मानसागरी - अध्याय २ - तत्रादौ रविफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


अथ ग्रहाणां फलानि ।

मूर्त्यादयः पदार्था ज्ञायन्ते येन जन्तूनाम् ।

तदिदमधुना प्रवक्ष्ये भावाध्यायं विशेषेण ॥१॥

-------------------------------

तत्रादौ रविफलम् ।

सवित्तरि तनुसंस्थे शैशवे व्याधियुक्तो नयनगदसुदुःखी नीचसेवानुरक्तः । न भवति गृइमेधी दैवयुक्तो मनुष्यो भ्रमति विकलमूर्तिः पुत्रपौत्रैर्विहीनः ॥१॥

धनगतदिननाथे पुत्रदारैर्विहीनः कृशतनुरतिदीनो रक्तनेत्रः कुकेशः । भवति च धनयुक्तो लोहताम्रेण सत्यं न भवति गृहमेधी मानवो दुःखभागी ॥२॥

सहजभवनसंस्थे भास्करे भ्रातृनाशः प्रियजनहितकारी पुत्रदाराभियुक्तः । भवति च धनयुक्तो धैर्ययुक्तः सहिष्णुर्विपुलधनविहारी नागरीप्रीतिकारी ॥३॥

विविधजनविहारी बन्धुसंस्थो दिनेशो भवति च मृदुवेत्ता गीतवाद्यानुरक्तः । समरशिरसि युद्धे नास्ति भङ्गः कदाचित्प्रचुरधनकलत्री पार्थिवानां प्रियश्च ॥४॥

तनयगतदिनेशे शैशवे दुःखभागी न भवति धनभागी यौवने व्याधियुक्तः । जनयति सुतमेकं चान्यगेहश्च शूरश्चपलमतिविलासी क्रूरकर्मा कुचेताः ॥५॥

अरिगृहगतभानौ योगशीलो मतिस्योनिजजनहित्तकारी ज्ञातिवर्गप्रमोदी । कृशतनुगृहमेधी चारुमूर्तिर्विलासी भवति च रिपुजेता कर्मपूज्यो दृढाङ्ग ॥६॥

युवतिभवनसंस्थे भास्करे स्त्रीविलासी न भवति सुखभागी चञ्चलः पापशीलः । उदरसमशरीरो नातिदीर्घो न हस्वः कपिलनयनरुपः पिङ्गकेशः कुमूर्तिः ॥७॥

निधनगतदिनेशे चञ्चलस्त्यागशीलः किल बुधगणसेवी सर्वदा रोगयुक्तः । विकलबहुलभाषे भाग्यहीनो विशीलो रतिविहितकुचैलो नीचसेवी प्रवासी ॥८॥

ग्रहगतदिननाथे सत्यवादी सुकेशी कुलजनहितकारी देवविप्रानुरक्तः । प्रथमवयसि रोगी यौवने स्थैर्ययुक्तो बहुतरधनयुक्तोदीर्घजीवी सुमूर्तिः ॥९॥

दशमभवनसंस्थे तीव्रभानौ मनुष्यो गुणगणसुखभागी दानशीलोऽभिमानी । मृदुलघुशुचियुक्तो नृत्यगीतानुरागी नरपतिरतिपूज्यः शेषकाले च रोगी ॥१०॥

बहुतरधनभागी चायसंस्थे दिनेशे नरपतिगृहसेवी भोगहीनो गुणज्ञः । कृशतनुधनयुक्तः कामिनीचित्तहारी भवति चपलमूर्तिर्जातिवर्गप्रमोदी ॥११॥

जडमतिरतिकामी चान्ययोषिद्विलासी विहगगणविघाती दुष्टचैताः कुमूर्ति । नरपतिधनयुक्तो द्वादशस्थे दिनेशे कथकजनविरोधी जङ्घरोगी कृशाङ्गः ॥१२॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP