संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
षट्पञ्चाशोऽध्यायः

मार्कण्डेयपुराणम् - षट्पञ्चाशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


मार्कण्डेय उवाच

धराधरां जगद्योनेः पदं नारायणस्य च ।
ततः प्रवृत्ता या देवी गङ्गा त्रिपथगामिनी ॥१॥

सा प्रविश्य सुधायोनिं सोममाधारमम्भसाम् ।
ततः सम्बध्यमानार्करश्मिसङ्गतिपावनी ॥२॥

पपात मेरुपृष्ठे च सा चतुर्धा ततो ययौ ।
मेरुकूटतटान्तेभ्यो निपतन्ती ववर्तिता ॥३॥

विकीर्यमाणसलिला निरालम्बा पपात सा ।
मन्दराद्येषु पादेषु प्रविभक्तोदका समम् ॥४॥

चतुर्ष्वपि पपाताम्बुविभिन्नाङ्घ्रिशिलोच्चया ।
पूर्वा सीतेऽति विख्याता ययौ चैत्ररथं वनम् ॥५॥

तत् प्लावयित्वा च ययौ वरुणोदं सरोवनम् ।
शीतान्तञ्च गिरिं तस्मात्ततश्चान्यान् गिरीन् क्रमात् ॥६॥

गत्वा भुवं समासाद्य भद्राश्वाज्जलधिं गता ।
तथैवालकनन्दाख्या दक्षिणे गन्धमादने ॥७॥

मेरुपादवनं गत्वा नन्दनं देवनन्दनम् ।
मानसञ्च महावेगात् प्लापयित्वा सरोवरम् ॥८॥

आसाद्य शैलराजानं रम्यं हि शिखरन्तथा ।
तस्माच्च पर्वतान् सर्वान् दक्षिणोपक्रमोदितान् ॥९॥

तान् प्लावयित्वा संप्राप्ता हिमवन्तं महागिरिम् ।
दधार तत्र तां शम्भुर्न मुमोच वृषध्वजः ॥१०॥

भघीरथेनोपवासैः स्तुत्या चाराधितो विभुः ।
तत्र मुक्ता च शर्वेण सप्तधा दक्षिणोदधिम् ॥११॥

प्रविवेश त्रिधा प्राच्यां प्लावयन्ती महानदी ।
भगीरथरथस्यानु स्त्रोतसैकेन दक्षिणाम् ॥१२॥

तथैव पश्चिमे पादे विपुले सा महानदी ।
सुचक्षुरिति विख्याता वैभ्राजं साचलं ययौ । १३।
शीतोदञ्च सरस्तस्मात् प्लावयन्ती महानदी ।
सुचक्षुः पर्वतं प्राप्ता ततश्च त्रिशिखं गता ॥१४॥

तस्मात् क्रमेण चाद्रीणां शिखरेषु निपत्य सा ।
केतुमालं समासाद्य प्रविष्टा लवणोदधिम् ॥१५॥

सुपार्श्वन्तु तथैवाद्रिं मेरुपादं हि सा गता ।
(भद्रसोमेति) तत्र सोमेति विख्याता सा ययौ सवितुर्वनम् ॥१६॥

तत्पावयन्ती संप्राप्ता महाभद्रं सरोवरम् ।
ततश्च शङ्खकूटं सा प्रयाता वै महानदी ॥१७॥

तस्माच्च वृषभादीन् सा क्रमात् प्राप्य शिलोच्चयान् ।
महार्णवमनुप्राप्ता प्लावयित्वोत्तरान् कुरून् ॥१८॥

एवमेषा मया गङ्गां कथिता ते द्विजर्षभ ।
जम्बुद्वीपनिवेशश्च वर्षाणि च यथातथम् ॥१९॥

वसन्ति तेषु सर्वेषु प्रजाः किंपुरुषादिषु ।
सुखप्राया निरातङ्का न्यूनतोत्कर्षवर्जिताः ॥२०॥

नवस्वपि च वर्षेषु सप्त सप्त कुलाचलाः ।
एकैकस्मिंस्तथा देशे नद्यश्चाद्रिविनिः सृताः ॥२१॥

यानि किंपुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तम ।
तेषूद्भिज्जानि तोयानि मेघवार्यत्र भारते ॥२२॥

वार्क्षो स्वाभाविकी देश्या तोयोत्था मानसी तथा ।
कर्मजा च नृणां सिद्धर्वर्षेष्वेतेषु चाष्टसु ॥२३॥

कामप्रदेभ्यो वृक्षेभ्यो वार्क्षो सिद्धिः स्वभावजा ।
स्वाभाविकी समाख्याता तृप्तिर्देश्या च दैशिकी ॥२४॥

अपां शौक्ष्म्याच्च तोयोत्था ध्यानोपेता च मानसी ।
उपासनादिकार्यात्तु धर्मजा साप्युदाहृता ॥२५॥

न चैतेषु युगावस्था नाध्यो व्याधयो न च ।
पुण्यापुण्यसमारम्भो नैव तेषु द्विजोत्तम ॥२६॥

इति श्रीमार्कण्डेयपुराणे गङ्गावतारो नाम षट्पञ्चाशोऽध्यायः

N/A

References : N/A
Last Updated : March 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP