संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
अशीतितमोऽध्यायः

मार्कण्डेयपुराणम् - अशीतितमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


क्रौष्टुकिरुवाच

स्वायम्भुवाद्याः कथिताः सप्तैते मनवो मम ।
तदन्तरेषु ये देवा राजानो मुनयस्तथा ॥१॥

अस्मिन् कल्पे सप्त येऽन्ये भविष्यन्ति महामुने ।
मनवस्तान् समाचक्ष्व ये च देवादयश्च ये ॥२॥

मार्कण्डेय उवाच

कथितस्तव सावर्णिश्छायासंज्ञासुतश्च यः ।
पूर्वजस्य मनोस्तुल्यः स मनुर्भविताष्टमः ॥३॥

रामो व्यासो गालवश्च दीप्तिमान् कृप एव च ।
ऋष्यशृङ्गस्तथा द्रोणस्तत्र सप्तर्षयोऽभवन् ॥४॥

सुतपाश्चामिताभाश्च मुख्याश्चैव त्रिधा सुराः ।
विंशकः कथिताश्चैषां त्रयाणां त्रिगुणो गणः ॥५॥

तपस्तप्तश्च शक्रश्च द्युतिर्ज्योतिः प्रभाकरः ।
प्रभासो दयितो धर्मस्तेजोरश्मिश्चिरक्रतुः ॥६॥

इत्यादिकस्तु सुतपा देवानां विंशको गणः ।
प्रभुर्विभुर्विभासाद्यस्तथान्यो विंशको गणः ॥७॥

सुराणाममिताभानां तृतीयमपि मे शृणु ।
दमो दान्तो ऋतः सोमो वित्ताद्याश्चैव विंशतिः ॥८॥

मुख्या ह्येते समाख्याता देवा मन्वन्तराधिपाः ।
मारीचस्यैव ते पुत्राः कश्यपस्य प्रजापतेः ॥९॥

भविष्याश्च भविष्यन्ति सावर्णस्यान्तरे मनोः ।
तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनिर्मुने ॥१०॥

पाताल आस्ते योऽद्यापि दैत्यः समयबन्धनः ।
विरजाश्चार्ववीरश्च निर्मोहः सत्यवाक् कृतिः ।
विष्ण्वाद्याश्चैव तनयाः सावर्णस्य मनोर्नृपाः ॥११॥

इति श्रीमार्कण्डेयपुराणेऽशीतितमोऽध्यायः

N/A

References : N/A
Last Updated : March 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP