संवादि भ्रमवत् ब्रह्मतत्त्व उपास्त्या अपि मुच्यते । उत्तरे तापनिये अतः श्रुतोपातिः अनेकधा ॥ १॥
मणि प्रदीप प्रभयोः मणि बुद्ध्या अभिधावतोः । मिथ्याज्ञान अविशेषे अपि विशेषः अर्थक्रियां प्रति ॥ २॥
दीपः अपवकस्यान्तर् वर्तते तत् प्रभा बहिः । दृश्यते द्वारि अथ अन्यत्र तद्वत् दृष्टा मणेः प्रभा ॥ ३॥
दूरे प्रभाद्वयं दृष्ट्वा मणिबुद्ध्या अभिधावतोः । प्रभायां मणिबुद्धिः तु मिथ्याज्ञानं द्वयोः अपि ॥ ४॥
न लभ्यते मणिः दीपप्रभां प्रति अभिधावता । प्रभायां धावता अवश्यं लभ्यतैव मणिः मणेः ॥ ५॥
दीपप्रभामणिभ्रान्तिः विसंवादिभ्रमः स्मृतः । मणिप्रभामणिभ्रान्तिः संवादिभ्रम उच्यते ॥ ६॥
बाष्पं धूमतया बुध्वा तत्र अङ्गार अनुमानतः । वह्निः यत् ऋच्छया सः संवादिभ्रमः मतः ॥ ७॥
गोदावरि उदकं गङ्गोदकं मत्वा विशुद्धये । सम्प्रोक्ष्य शुद्धिम् आप्नोति सः संवादिभ्रमः मतः ॥ ८॥
ज्वरेण आप्तः सन्निपातं भ्रान्त्या नारायणं स्मरन् । मृतः स्वर्गम् अवाप्नोति सः संवादिभ्रमः मतः ॥ ९॥
प्रत्यक्षस्य अनुमानस्य तथा शास्त्रस्य गोचरे । उक्तन्यायेन संवादिभ्रमः सन्ति हि कोटिशः ॥ १०॥
अन्यथा मृत्तिका दारु शिलाः स्युः देवताः कथम् । अग्नित्व आदि धिय उपास्याः कथं वा योषित् आदयः ॥ ११॥
अयथा वस्तु विज्ञानात् फलं लभ्यतः ईप्सितम् । काकतालीयतः सः अयं संवादिभ्रमः उच्यते ॥ १२॥
स्वयं भ्रमः अपि संवादी यथा सम्यक् फलप्रदः । ब्रह्मतत्त्व उपासना अपि तथा मुक्तिफलप्रदा ॥ १३॥
वेदान्तेभ्यः ब्रह्मतत्त्वम् अखण्ड एकरसात्मकम् । परोक्षम् अवगम्य एतत् अहम् अस्मि इति उपासते ॥ १४॥
प्रत्यक् व्यक्तिम् अनुल्लिख्य शास्त्रात् विष्णु आदि मूर्तिवत् । अस्ति ब्रह्म इति सामान्य ज्ञानम् अत्र परोक्षधीः ॥ १५॥
चतुर्भुज आदि अवगतौ अपि मूर्तिम् अनुल्लिखन् । अक्षैः परोक्षज्ञानी एव न तदा विष्णुम् ईक्षते ॥ १६॥
परोक्षत्व अपराधेन भवेत् न अतत्त्ववेदनम् । प्रमाणेन एव शास्त्रेण सत्यमूर्तेः विभासनात् ॥ १७॥
सच्चिदानन्दरूपस्य शास्त्रात् भाने अपि अनुल्लिखम् । प्रत्यंचं साक्षिणं तत् तु ब्रह्म साक्षात् न वीक्षते ॥ १८॥
शास्त्रोक्तेन एव मार्गेण सच्चिदानन्दनिश्चयात् । परोक्षम् अपि तत् ज्ञानं तत्त्वज्ञानं न तु भ्रमः ॥ १९॥
ब्रह्म यदि अपि शास्त्रेषु प्रत्यक्त्वेन एव वर्णितम् । महावाक्यैः तथापि एतत् दुर्बोधम् अविचारिणः ॥ २०॥