अतीतेन अपि महिषीस्नेहेन प्रतिबन्धतः । भिक्षुः तत्त्वं न वेद इति गाथा लोके प्रगीयते ॥ ४१॥
अनिसृत्य गुरुः स्नेहं महिष्यां तत्त्वम् उक्तवान् । ततः यथावत् वेद एष प्रतिबन्धस्य संक्षयात् ॥ ४२॥
प्रतिबन्धः वर्तमानः विषय आसक्ति लक्षणः । प्रज्ञामान्द्यं कुतर्कः च विपर्यय दुराग्रहः ॥ ४३॥
शम आद्यैः श्रवण आद्यैः च तत्र तत्र उचितैः क्षयम् । नीते अस्मिन् प्रतिबन्धे अतः स्वस्य ब्रह्मत्वम् अश्नुते ॥ ४४॥
आगामि प्रतिबन्धः च वामदेवे समीरितः । एकेन जन्मना क्षीणः भरतस्य त्रि जन्मभिः ॥ ४५॥
योगभ्रष्टस्य गीतायाम् अतीते बहुजन्मनि । प्रतिबन्धक्षयः प्रोक्तः न विचारः अपि अनर्थकः ॥ ४६॥
प्राप्य पुण्यकृतां लोकान् आत्मतत्त्व विचारतः । शुचीनां श्रीमतां गेहे साभिलाषः अभिजायते ॥ ४७॥
अथवा योगिनामेव कुले भवति धीमताम् । निस्पृहः ब्रह्मतत्त्वस्य विचारात् तत् हि दुर्लभम् ॥ ४८॥
तत्र तं बुद्धिसंयोगं लभते पूर्वदेहिकम् । यतते च ततः भूयः तस्मात् एतत् हि दुर्लभम् ॥ ४९॥
पूर्व अभ्यासेन तेन एव ह्रियते हि अवशः अपि सः । अनेक जन्म संसिद्धः ततः याति परां गतिम् ॥ ५०॥
ब्रह्मलोक अभिवाञ्छायां सम्यक् सत्यां निरुध्य ताम् । विचारयेत् यः आत्मानं न तु साक्षात् करोति अयम् ॥ ५१॥
वेदान्त विज्ञान सुनिश्चित अर्थाः इति शास्त्रतः । ब्रह्मलोके स कल्पान्ते ब्रह्मणा सह मुच्यते ॥ ५२॥
केषांचित् स विचारः अपि कर्मणा प्रतिबद्ध्यते । श्रवणाय अपि बहुभिः यः न लभ्यः इति श्रुतेः ॥ ५३॥
अत्यन्त बुद्धिमान्द्यात् वा सामग्र्या वा अपि असत् भवाम् । यः विचारं न लभते ब्रह्म उपासीतः सः अनिशम् ॥ ५४॥
निर्गुण ब्रह्म तत्त्वस्य न हि उपास्तेः असम्भवः । सगुण ब्रह्मणि इव अत्र प्रत्यय आवृत्ति सम्भवात् ॥ ५५॥
अवाङ्मनसगम्यं तत् न उपास्यम् इति चेत् तदा । अवाङ्मनसगम्यस्य वेदनं न च सम्भवेत् ॥ ५६॥
वाक् आदि अगोचर आकारम् इति एवं यदि वेत्ति असौ । वाक् आदि अगोचराकारम् इति उपासित नः कुतः ॥ ५७॥
सगुणत्वम् उपास्यत्वात् यदि वेद्यत्वतः अपि तत् । वेद्यं चेत् लक्षण आवृत्त्या लक्षणं समुपास्यताम् ॥ ५८॥
ब्रह्म विद्धि तत् एव त्वं न तु इदं यत् उपासते । इति श्रुतेः उपास्यत्वं निषिद्धं ब्रह्मणः यदि ॥ ५९॥
विदितात् अन्यत् एव इति श्रुतेः वेद्यत्वम् अस्य न । यथा श्रुत्या एव वेद्यं चेत् तथा श्रुत्या अपि उपास्यताम् ॥ ६०॥