वज्राग्निदूषिते भग्ने सर्पचाण्डालवेष्टिते । उलूकवासिते सप्तरात्रौ काकाधिबासिते ॥२१॥
म्रृगाधिवासिते रात्रौ गोमार्जाराभिनादिते । वारणाश्वादिविरुते स्त्रीणां युद्धाभिदूषिते ॥२२॥
कपोतकगृहावासे मधूनां निलये तथा । अनैश्वैव महोत्पातैर्दूषिते शांतिमाचरेत ॥२३॥
अथ भूमिलक्षणम ॥
अथातः संप्रवक्ष्यामि लोकानां हित काम्यया । श्वेता रक्ता तथा पीता कृष्णा वर्णानुपूर्व्यतः ॥२४॥
सुगंधा ब्राह्मणी भूमि रक्तगंधा तु क्षत्रिया । मधुगंधा भवेव्दैश्या मद्यगंधा च शूद्रीका ॥२५॥
मधूरा ब्राह्मणी भूमिः कषाया क्षत्रिया मता । अम्ला वैश्या भवेद्भूमिस्तिक्ता शूद्रा प्रक्रीर्तिता ॥२६॥
चतुरस्त्रां द्विपाकारां सिंहोक्षाश्वेभरुपिणीम । वृत्तञ्च भद्रपीठञ्च त्रिशूलं लिंगसन्निभम ॥२७॥
प्रासादध्वजकुम्भादिदेवानामपि दुर्लभाम । त्रिकोणां शकटाकारां शूर्पव्यजनसन्निभाम ॥२८॥
मुरजाकारसदृशां सर्पमण्डूकरुपिणीम । खराजगरसंकाशां बकाञ्चिपिटरुपिणीम ॥२९॥
मुद्गराभां तथोलुककाकसर्प्पनिभां तथा । शूकरोष्ट्राजसदृशां धनुःपरशुरुपिणीम ॥३०॥
कृकलासशवाकारां दुर्गम्या च विवर्जयेत । मनोरमा च या भूमिः परीक्षेत प्रयत्नतः ॥३१॥
द्वितीया दृढभूमिश्च निम्ना चोत्तरपूर्वके । गम्भीरा ब्राह्मणी भूमिर्नृपाणां तुंगाश्रिता ॥३२॥
वैश्यानां समभूमिश्व शूद्राणां विकटा स्मृता । सर्वेषां शूद्राणां विकटा स्मृता ।
सर्वेषां चैव वर्णानां समभूमिः शुभावहा ॥३३॥
शुक्लवर्णां च सर्वेषां शुभा भूमिरुदाह्र्ता । कुशकाशयुता ब्राह्मी दूर्वा नृपतिवर्गगा ॥३४॥
फलपुष्पलता वैश्या शूद्राणां तृणसंयुता । नदीघाताश्रितां तद्वन्महापाषाणसंयुताम ॥३५॥
पर्वताग्रेषु संलग्नां विवरसंयुताम । वक्रां सूर्यानिभां तद्वल्लकुटाभां कुरुपिणीम ॥३६॥
मुसलाभां महाघोरां वायुना वापि पीडिताम । भल्लभल्लूकसंयुक्तांमध्ये विकटरुपिर्णांम ॥३७॥
श्वश्रृगालानिभां रुक्षां दन्तकैः परिवारिताम । चैत्यमश्मशानवल्मीकधूर्तकालयवर्जिताम ॥३८॥
चतुष्पथमहावृक्षदेवमत्रिनिवासिताम । दूराश्रितां च भूगर्तयुक्तां चैव विवर्जयेत ॥३९॥
इतिभूमिलक्षणम ॥
अथ फलानि ॥
स्ववर्णागंधा सुरसा धनधान्यसुखावहा । व्यत्यये व्यत्ययफला अतः कार्य परीक्षणाम ॥४०॥