देह आदि आत्मत्व विभ्रान्तौ जागृत्यां न हठात् पुमान् । ब्रह्मात्मत्वेन विज्ञातुं क्षमते मन्द धीत्वतः ॥ २१॥
ब्रह्ममात्रं सुविज्ञेयं श्रद्धालोः शास्त्रदर्शिनः । अपरोक्ष द्वैत बुद्धिः परोक्ष अद्वैत बुद्धि अनुत् ॥ २२॥
अपरोक्ष शिला बुद्धिः न परोक्षेशतां नुदेत् । प्रतिमा आदिषु विष्णुत्वे कः वा विप्रतिपद्यते ॥ २३॥
अश्रद्धालोः अविश्वासोः न उदाहरणम् अर्हति । श्रद्धालोः एव सर्वत्र वैदिकेषु अधिकारतः ॥ २४॥
सकृत् आप्त उपदेशेन परोक्षज्ञानम् उद्भवेत् । विष्णुमूर्ति उपदेशः हि न मीमांसाम् अपेक्षते ॥ २५॥
कर्म उपास्ती विचार्येते अनुष्ठेय अविनिर्णयात् । बहु शाखा विप्रकीर्णं निर्णेतुं कः प्रभुः नरः ॥ २६॥
निर्णितः अर्थः कल्पसूत्रैः ग्रथितः तावता आस्तिकः । विचारम् अन्तरेण अपि शक्तः अनुष्ठातुं अञ्जसा ॥ २७॥
उपास्तीनाम् अनुष्ठानम् आर्षग्रन्थेषु वर्णितम् । विचाराक्षम मर्त्याः च तत् श्रुत्वा उपासते गुरोः ॥ २८॥
वेदवाक्यानि निर्णेतुम् इच्छन् मीमांसतां जनः । आप्त उपदेश मन्त्रेण हि अनुष्ठानं हि सम्भवेत् ॥ २९॥
ब्रह्मसाक्षात्कृतिः तु एवं विचारेण विना नृणाम् । आप्त उपदेश मात्रेण न सम्भवति कुत्रचित् ॥ ३०॥
परोक्ष ज्ञानम् अश्रद्धा प्रतिबध्नाति न इतरत् । अविचारः अपरोक्षस्य ज्ञानस्य प्रतिबन्धकः ॥ ३१॥
विचार अपि अपरोक्षेण ब्रह्मात्मानं न वेत्ति चेत् । आपरोक्ष्य अवसानत्वात् भूयः भूयः विचारयेत् ॥ ३२॥
विचारयन् आमरणं न एव आत्मानं लभेत चेत् । जन्मान्तरे लभेत एव प्रतिबन्धक्षये सति ॥ ३३॥
इह वा अमुत्र वा विद्येति एवं सूत्रकृत उदितम् । शृण्वन्तः अपि अत्र बहवः यत् न विद्युः इति श्रुतिः ॥ ३४॥
गर्भः एव शयानः सन् वामदेवः अवबुद्धवान् । पूर्व अभ्यस्त विचारेण यद्वत् अध्ययन् आदिषु ॥ ३५॥
बहु वारम् अधीते अपि यदा न आयाति चेत् पुनः । दिनान्तरे अनधीत्य एव पूर्वाधीतं स्मरेत् पुमान् ॥ ३६॥
कालेन परिपच्यन्ते कृषि दर्भ आदयः यथा । तद्वत् आत्मविचारः अपि शनैः कालेन पच्यते ॥ ३७॥
पुनः पुनः विचारे अपि त्रिविधा प्रतिबन्धतः । न वेत्ति तत्त्वम् इति एतत् वार्तिके सम्यक् ईरितम् ॥ ३८॥
कुतः तत् ज्ञानम् इति चेत् तत् हि बन्ध परिक्षयात् । असौ अपि च भूतः वा भावी व वर्तते अथवा ॥ ३९॥
अधीत वेद वेदार्थः अपि अतः एव न मुच्यते । हिरण्य निधि दृष्टान्तात् इदम् एव हि दर्शितम् ॥ ४०॥