वेदाध्यायी हि अप्रमत्तः अधीते स्वप्ने अभिवासितः । जपिता तु जपति एव तथा ध्याता अपि वासयेत् ॥ ८१॥
विरोधिप्रत्ययं त्यक्त्वा नैरन्तर्येण भावयन् । लभते वासना आवेशात् स्वप्नादौ अपि भावनाम् ॥ ८२॥
भुञ्जानः अपि निज आरब्धम् आस्था अतिशयतः अनिशम् । ध्यातुं शक्तः न सन्देहः विषयव्यसनी यथा ॥ ८३॥
परव्यसनिनी नारी व्यग्रा अपि गृहकर्मणि । तत् एव आस्वादयति अन्तः परसङ्गरसायनम् ॥ ८४॥
परसङ्गं स्वादयन्त्याः अपि नः गृहकर्म तत् । कुण्ठीभवेत् अपि तु एतत् आपातेन एव वर्तते ॥ ८५॥
गृहकृत्यव्यसनिनी यथा सम्यक् करोति तत् । परव्यसनिनी तद्वत् न करोति एव सर्वथा ॥ ८६॥
एवं ध्यान एकनिष्ठः अपि लेशात् लौकिकम् आचरेत् । तत्त्ववित् तु अविरोधित्वात् लौकिकं सम्यक् आचरेत् ॥ ८७॥
मायामयः प्रपञ्चः अयम् आत्मा चैतन्यरूपधृक् । इति बोधे विरोधः कः लौकिक व्यवहारिणः ॥ ८८॥
अपेक्षते व्यवहृतिः न प्रपञ्चस्य वस्तुताम् । न अपि आत्मजाड्यं किं तु एषा साधनानि एव काङ्क्षति ॥ ८९॥
मनो वाक् काय तत् बाह्य पदार्थाः साधनानि तान् । तत्त्ववित् न उपमृद्नाति व्यवहारः अस्य नः कुतः ॥ ९०॥
उपमृद्नाति चित्तं चेत् ध्याता असौ न तु तत्त्ववित् । न बुद्धिम् अर्दयन् दृष्टः घटतत्त्वस्य वेदिता ॥ ९१॥
सकृत् प्रत्यय मात्रेण घटः चेत् भासते सदा । स्वप्रकाशः अयम् आत्मा किं घटवत् च न भासते ॥ ९२॥
स्वप्रकाशतया किं ते तत् बुद्धिः तत्त्ववेदनम् । बुद्धिः च क्षणनाश्य इति च उद्यं तुल्यं घट आदिषु ॥ ९३॥
घट आदौ निश्चिते बुद्धिः नश्यति एव यदा घटः । इष्टः नेतुं तदा शक्य इति चेत् समम् आत्मनि ॥ ९४॥
निश्चित्य सकृत् आत्मानं यदा अपेक्षा तदा एव तम् । वक्तुं मन्तुं तथा ध्यातुं शक्नोति एव हि तत्त्ववित् ॥ ९५॥
उपासक इव ध्यायं लौकिकं विस्मरेत् यदि । विस्मरति एव सा ध्यानात् विस्मृतिः न तु वेदनात् ॥ ९६॥
ध्यानं तु ऐच्छिकम् एकस्य वेदनात् मुक्ति सिद्धितः । ज्ञानात् एव तु कैवल्यम् इति शास्त्रेषु डिण्डिमः ॥ ९७॥
तत्त्ववित् यदि न ध्यायेत् प्रवर्तेत तदा बहिः । प्रवर्ततां सुखेन अयं कः बाधः अस्य प्रवर्तने ॥ ९८॥
अतिप्रसङ्गः इति चेत् प्रसङ्गं तावत् ईरय । प्रसङ्गः विधिशास्त्रं चेत् न तत् तत्त्व विदं प्रति ॥ ९९॥
वर्णाश्रम वयः अवस्था अभिमानः यस्य विद्यते । तस्य एव च निषेधाः च विधयः सकलाः अपि ॥ १००॥