प्रथमोऽध्यायः - श्लोक १०१ ते १२८

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


त्रिषु त्रिषु च मासेषु नभस्यादिषु च क्रमात । यद्दिंमुखो वास्तुनरस्तन्मुखं सदनं शुभम ॥१०१॥

अन्यदिंमुखगेहं तु दुःख शोकभयप्रदम । वृषार्कादित्रिकं वेद्यां सिंहादी गणयेद्गृहे ॥१०२॥

देवालये च मीनादि तडागे मकरादिजम । पूर्वादिषु शिरः कृत्वा नागश्शेते त्रिभिस्त्रिभीः ॥१०३॥

भाद्राद्यैर्वामपार्श्वे च तस्य क्रोडे गृहं शुभम । ईशानतः कालसर्पः संहारेण प्रसर्पति ॥१०४॥

विदिक्षु शेषवास्तोश्च मुखं त्याज्यं चतुर्थकम । खनेच्च सौरमानेन व्यत्ययं चाशुभं भवेत ॥१०५॥

चतुस्त्रिकादि शालानामेष दोषो न विद्यते । एकं नागोडुसंशुद्ध्या मंदिरारंभणं शुभम ॥१०६॥

अधोमुखे च नक्षत्रे शुभेऽह्नि शुभवासरे । चन्द्र्तारानुकुल्ये च खननारम्भणं शुभम ॥१०७॥

त्रिषु त्रिषु च मासेषु मार्गशीर्षादिषु क्रमात । पूर्वदक्षिणतोयेशपौलस्त्याशाक्रमादगुः ॥१०८॥

स्तंभे वंशविनाशः स्याद्द्वारे वह्निभयं भवेत । गमने कार्यहानिः स्यादूगृहारम्भे कुलक्ष्ययः ॥१०९॥

रक्षःकुबेराग्निजलेशयाम्यवायव्यकाष्ठसु च सूर्य्यवारात । वसेदगुश्चाष्टसु दिग्भचक्रे मुखे विवज्यो गमनं गृहं च ॥११०॥

शिरःखने विनाशः स्यान्मातापित्रोश्च पृष्ठके । स्त्रीपुत्रनाशः पुच्छे तु गात्रे पुत्रविनाशनम ॥१११॥

कुक्षौ सर्वसमृद्धिः स्याद्धनधान्यसुतागमः । सिंहादिषु च मासेषु आग्नेय्यां कुक्षिमाश्रितः ॥११२॥

वृश्चिकादिषु ईशान्यां कुम्भदिषु च वायुदिक । वृषादिषु च नैऋत्ये मुखं पुच्छं न शोभनम ॥११३॥

कृत्तिकाद्यं सप्तं पूर्वे मघाद्यं सप्त दक्षिणे । मैत्राद्यं पश्चिमे सप्त धनिष्ठद्यं तथोत्तरे ॥११४॥

अग्रे चंद्रे स्वामिभयं कर्मकर्ता च पृष्ठके । दक्षिणे च धनं दद्युर्वामे स्त्रीसुखसंपदः ॥११५॥

गृहोलब्धऋक्षेषु यत्र ऋक्षेषु चन्द्रमाः । शलाकासप्तके देयं कृत्तिकादिक्रमेण च ॥११६॥

ऋक्षं चन्द्रस्य वास्तोश्च अग्रे पृष्ठे न शस्यते । लग्नादृक्षाव्दिचार्योऽसौ चन्द्रः सद्यः फलप्रदः ॥११७॥

गृहचन्दे सम्मुखस्थे पृष्ठस्थे न शुभं गृहम वामदक्षिणगश्चन्द्रः प्रशस्तो वास्तुकर्मणि ॥११८॥

लोहद्ण्डं च सम्पूज्य भैरवश्च तथैव च तद्दिक्पालं नमस्कृत्य पृथिवीञ्च तथैव च ॥११९॥

शिवो नामेति मंत्रेण लोहद्ण्डं प्रपूजयेत । निवर्तयामीत्यृचा वै ध्यायेदीशमुमापतिम ॥१२०॥

बलेन लोहदण्डेन निखने द्वास्तुपुरुषम । यावत्प्रमाणां भुवमेति तावत्तस्य स्थितिर्भवेत ॥१२१॥

तं लोहदंडं वस्त्राक्तं ब्राह्मणाय निवेदयेत । पुत्राद्यं विषमेंऽगुल्ये समेंऽगुल्ये तु कन्यकाम ॥१२२॥

निर्दिशेत्तु तर्योर्मध्ये लोहखंडार्त्तिदं तथा । तस्मिनकाले शुभां वाणी मांगल्य चारुदर्शनम ॥१२३॥

वेदगीतध्वनि पुष्पफललाभं तथैव च । वेणुवीणामृदंगानां श्रवणं दर्शनं शुभम ॥१२४॥

दधिदुर्वाकुशाश्चेति कल्याणद्रव्यदर्शनम । सुवर्ण रजतं ताम्रं शंखमौक्तिकविद्रुमान ॥१२५॥

मणयो रत्नवैंगुर्यस्फाटिकं सुखदा मृदः । गारुडं च फलं पुष्पं मृन्मयं गुल्ममेव च ॥१२६॥

खाद्यानि कन्दमुलानि सा भूमिः सुखदायिनी । कण्टकञ्च तथा सर्प खर्जूरं दर्द्रुमेव च ॥१२७॥

वृश्विकाश्मकवज्रञ्च विवरं लोहमुद्गरम । केशांगारकभस्माश्च चर्मास्थि लवणं तथा ॥१२८॥

रुधिरञ्च तथा मज्जा रसाक्ता ता न शोभनाः ॥

इति वास्तुशास्त्रे भूम्यादिपरीक्षालक्षणवर्णनं नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP