मानसागरी - अध्याय २ - गुरुभावफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


विविधवस्त्रविपूर्णकलेवरः कनकरत्नधनः प्रियदर्शनः । तृपतिवंशजनस्य च वल्लभो भवति देवगुरौ तनुगे नरः ॥१॥

सुरगुरौ धनमन्दिरसंश्रिते प्रमुदितो रुचिरः प्रमदापतिः । भवति मानधनो बहुमौक्तिकैर्गतवसुर्भविता प्रसवाह्निके ॥२॥

सहजमन्दिरगे च बृहस्पतौ भवति बन्धुगतार्थसमन्वितः । कृपणतामपि गच्छति कुत्सिते धनयुतोऽपि सदा धनहानिमान् ॥३॥

सन्माननानाधनवाहनाद्यैः संजातहर्षः पुरुषः सदैव । नृपानुकंपासमुपात्तसंपद्दम्भोलिभृन्मन्त्रिणि भूतलस्थे ॥४॥

सुत्दृदता च सुत्दृज्जनवन्दितः सुरगुरौ सुतगेहगते नरः । विपुलशास्त्रमतिः सुख भाजनं भवति सर्वजनप्रियदर्शनः ॥५॥

करिहयैश्च कृशाङ्गतनुर्भवेज्जयति शत्रुकुलं रिपुगे गुरौ । रिपुगृहे यदि वक्रगते गुरौ रिपुकुलाद्भयमातनुते विभुः ॥६॥

युवतिमन्दिरगे सुरयाजके नयति भूपतितुल्यसुखं जनः । अमृतराशिसमानवचाः सुधीर्भवति चारुवपुः प्रियदर्शनः ॥७॥

विमलतीर्थकरश्च बृहस्पतौ निधनता न मनःस्थिरता यदा । धनकलत्रविहीनकृशः सदा भवति योगपथे निरतः परम्‍ ॥८॥

सुरगुरौ नवमे मनुजोत्तमो भवति भूपतितुल्यधनी शुचिः । कृपणबुद्धिरतः कृपणः सुखी बहुधनः प्रमदानजनवल्लभः ॥९॥

दशममन्दिरगे च बृहस्पतौ तुरगरत्नविभूषितमन्दिरः । भवति नीतिगुणैर्बुधसंयुतः परवराङ्गणवर्जितधार्मिकः ॥१०॥

व्रजति भूमिपतेः समतां धनैर्निजकुलस्य विकारकरः सदा । सकलधर्मरतोऽर्थसमन्वितो भवति चायगते सुरयाजके ॥११॥

शिशुदशाभवने त्दृदि रोगवानुचितदानपराङमुख एव च । कुलधनेन सदा कुलदांभिको भवति पापगृहे च बृहस्पतौ ॥१२॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP