मराठी मुख्य सूची|स्तोत्रे|देवी कवचे| श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् देवी कवचे श्रीदुर्गासप्तशती श्रीदत्तात्रेयवज्रकवचम् ॐ अस्य श्रीचण्डीकवचस्य ब्... अथार्गलास्तोत्रम् कीलकम् रात्रिसूक्तम् श्रीसप्तश्लोकी तन्त्रोक्तं देवीसूक्तम् सिद्धकुज्जिकास्तोत्रम् दुर्गाद्वात्रिंशन्नाममाला देव्यपराधक्षमापनस्तोत्रम् कर्मसमर्पणम् श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् अन्नपूर्णास्तोत्रम् ऋग्वेदोक्तं देवीसूक्तम् प्राधानिकं रहस्यम् वैकृतिकं रहस्यम् मूर्तिरहस्यम् क्षमा-प्रार्थना श्रीभार्गवकवचम् देवी कवच - श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् देवी कवच - श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् Tags : devikavachstotraकवचदेवीस्तोत्र देवी कवच - श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् Translation - भाषांतर ईश्र्वर उवाचशतनाम प्रवक्ष्यामि शृणुष्व कमलानने ।यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती ॥ १ ॥ॐ सती साध्वी भवप्रीता भवानी भवमोचनी ।आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी ॥ २ ॥पिनाकधारिणी चित्रा चण्डघण्टा महातपाः ।मनो बुद्धिर्हंकारा चित्तरुपा चिता चितिः ॥ ३ ॥सर्वमन्त्रमयी सत्ता सत्यानन्दस्वरुपिणी ।अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः॥ ४ ॥शाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा ।सर्वविद्या दक्षकन्या द्क्षयज्ञविनाशिनी ॥ ५ ॥अपर्णानेकवर्णा च पाटला पाटलावती ।पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी ॥ ६ ॥अमेयविक्रमा क्रूरा सुन्दरी सरसुन्दरी ।वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता ॥ ७ ॥ब्राह्मी माहेश्र्वरी चैन्द्री कौमारी वैष्णवी तथा ।चामुण्डा चैव वाराही लक्ष्मीश्र्च पुरुषाकृतिः ॥ ८ ॥विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुध्दिदा ।बहुला बहुलप्रेमा सर्ववाहनवाहना ॥ ९ ॥ निशुम्भशुम्भहननी महिषासुरमर्दिनी ।मधुकैटभहन्त्री चण्डमुण्डविनाशिनी ॥ १० ॥सर्वासुरविनाशा च सर्वदानवघातिनी ।सर्वशास्त्रमयी च सर्वास्त्रधारिणी तथा ॥ ११ ॥अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी ।कुमारी चैककन्या च कैशोरी युवति यतिः ॥ १२ ॥अप्रोढा चैव प्रौढा च वृद्धमाता बलप्रदा ।महोदरी मुक्तकेशी घोररुपा महाबला ॥ १३ ॥अग्निज्वाला रौद्रमुखी कालरित्रिस्तपस्विनी ।नारायणी भद्रकाली विष्णुमाया जलोदरी ॥ १४ ॥शिवदूती कराली च अनन्ता परमेश्र्वरी ।कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी ॥ १५ ॥य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् ।नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति ॥ १६ ॥धनं धान्यं सुतं जायां हयं हस्तिनमेव च ।चतुर्वंर्गं तथा चान्ते लभेन्मुक्तिं च शाश्र्वतीम्॥ १७ ॥कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्र्वरीम् ।पूजयेत् परया भक्त्या पठेन्नामशताष्टकम् ॥ १८ ॥तस्य सिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि ।राजानो दासातां यान्ति राज्यश्रियमवाप्रुयात्॥ १९ ॥गोरोचनाअलक्तककुङ्कुमेनसिन्दूरकर्पूरामधुत्रयेण ।विलिख्य यन्त्र विधिना विधिज्ञोभवेत् सदा धारयते पुरारिः ॥ २० ॥भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते ।विलिख्य प्रपठेत् स्तोत्रं स भवेत् सम्पदां पदम् ॥ २१ ॥इति श्रीविश्र्वसारतन्त्रे दुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम् । N/A N/A Last Updated : February 10, 2008 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP