श्रीगणेशाय नमः ॥
जयति वरदमूर्तिमंगलं मंगलानां जयति सकलवद्यां भारती ब्रह्मरुपा ।
जयति भुवनमाता चिन्मयी मोक्ष रुपा दिशतु मम महेशो वांगमयः शब्दरुपम ॥१॥
आब्रह्मभुवनाल्लोका गृहस्थाश्रममाश्रिताः । यतस्तस्माद गृहारम्भप्रवेश समयं ह्यहम ॥२॥
प्रवक्ष्यामि मुनिश्रेष्ठ श्रृणुष्वैकाग्रमानसः । यदुकं शम्भुना पूर्व वास्तुशास्त्रं पुरातनम ॥३॥
पराशरः प्राह बृहद्रथाय बृहद्रथः प्राह च विश्वकर्मणे । स विश्वकर्मा जगतां हिताय प्रोवाच शास्त्र बहुभेदयुक्तम ॥४॥
विश्वकर्मोवाच ॥
वास्तुशास्त्रं प्रवक्ष्यामि लोकानां हितकाम्यया ॥५॥
पुरा त्रेतायुगे ह्यासीन्महाभूतं व्यवस्थितं । स्वाप्यमानं शरीरेण सकलं भुवनं ततः ॥६॥
तं दृष्ट्वा विस्मयं देवा गताः सेन्द्रा भयावृताः । ततस्ते भयमापन्ना ब्रह्माणं शरणं ययुः ॥७॥
भूतभावन भूतेश महद्भयमुपस्थितम । क्व यास्याम क्व गच्छामो वयं लोकपितामहं ॥८॥
मा कुर्वन्तु भयं देवा विगृह्यैतन्महाबलम । निपात्त्याधोमुखं भूमौ निर्विशंका भविष्यथ ॥९॥
ततस्तैः क्रोधसन्त्प्तैर्गृहीत्वा तं महाबलंम । विनिक्षिप्तमधो वक्रं स्थितास्तत्रैव ते सुराः ॥१०॥
तमेव वास्तुपुरुषं ब्रह्मा समसृजत्प्रभुः । कृष्णपक्षे तृतीयानां मासि भाद्रपदे तथा ॥११॥
शनिवारे॓ऽभवज्जन्म नक्षत्रे कृत्तिकासु च । योगस्तस्य व्यतीपातः करणं विष्टिसंज्ञकम ॥१२॥
भद्रान्तरेऽभवज्जन्म कुलिके तु तथैव च । क्रोशमानं महाशब्दं ब्रह्माणं समपद्यत ॥१३॥
चराचरमिदं सर्वं त्वया सृष्टं जगत्प्रभो । विनापराधेन च मां पीडयंति सुरा भृषम ॥१४॥
वरं तस्मै ददौ प्रीतो ब्रह्मा लोकपितामहः । ग्रामे वा नगरे वापि दुर्गे वा पत्तनेऽपि वा ॥१५॥
प्रासादे च प्रपायां च जलोद्याने तथैव च । यस्त्वां न पूजयेन्मर्त्यो मोहाद्वास्तु नर प्रभो ॥१६॥
अश्रियं मृत्युमाप्नोति विघ्न्स्तस्य पदेपदे । वास्तुपूजा मकुर्वाणस्तवाहारो भविष्यति ॥१७॥
इत्युत्त्कान्तर्दधे सद्यो देवो ब्रह्मविदां वरः । वास्तुपूजां प्रकुर्वीत गृहारम्भे प्रवेशने ॥१८॥
द्वाराभिवर्तने चैव त्रिविध च प्रवेशने । प्रतिवर्षे च यज्ञादौ तथा पुत्रस्य जन्मनि ॥१९॥
व्रतबंधे विवाहे च तथैव च महोत्सवे । जीर्णोद्धारे तथा शल्यन्यासे चैव विशेषतः ॥२०॥