संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
द्विचत्वारिंशोऽध्यायः

मार्कण्डेयपुराणम् - द्विचत्वारिंशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


दत्तात्रेय उवाच

एवं यो वर्तते योगी सम्यग्योगव्यवस्थितः ।
न स व्यावर्तितुं शक्यो जन्मान्तरशतैरपि ॥१॥

दृष्ट्वा च परमात्मानं प्रत्यक्षं विश्वरूपिणम् ।
विश्वपादशिरोग्रीवं विश्वेशं विश्वभावनम् ॥२॥

तत्प्राप्तये महत्पुण्यमोमित्येकाक्षरं जपेत् ।
तदेवाध्ययनं तस्य स्वरूपं शृण्वतः परम् ॥३॥

अकारश्च तथोकारो मकारश्चाक्षरत्रयम् ।
एता एव त्रयो मात्राः सात्त्वराजसतामसाः ॥४॥

निर्गुणा योगिगम्यान्या चार्धमात्रोर्ध्वसंस्थिता ।
गान्धारीति च विज्ञेया गान्धारस्वरसंश्रया ॥५॥

पिपीलिकागतिस्पर्शा प्रयुक्ता मूर्ध्नि लक्ष्यते ।
यथा प्रयुक्त ओङ्गारः प्रतिनिर्याति मूर्धनि ॥६॥

तथोङ्कारमयो योगी त्वक्षरे त्वक्षरो भवेत् ।
प्राणो धनुः शरो ह्यात्मा ब्रह्म वेध्यमनुत्तमम् ॥७॥

अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।
ओमित्येतत् त्रयो वेदास्त्रयो लोकास्त्रयोऽग्नयः ॥८॥

विष्णुर्-ब्रह्मा-हरश्चैव ऋक्सामानि यजूंषि च ।
मात्राः सार्धाश्च तिस्त्रश्च विज्ञेयाः परमार्थतः ॥९॥

तत्र युक्तस्तु यो योगी स तल्लयमवाप्नुयात् ।
अकारस्त्वथ भूर्लोक उकारश्चोच्यते भुवः ॥१०॥

सव्यञ्जनो मकारश्च स्वर्लोकः परिकल्प्यते ।
व्यक्ता तु प्रथमा मात्रा द्वितीयाव्यक्तसंज्ञिता ॥११॥

मात्रा तृतीया चिच्छक्तिरर्धमात्रा परं पदम् ।
अनेनैव क्रमेणैता विज्ञेया योगभूमयः ॥१२॥

ओमित्युच्चारणात् सर्वं गृहीतं सदसद् भवेत् ।
ह्रस्वा तु प्रथमा मात्रा द्वितीया दैर्घ्यसंयुता ॥१३॥

तृतीया च प्लुतार्धाख्या वचसः सा न गोचरा ।
इत्येतदक्षरं ब्रह्म परमोङ्कारसंज्ञितम् ॥१४॥

यस्तु वेद नरः सम्यक् तथा ध्यायति वा पुनः ।
संसारचक्रमुत्सृज्य त्यक्तत्रिविधबन्धनः ॥१५॥

प्राप्रोति ब्रह्मणि लयं परमे परमात्मनि ।
अक्षीणकर्मबन्धश्च ज्ञात्वा मृत्युमरिष्टतः ॥१६॥

उत्क्रान्तिकाले संस्मृत्य पुनर्योगित्वमृच्छति ।
तस्मादसिद्धयोगेन सिद्धयोगेन वा पुनः ।
ज्ञेयन्यरिष्टानि सदा येनोत्क्रान्तौ न सीदति ॥१७॥

इति श्रीमार्कणाडेयपुराणे योगधर्मे ओङ्कारध्यायो नाम द्विचत्वारिंशोऽध्यायः

N/A

References : N/A
Last Updated : March 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP