अवास्तवी वेद्यता चेत् उपास्यत्वं तथा न किम् । वृत्ति व्याप्तिः वेद्यता चेत् उपास्यत्वे अपि तत् समम् ॥ ६१॥
का ते भक्तिः उपास्तौ चेत् कः ते द्वेषः तत् ईरय । मान अभावः न वाच्यः अस्यां बहुश्रुतिषु दर्शनात् ॥ ६२॥
उत्तरस्मिन् तापनीये शैब्यप्रश्ने अथ काठके । माण्डुक्यादौ च सर्वत्र निर्गुण उपास्तिः ईरिता ॥ ६३॥
अनुष्ठान प्रकारः अस्याः पञ्चीकरणः ईरितः । ज्ञानसाधनम् एतत् चेत् न इति केन अत्र वारितम् ॥ ६४॥
न अनुतिष्ठति कः अपि एतत् इति चेत् मानुतिष्ठतु । पुरुषस्य अपराधेन किम् उपास्तिः प्रदुष्यति ॥ ६५॥
इतः अपि अतिशयं मत्वा मन्त्रान् वश्य आदि कारिणः । मूढाः जपन्तु तेभ्यः अतिमूढाः कृषिम् उपासताम् ॥ ६६॥
तिष्ठन्तु मूढाः प्रकृता निर्गुण उपास्तिः ईर्यते । विद्या एक्यात् सर्वशाखास्थान् गुणान् अत्र उपसंहरेत् ॥ ६७॥
आनन्द आदेः विधेयस्य गुणसङ्घस्य संहृतिः । आनन्द आदयः इति अस्मिन् सूत्रे व्यासेन वर्णिता ॥ ६८॥
अस्थूल आदेः निषेध्यस्य गुणसङ्घस्य संहृतिः । तथा व्यासेन सूत्रे अस्मिन् उक्त अक्षरधियां तु इति ॥ ६९॥
निर्गुण ब्रह्मतत्त्वस्य विद्यायां गुणसंहृतिः । न युज्येत इति उपालम्भः व्यासं प्रति एव मां न तु ॥ ७०॥
हिरण्य स्मश्रु सूर्य आदि मूर्तीनाम् अनुदाहृतेः । अविरुद्धं निर्गुणत्वमिति चेत् तुष्यतां त्वया ॥ ७१॥
गुणानां लक्षकत्वेन न तत्त्वे अन्तःप्रवेशनम् । इति चेत् अस्तु एवम् एव ब्रह्म तत्त्वम् उपास्यताम् ॥ ७२॥
आनन्द आदिभिः अस्थूल आदिभिः च आत्मा अत्र लक्षितः । अखण्ड एकरसः स अहम् अस्मि इति एवम् उपाते ॥७३॥
बोध उपास्त्योः विशेषः कः इति चेत् उच्यते शृणु । वस्तुतत्न्त्रः भवेत् बोधः कर्तृ तन्त्रम् उपासनम् ॥ ७४॥
विचारात् जायते बोधः अनिच्छा यं न निवर्तयेत् । स्व उत्पत्ति मात्रात् संसारे दहति अखिल सत्यताम् ॥ ७५॥
तावता कृतकृत्यः सन् इति अतृप्तिम् उपागतः । जीवन्मुक्तिम् अनुप्राप्य प्रारब्धक्षयम् ईक्षते ॥ ७६॥
आप्त उपदेशं विश्वस्य श्रद्धालुः अविचारयन् । चिन्तयेत् प्रत्ययैः अन्यैः अनन्तरितवृत्तिभिः ॥ ७७॥
यावत् चिन्त्य स्वरूपत्व अभिमानः स्वस्य जायते । तावत् विचिन्त्य पश्चात् च तथा एव अमृति धारयेत् ॥ ७८॥
ब्रह्मचारी भिक्षमाणः युतः संवर्गविद्यया । संवर्गरूपतां चित्ते धारयित्वा हि अभिक्षता ॥ ७९॥
पुरुषस्य इच्छया कर्तुम् अकर्तुं कर्तुम् अन्यथा । शक्य उपास्तिः अतः नित्यं कुर्यात् प्रत्यय सन्ततिम् ॥ ८०॥