संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
ऊनाशीतितमोऽध्यायः

मार्कण्डेयपुराणम् - ऊनाशीतितमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


मार्कण्डेय उवाच

आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ।
भृगवोऽङ्गिरसश्चाष्टौ यत्र देवगणाः स्मृताः ॥१॥

आदित्या वसवो रुद्रा विज्ञेयाः कश्यपात्मजाः ।
साध्याश्च मरुतो विश्वे धर्मपुत्रगणास्त्रयः ॥२॥

भृगोस्तु भृगवो देवाः पुत्रा ह्यङ्गिरसः सुताः ।
एष सर्गश्च मारीचो विज्ञेयः साम्प्रताधिपः ॥३॥

ऊर्जस्वी नाम चैवेन्द्रो महात्मा यज्ञभागभुक् ।
अतीतानागता ये च वर्तन्ते साम्प्रतञ्च ये ॥४॥

सर्वे ते त्रिदशेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः ।
सहस्राक्षाः कुलिशिनः सर्व एव पुरन्दराः ॥५॥

मघवन्तो वृषाः सर्वे शृङ्गिणो गजगामिनः ।
ते शतक्रतवः सर्वे भूताभिभवतेजसः ॥६॥

धर्माद्यैः कारणैः सुद्धैराधिपत्यगुणान्विताः ।
भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्विज ॥७॥

भूर्लोकोऽयं स्मृता भूमिरन्तरिक्षं दिवः स्मृतम् ।
दिव्याख्याश्च तथा स्वर्गस्त्रैलोक्यमिति गद्यते ॥८॥

अत्रिश्चैव वसिष्ठश्च काश्यपश्च महानृषिः ।
गौतमश्च भरद्वाजौ विश्वामित्रोऽथ कौशिकः ॥९॥

तथैव पुत्रो भगवानृचीकस्य महात्मनः ।
जमदग्निस्तु सप्तैते मुनयोऽत्र नथान्तरे ॥१०॥

इक्ष्वाकुर्नाभगश्चैव धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च विख्यातो नाभागारिष्ट एव च ॥११॥

करूषश्च पृषध्रश्च वसुमान् लोकविश्रुतः ।
मनोर्वैवस्वतस्यैते नव पुत्राः प्रकीर्तिताः ॥१२॥

वैवस्वतमिदं ब्रह्मन् ! कथितन्ते मयान्तरम् ।
अस्मिन् श्रुते नरः सद्यः पठिते चैव सत्तम ।
मुच्यते पातकैः सर्वैः पुण्यञ्च महदश्नते ॥१३॥

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतकीर्तनं नामैकोनाशीतितमोऽध्यायः

N/A

References : N/A
Last Updated : March 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP