषे - षडवर्षे म्रियते स्वामी गतश्रीर्न्नवमे भवेत । चतुर्थे पुत्रनाशः स्यासर्वनाशस्तथाष्टमे ॥९६॥
पक्षेण मासेन ऋतुत्रयेण संवत्सरेणापि फलं विधत्ते । शुभाशुभं क्षेममिदं बुधैस्तु नातः परं तत्र विचारमस्ति ॥९७॥
मातंगो दक्षिणे भागे पूर्वे पश्चात्तथोत्तरे । सिंहोविधत्ते मरणं पुत्राणां दोषदं महत ॥९८॥
पूर्वे वृषं तथा तोये ध्वजं दोषकरं महत । इति कण्ठिरवौ गेहौ याम्यपश्चिमदिक्स्थितौ ॥९९॥
पूर्वोत्तरे ध्वजोक्षाणां महापीडाकरौ मतौ । जम्बीरैः पुष्पवृक्षैश्च पनसैर्दाडिमैस्तथा ॥१००॥